संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २३७

आचारकाण्डः - अध्यायः २३७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


श्रीबगवानुवाच ।
गीतासारं प्रवक्ष्यामि अर्जुनायोदितं पुरा ।
अष्टाङ्गयोगयुक्तात्मा सर्ववेदान्तपारगः ॥१॥

आत्मलाभः परो नान्य अत्मदेहादिवर्जितः ।
हीनरूपादिदेहान्तः करणत्वादिलोचनः ॥२॥

बिज्ञानरहितः प्राणः सुषुप्तौ हि प्रतीयते ।
नाहमात्मा च दुः खादिसंसारादिसमन्वयात् ॥३॥

विधूम इव दीप्तार्चिरादीप्त (दित्य) इव दीप्तिमान् ।
वैद्युतोऽग्निरिवाकाशे हृत्सङ्गे आत्मनात्मनि ॥४॥

श्रोत्रादीनि न पश्यन्ति स्वंस्वमात्मानमात्मना ।
सर्वज्ञः सर्वदर्शो च क्षेत्रज्ञस्तानि पश्यन्ति ॥५॥

यदा प्रकाशते ह्यात्मा पटे दीपो ज्वलन्निव ।
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ॥६॥

यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ।
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्चकम् ॥७॥

मनोबुद्धिरहङ्कारमव्यक्तं पुरुषं तथा ।
प्रसंख्याय परंव्याप्तो विमुक्तो बन्धवैर्भवेत् ॥८॥

इन्द्रियग्राममखिलं मनसाभिनिवेश्य च ।
मनश्चैवाप्यहङ्कारे प्रतिष्ठाप्य च पाण्डव ॥९॥

अहं कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ।
प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत् ॥१०॥

अहं बह्म परं ज्योतिः प्रसंख्याय विमुच्यते ।
नवद्वारमिदं गेहं तिसृणां?पञ्चसाक्षिकम् ॥११॥

क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स वरः कविः ।
अश्वमेधसहस्राणि वाजपेयशतानि च ।
ज्ञानयज्ञस्य सर्वाणि कलां नार्हन्ति षोच्शीम् ॥१२॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीमद्भगवद्गीतासारनिरूपणं नाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP