संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ६९

आचारकाण्डः - अध्यायः ६९

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ सूत उवाच ॥
द्विपेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि ॥
मुक्ताफलानि प्रथितानि लोके तेषां च शुक्त्युद्भवमेव भूरि ॥१॥

तत्रैव चैकस्य हि मूलमात्र निविश्यते रत्नपदस्य जातु ॥
वेध्यं तु शुक्तयुद्भवमेव तेषां शेषाण्यवेध्यानि वदन्ति तज्ज्ञाः ॥२॥

त्वक्सारनागेन्द्रतिमिप्रसूतं यच्छङ्खजं यच्च वरा हजातम् ॥
प्रायो विमुक्तानि भवन्ति भासा शस्तानि माङ्गल्यतया तथापि ॥३॥

या मौक्तिकानामिह जातयेऽष्टौ प्रकीर्त्तिता रत्नविनिश्चयज्ञैः ॥
कम्बूद्भवं तेष्वधमं प्रदिष्टमुत्पद्यते यच्च गजेन्द्रकुम्भात् ॥४॥

स्वयोनिमद्यच्छवितुल्यवर्णं शाङ्खं बृहल्लोलफलप्रमाणम् ॥
उत्पद्यते वारणकुम्भमध्यादापीतवर्णं प्रभया विहीनम् ॥५॥

ये कम्बवः शांर्गमुखावमर्शपीतस्य शङ्खप्रवरस्य गोत्रे ॥
मतङ्गजाश्चापि विशुद्धवंश्यास्ते मौक्तिकानां प्रभवाः प्रदिष्टाः ॥६॥

उत्पद्यते मौक्तिकमेषु वृत्तमापीतवर्णं प्रभया विहीनम् ॥
पाठीनपृष्ठस्य समानवर्णं मीनात्सुवृत्तं लघु चातिसूक्ष्मम् ॥७॥

उत्पद्यते वारिचराननेषु मत्स्याश्चे ते मध्यचराः पयोधेः ॥
वराहदंष्ट्राप्रभवं प्रदिष्टं तस्यैव दंष्ट्रांकुरतुल्यवर्णम् ॥८॥

क्वचित्कथञ्चित्स भुवः प्रदेशे प्रजायते सूकरवद्विशिष्टः ॥
वर्षोपलानां समवर्णशोभं त्वक्सारपर्वप्रभवं प्रदिष्टम् ॥९॥

ते वेणवो दिव्यजनोपभोग्ये स्थाने प्ररोहन्ति न सार्वजन्ये ॥
भौजं गमं मीनविशुद्धवृत्तं संस्थानतोऽत्युज्ज्वलवर्णशोभम् ॥१०॥

नितान्तधौतप्रविकल्पमाननिस्त्रिंशधारासमवर्णकान्ति ॥
प्राप्यातिरत्नानि महाप्रभाणि राज्यं श्रियं वा महतीं दुरापाम् ॥११॥

तेजोऽन्विताः पुण्यकृतो भवन्ति मुक्ताफलस्याहिशिरोभवस्य ॥
जिज्ञासया रत्नधनं विधिज्ञैः शुभेमुहूर्त्ते प्रयतैः प्रयत्नात् ॥१२॥

रक्षाविधानं सुमहद्विधाय हर्म्योपरिष्ठं क्रियते यदा तत् ॥
तदा महादुन्दुभिमन्द्रघोषैर्विद्युल्लताविस्फुरितान्तरालैः ॥१३॥

पयोधराक्रान्तिविलम्बिनम्रैर्धनैवैराव्रियतेऽन्तरिक्षम् ॥
न तं भुजङ्गा न तु यातुधाना न व्याधयो नाप्युपसर्गदोषाः ॥१४॥

हिंसन्ति यस्याहिशिरः समुत्थं मुक्ताफलं तिष्ठति कोशमध्ये ॥
नाभ्येति मेघप्रभवं धरित्रीं विप्रद्गतं तद्विबुधा हरन्ति ॥१५॥

अर्चिः प्रभानावृतदिग्विभागमादित्यवददुः खविभाव्यबिम्बम् ॥
तेजस्तिरस्कृत्य हुताशनेन्दुनक्षत्रताराप्रभवं समग्रम् ॥१६॥

दिवा यथा दीर्प्तिंकरं तथैव तमोऽवगाढास्वपि तन्निशासु ॥
विचित्ररत्नद्युतिचारुतोया चतुः समुद्राभरणोपपन्ना ॥१७॥

मूल्यं न वा स्यादिति निश्चयो मे कृत्स्ना मही तस्य सुवर्णपूर्णा ॥
हीनोऽपियस्तल्लभते कदाचिद्विपाकयोगान्महतः शुभस्य ॥१८॥

सापत्न्यहीनां स महीं समग्रां भुनक्ति तत्तिष्ठति यावदेव ॥
न केवलं तच्छुभकृन्नृपस्य भाग्यैः प्रजानामपि तस्य जन्म ॥१९॥

तद्योजनानां परितः सहस्त्रं सर्वाननर्थान्विमुखी करोति ॥
नक्षत्रमालेव दिवो विशीर्णा दन्तावलिस्तस्य महासुरस्य ॥२०॥

विचित्रवर्णेषु विशुद्धवर्णा पयः सु पत्युः पयसां पपात ॥
सम्पूर्णचन्द्रांशुकलापकान्तेर्मणिप्रवेकस्य महागुणस्य ॥२१॥

तच्छुक्तिमत्सु स्थितिमाप बीजमासन्पुराऽप्यन्यभवानि यानि ॥
यस्मिन्प्रदेशेऽम्बुनिधौ पपात सुचारुमुक्तामणिरत्नबीजम् ॥
तस्मिन्पयस्तोयधरावकीर्णं शुक्तौ स्थितं मौक्तिकतामवाप ॥२२॥

सैंहलिकपारलौकिकसौराष्ट्रिकताम्रपर्णपारशवाः ॥
कौबेरपाण्ड्यहाटकहेमकमित्याकरास्त्वष्टौ ॥२३॥

शुक्त्युद्भवं नातिनिकृष्टवर्णं प्रमाणसंस्थानगुणप्रभाभिः ॥
उत्पद्यते वर्द्धनपारसीकपाताललोकान्तरसिंहलेषु ॥२४॥

चिन्त्या न तस्याकरजा विशेषा रूपे प्रमाणे च यतेत विद्वान् ॥
न च व्यवस्थास्ति गुणागुणेषु सर्वत्र सर्वाकृतयो भवन्ति ॥२५॥

एतस्य शुक्तिप्रभस्य मुक्ताफलस्य चान्येन समुन्मितस्य ॥
मूल्यं सहस्त्राणि तु रूपकाणां त्रिभिः शतैरप्याधिकानि पंच ॥२६॥

यन्माषकार्द्धेन ततो विहीनं तत्पंचभागद्वयहीनमूल्यम् ॥
यन्माषकांस्त्रीन्बिभृयात्सहस्त्रे द्वे तस्य मूल्यं परमं प्रदिष्टम् ॥२७॥

अर्द्धाधिकौ द्वौ वहतोऽस्य मूल्यं त्रिभिः शतैरप्यधिकं सहस्त्रम् ॥
द्विमाष कोन्मानितगौरवस्य शतानि चाष्टौ कथितानि मूल्यम् ॥२८॥

अर्द्धाधिकं माषकमुन्मितस्य समं च विंशत्रितयं शतानाम् ॥
गुंजाश्च षड् धारयतः शते द्वे मूल्यं परं तस्य वदन्ति तज्ज्ञाः ॥
अध्यर्द्धमुन्मान(प) कृतं शतं स्यान्मूल्यं गुणैस्तस्य समन्वितस्य ॥२९॥

यदि षोडशभिर्भवेदनूनंधरणं तत्प्रवदन्ति दार्विकाख्यम् ॥
अधिकं दशभिः शतं च मूल्यं समवाप्नोत्यपि बालिशस्य हस्तात् ॥३०॥

द्विगुणैर्दशभिर्भवेदनूनं धरणं तद्भवकं वदन्ति तज्ज्ञाः ॥
नवसप्ततिमाप्नुयात्स्वमूल्यं यदि न स्याद्गुणसम्पदा विहीनम् ॥३१॥

त्रिंशता धरणं पूर्णं शिक्यं तस्येति कीर्त्त्यते ॥
चत्वारिंशद्भवेत्तस्याः परं मूल्यं विनिश्चयः ॥३२॥

चत्वारिंशद्र भवेत्तस्यास्त्रिंशन्मूल्यं लभेत् सा ॥
पंचाशत्तु भवेत्सोमस्तस्य मूल्यं तु विंशतिः ॥३३॥

षष्टिर्निकरशीर्षं स्यात्तस्या मूल्यं चतुर्दश ॥
अशीतिर्नवतिश्चैव कूप्येति परिकीर्त्तिता ॥
एकादश स्यान्नव च तयोर्मूल्यमनुक्रमात् ॥३४॥

आदाय तत्सकलमेव ततोऽन्नभाण्डं जम्बीरजातरसयोजनया विपक्रम् ॥
घृष्टं ततो मृदुतनूकृतपिण्डमूलैः कुर्य्याद्यथेष्टमनु मौक्तिकमाशु विद्धम् ॥३५॥

मृल्लिप्तमत्स्यपुटमध्यगतं तु कृत्वा पश्चात्पचेत्तनु ततश्च बिडालपुट्या ॥
दुग्धे ततः पयसि तं विपचेत्सुधायां पक्वं ततोऽपि पयसा शुचिचिक्रणेन ॥३६॥

शुद्धं ततो विमलवस्त्रनिघर्षणेन स्यान्मौक्तिकं विपुलसद्गुणकान्तियुक्तम् ॥
व्याडिर्जगाद जगतां हि महाप्रभावः सिद्धो विदग्धहिततत्परया दयालुः ॥३७॥

श्वेतकाचसमं तारं हेमांशशतयोजितम् ॥
रसमध्ये प्रधार्य्येत मौक्तिकं देहभूषणम् ॥३८॥

एवं हि सिंहले देशे कुर्वन्ति कुशला जनाः ॥
यस्मिन्कृत्रिमसन्देहः क्वचिद्भवति मौक्तिके ॥३९॥

उष्णे सलवणे स्नेहे निशां तद्वासयेज्जले ॥
ब्रीहिभिर्मर्दनीयं वा शुष्कवस्त्रोपवेष्टितम् ॥४०॥

यत्तु नायाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम् ॥
सितं प्रमाणवत्स्निग्धं गुरु स्वच्छं सुनिर्मलम् ॥४१॥

तेजोऽधिकं सुवृत्तं च मौक्तिकं गुणवत्स्मृतम् ॥४२॥

प्रमाणवद्गौरवरश्मियुक्तं सितं सुवृत्तं समसूक्ष्मवेधम् ॥
अक्रेतुरप्यावहति प्रमोदं यन्मौक्तिकं तद्गुणवत्प्रदिष्टम् ॥४३॥

एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात् ॥
न तस्य भर्त्तारमनर्थजात एकोऽपि कश्चित् समुपैति दोषः ॥४४॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मुक्ताफलप्रमाणादिवर्णनं नाम मुक्ताफलपरीक्षा नामैकोनसप्ततितमोऽध्यायः ॥६९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP