संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ५२

आचारकाण्डः - अध्यायः ५२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ ब्रह्मोवाच ॥
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं द्विजाः ॥
ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः ॥१॥

पञ्च पातकिनस्त्वेते तत्संयोगी च पञ्चमः ॥
उपपापानि गोहत्याप्रभृतीनि सुरा जगुः ॥२॥

ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् ॥
कुर्य्यादनशनं वाथ भृगोः पतनमेव च ॥३॥

ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत्स्वयम् ॥
ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान्परित्यजेत् ॥४॥

दत्त्वा चान्नं च विदुषे ब्रह्महत्यां व्यपोहति ॥
अश्वमेधावभृथके स्नात्वा वा मुच्यते द्विजः ॥५॥

सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदापयेत् ॥
सरस्वत्यास्तरङ्गिण्याः सङ्गमे लोकविश्रुते ॥६॥

शुद्धे त्रिषवणस्नातस्त्रिरात्रोपोषितो द्विजः ॥
सेतुबन्धे नरः स्नात्वा मुच्यते ब्रह्महत्यया ॥७॥

कपालमोचने स्नात्वा वाराणस्यां तथैव च ॥
सुरापस्तु सुरां पीत्वा अग्निवर्णां द्विजोत्तमः ॥८॥

पयो घृतं वा गोमूत्रं तस्मात्पापात्प्रमुच्यते ॥
सुवर्णस्तेयी मुक्तः स्यान्मुसलेन हतो नृपैः ॥९॥

चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणव्रतम् ॥
गुरुभार्य्यां समारुह्य ब्राह्मणः काममोहितः ॥१०॥

अवगूहेत्स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् ॥
गुर्वङ्गनागामिनश्च चरेयुर्बह्महाव्रतम् ॥११॥

चान्द्रायणानि वा कुर्य्यात्पञ्च चत्वारि वा पुनः ॥
पतितेन च संसर्गं कुरुते यस्तु वै द्विजः ॥१२॥

स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् ॥
तप्तकृच्छ्रं चरेद्वाथ संवत्सरमतन्द्रितः ॥१३॥

सर्वस्वदानं विधिवत्सर्वपापविशोधनम् ॥
चान्द्रायणं च विधिना कृतं चैवातिकृच्छ्रकम् ॥१४॥

पुण्यक्षेत्रे गयादौ च गमनं पापनाशनम् ॥
अमावस्यां तिथिं प्राप्य यः समाराधयेद्भवम् ॥१५॥

ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते ॥
उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः ॥१६॥

यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥१७॥

प्रत्येकं तिलसंयुक्तान्दद्यात्सप्त जलाञ्जलीन् ॥
स्नात्वा नद्यां तु पूर्वाह्णे मुच्यते सर्वपातकैः ॥१८॥

ब्रह्मचर्य्यमधः शय्यामुपवासं द्विजार्चनम् ॥
व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः ॥१९॥

पष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः ॥
सप्तम्यामर्चयेद्भानुं मुच्यते सर्वपातकैः ॥२०॥

एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ॥
द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ॥२१॥

तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् ॥
ग्रहणादिषु कालेषु महापातकनाशनम् ॥२२॥

यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः ॥
नियमेन त्यजेत्प्राणान्मुच्यते सर्वपातकैः ॥२३॥

ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ॥
भर्त्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ॥२४॥

पतिव्रता तु या नारी भर्त्तुः शुश्रूषणोत्सुका ॥
न तस्या विद्यते पापमिह लोके परत्र च ॥२५॥

तथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता ॥
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥२६॥

फल्गुतीर्थादिषु स्नातः सर्वाचारफलं लभेत् ॥
इत्याह भगवान्विष्णुः पुरा मम यतव्रताः ॥२७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रायश्चित्तनिरूपणं नाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP