संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १९५

मत्स्यपुराणम् - अध्यायः १९५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


भृगुवंशज-ऋषीणां नामगोत्रवंशप्रवरवर्णनम् ।

सूत उवाच ।
इत्याकर्ण्य स राजेन्द्र ओङ्कारस्याभि वर्णनम् ।
ततः पप्रच्छ देवेशं मत्स्यरूपं जलार्णवे ॥१

ऋषीणां नाम गोत्राणि वंशावतरणं तथा ।
प्रवराणां तथा साम्यमसाम्यं विस्तराद् वद ॥२

महादेवेन ऋषयः शप्ताः स्वायम्भुवान्तरे ।
तेषां वैवस्वते प्राप्ते सम्भवं मम कीर्त्तय ॥३

दाक्षायणी न च तथा प्रजाः कीर्तय मे प्रभो ।
ऋषीणां च तथा वंशं भृगुवंशविवर्धनम् ॥४

मत्स्य उवाच ।
मन्वन्तरेऽस्मिन् संप्राप्ते पूर्वं वैवस्वते तथा ।
चरित्रं कथयते राजन्! ब्रह्मणः परमेष्ठिनः ॥५


महादेवस्य शापेन त्यक्त्वा देहं स्वयं तथा ।
ऋषयश्च समुद्भूताश्च्युते शुक्रे महात्मनः ॥६

देवानां मातरो दृष्ट्वा देवपत्न्यस्तथैव च ।
स्कन्नं शुक्रं महाराज! ब्रह्मणः परमेष्ठिनः ॥७

तज्जुहाव ततो ब्रह्मा ततो जाता हुताशनात् ।
ततो जातो महातेजा भृगुश्च तपसं निधिः ॥८

अङ्गरेष्वङ्गिरा जातो ह्यर्चिभ्योऽत्रिस्तथैव च ।
मरीचिभ्यो मरीचिस्तु ततो जातो महातपाः ॥९

केशैस्तु कपिशो जातः पुलस्त्यश्च महातपाः ।
केशैः प्रलम्बैः पुलहस्ततो जातो महातपाः ॥१0

वसुमध्यात् समुत्पन्नो वसिष्ठस्तु तपोधनः ।
भृगुः पुलोम्नस्तु सुतां दिव्यां भार्यामविन्दत ॥११

यस्यामस्य सुता जाता देवा द्वादशयाज्ञिकाः ।
भुवनो भौवनश्चैव सुजन्यः सुजनस्तथा ॥१२

शुचिक्रतुश्च मूर्धा च त्याज्यश्च वसुदश्च ह ।
प्रभवश्चाव्ययश्चैव दक्षोऽथ द्वादशस्तथा ॥१३

इत्येते भृगवो नाम देवा द्वादश कीर्तिताः ।
पौलोम्यां जनयन् विप्रान् देवानां तु कनीयसः ॥१४

च्यवनन्तु महाभागमाप्नुवानं तथैव च ।
आप्नुवानात्मजश्चौर्वो जमदग्निस्तदात्मजः ॥१५

और्वो गोत्रकरस्तेषां भार्गवाणां महात्मनाम् ।
तत्र गोत्रकरास्त्वन्ये भृगोर्वै दीप्ततेजसः ॥१६
भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च ।
और्वश्च जमदग्निश्च वात्स्यो दण्डिर्नडायनः ॥१७

वैगायनो वीतिहव्यः पैलश्चैवात्र शौनकः ।
शौनकायन जीवन्ति रावेदः कार्पणिस्तथा ॥१८

वैहीनरिर्विरूपाक्षो रौहित्यायनिरेव च ।
वैश्वानरिस्तथा नीलो लुब्धः सावर्णिकश्च सः ॥१९

विष्णुः पौरोऽपि वालाकि रैलिकोऽनन्तभागिनः ।
भृतभार्गेयमार्कण्डजविनो वीतिनस्तथा ॥२0

मण्डमाण्डव्यमाण्डूकफेनपास्तनितस्तथा ।
स्थलपिण्डः शिखावर्णः शार्कराक्षिस्तथैव च ॥२१

जालधिः सौधिकः क्षुभ्यः कुत्सन्यो मौद्गलायनः ।
कर्मायनो देवपतिः पाण्डुरोचिः सगालवः ॥२२

साङ्कृत्यश्चातकिः सार्पिर्यज्ञपिण्डायनस्तथा ।
गार्ग्यायनो गायनश्च ऋषिर्गार्हायनस्तथा ॥२३

गोष्ठायनो वात्यायनो वैशम्पायन एव च ।
वैकर्णिनिः शाङ्करवो याज्ञेयिर्भ्राष्ट्रकायनिः ॥२४

लालाटिर्नाकुलिश्चैव लौक्षिण्योपरिमण्डलौ ।
आलुकिः सौचकिः कौत्सस्तथान्यः पैङ्गलायनिः ॥२५

सात्यायनिर्मालायनिः कौटिलिः कौचहस्तिकः ।
सौहसोक्तिः सकौवाक्षिः कौसिश्चान्द्रमसिस्तथा ॥२६

नैकजिह्वो जिह्मकश्च व्याधाद्यो लोहवैरिणः ।
शारद्वतिकनेतिष्यौ लोलाक्षिश्चलकुण्डलः ॥२७

वागायनिश्चानुमतिः पूर्णमागतिकोऽसकृत् ।
सामान्येन यथा तेषां पञ्चैते प्रवरामताः ॥२८

भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च ।
और्वश्च जमदग्निश्च पञ्चैते प्रवरा मताः ॥२९

अतः परं प्रवक्ष्यामि श्रृणु त्वन्यान् भृगूद्वहान् ।
जमदग्निर्विदश्चैव पौलस्त्यो वैजभृत्तथा ॥३0

ऋषिश्चोभयजातश्च कायनिः शाकटायनः ।
और्वेया मारुताश्चैव सर्वेषां प्रवराः शुभाः ॥३१

भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥३२

भृगुदासो मार्गपथो ग्राम्यायनिकटायनी ।
आपस्तम्बिस्तथा बिल्विर्नैकशिः कपिरेव च ॥३३

आर्ष्टिषेणो गार्दभिश्च कार्दमायनिरेव च ।
आश्वयनिस्तथारूपिर्ये चार्षेयाः प्रकीर्तिताः ॥३४

भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च ।
आर्ष्टिषेणस्तथारूपिः प्रवराः पञ्चकीर्तिताः ॥३५

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
यास्को वा वीतिहव्यो वा मथितस्तु तथादमः ॥३६

जैवन्त्यायनिमौञ्चश्च पिलिश्चैव चलिस्तथा ।
भागिलो बागवित्तिश्च कौशापिस्त्वथ काश्यपिः ॥३७

बालपिः श्रमदागोपिः सौरस्तिथिस्तथैव च ।
गार्गीयस्त्वथ जाबालिस्तथा पौष्ण्यायनो ह्यृषिः ॥३८

ग्रामदश्च तथैतेषामार्षेयाः प्रवरा मताः ।
भृगुश्च वीतहव्यश्च तथा रैवसवैवसौ ॥३९

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
शालायनिः शाकटाक्षो मैत्रेयः खाण्डवस्तथा ॥४0

द्रौणायनो रौक्मायना पिशली चापि कायनिः ।
हंसजिह्वस्तथैतेषामार्षेयाः प्रवरा मताः ॥४१

भृगुश्चैवाथ वध्य्रश्वो दिवोदासस्तथैव च ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥४२

एकायनो याज्ञपतिर्मत्स्यगन्धस्तथैव च ।
प्रत्यूहश्च तथा सौरिश्चौक्षिर्वै कार्दमायनिः ॥४३

तथा गृत्समदो राजन्! सनकश्च महान् ऋषिः ।
प्रवरास्तु तथोक्तानामार्षेयाः परिकीर्तिताः ॥४४

भृगुर्गृत्समदश्चैव आर्षावेतौ प्रकीर्त्तितौ ।
परस्परमवैवाह्या ऋषी वै परिकीर्तितौ ॥४५

एते तवोक्ता भृगुवंशजाता महानुभावा नृप गोत्रकाराः ।
एषां तु नाम्ना परिकीर्तितेन पापं समग्रं विजहाति जन्तुः ॥४६

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP