संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १३०

आचारकाण्डः - अध्यायः १३०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


ब्रह्मोवाच ।
एवं भाद्रपदे मासि कार्तिकेयं प्रपूयेत् ।
स्नानदानादिकं सर्वमस्यामक्षय्यमुच्यते ॥१॥

सप्तम्यां प्राशयेच्चपि भोज्यं विप्रान्रविं यजेत् ।
ओं खखोल्कायमृतत्वं (तन्तं) प्रियसङ्गमो भव सद स्वाहा ॥२॥

अष्टम्यां पारणं कुर्यान्मरीचं प्राश्य स्वर्गभाक्
सप्तम्यां नियतः स्नात्वा पूजयित्वा दिवाकरम् ॥३॥

दद्यात्फलानि विप्रेभ्यो मार्तण्डः प्रीयतामिति ।
खर्जूरं नारिकेलं वा प्राशयेन्मातुलुङ्गकम् ॥४॥

सर्वे भवन्तु सफला मम कामाः समन्ततः ।
(इति फलसप्तमी)
संपूज्य देवं सप्तम्यां पायसेनाथ भोजयेत् ॥५॥

विप्रांश्च दक्षिणां दत्त्वा स्वयं चाथ पयः पिबेत् ।
भक्ष्यं चोष्यं तथा लेह्यं ओदनं चेति कीर्तितम् ॥६॥

धनपुत्रादिकामस्तु त्यजेदेतदनोदनः
वाय्वाशी विजयेत्क्षुच्च कुर्याद्विजयसप्तमीम् ।
अद्यादर्कं च कामेच्छुरुपवासे तरेन्मदम् ॥७॥

गोधूममाषयवषष्टिककांस्यपात्रं पाषाणपिष्टमधुमैषुनमद्यमांसम् ।
अभ्यञ्जनाञ्जनतिलांश्च विवर्जयेद्यः तस्येषितं भवति सप्तसु सप्तमीषु ॥८॥

(इति विजयसप्तमीव्रतम्) ।
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सप्तमीव्रतनिरूपणं नाम त्रिंशोत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP