संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ५८

मत्स्यपुराणम् - अध्यायः ५८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


तड़ागारामकूपादीनां प्रतिष्ठाविधिवर्णनम् ।

सूत उवाच ।
जलाशयगतं विष्णुमुवाच रविनन्दनः ।
तड़ागारामकूपानां वापीषु नलिनीषु च ॥१॥

विधिं पृच्छामि देवेश! देवतायतनेषु च ।
के तत्र च ऋत्विजो नाथ! वेदी वा कीद्रृशी भवेत् ॥२॥

दक्षिणावलयः कालः स्थानमाचार्य्य एव च ।
द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व तत्त्वतः ॥३॥

मत्स्य उवाच ।
श्रृणु राजन् महाबाहो! तड़ागादिषु यो विधिः ।
पुराणेष्वितिहासोऽयं पठ्यते वेदवादिभिः ॥४॥

प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे ।
पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ॥५॥

प्रागुदक्प्रवणे देशे तड़ागस्य समीपतः ।
चतुर्हस्तां शुभां वेदिं चतुरस्रां चतुर्मुखाम् ॥६॥

तथा षोड़शहस्तः स्यान्मण्डपश्च चतुर्मुखः ।
वेद्याश्च परितो गर्ता रत्नि मात्रास्ति मेखलाः ॥७॥

नव सप्तार्थ वा पञ्च नातिरिक्ता नृपात्मज! ।
वितस्तिमात्रा योनिः स्यात् षट्‌सप्ताङ्गुलिविस्तृता ॥८॥

गर्ताश्चतस्रः शस्ताः स्यु स्त्रिपर्वोच्छ्रितमेखलाः ।
सर्वतस्तुसवर्णाः स्युः पताकाध्वजसंयुताः ॥९॥

अश्वत्थोदुम्बरप्लक्ष वटशाखाकृतानि तु ।
मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत् ॥१०॥

शुभस्तत्राष्ट होतारो द्वारपालास्तथाष्ट वै ।
अष्टौ तु जापकाः कार्य्याः ब्राह्मणा वेदपारगाः ॥११॥

सर्वलक्षणसम्पूर्णो मन्त्रविद्विजितेन्द्रियः ।
कुलशीलसमायुक्तः पुरोधाः स्याद्‌ द्विजोत्तमः ॥१२॥

प्रतिगर्त्तेषु कलशा यज्ञोपकरणानि च ।
व्यञ्जनञ्चमरे शुभ्रे ताम्रपात्रे सुविस्तृते ॥१३॥

ततस्त्वनेकवर्णाः स्यु श्चरवः प्रति दैवतम् ।
आचार्य्यः प्रक्षिपेद्‌ भूमावनुमन्त्र्य विचक्षणः ॥१४॥

त्र्यरत्निमात्रो यूपः स्यात्‌ क्षीरवृक्षविनिर्मितः ।
यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता ॥१५॥

हेमालङ्कारिणः कार्य्याः पञ्चविंशति ऋत्विजः ।
कुण्डलानि च हैमानि केयूरकटकानि च ॥१६॥

तथाङ्गुलयः पवित्राणि वासांसि विविधानि च ।
पूजयेत्तु समं सर्वानाचार्य्या द्विगुणं पुनः ॥१७॥

दद्याच्छयनसंयुक्तमात्मनश्चापि यत् प्रियम् ।
सौवर्णकूर्म्ममकरौ राजतौ मत्स्यदुन्दुभौ ॥१८॥

ताम्रौ कुलीरमण्डूकावायसः शिंशुमारकः ।
एवमासाद्य तत्सर्वमादावेव विशाम्पते! ॥१९॥

यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः ।
पश्चिमं द्वारमासाद्य प्रविशेद्यागमण्डपम् ॥२०॥

ततो मङ्गलशब्देन भेरीणां निस्वनेन च ।
अञ्जसा मण्डलं कुर्य्यात् पञ्चवर्णेन तत्त्ववित् ॥२१॥

षोड़शारन्ततश्चक्रं पद्मगर्भं चतुर्मुखम् ।
चतुरस्रञ्च परितो वृत्तं मध्ये सुशोभनम् ॥२२॥

वेद्याश्चोपरि तत् कृत्वा ग्रहान् लोकपतींस्ततः ।
सन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः ॥२३॥

कूर्मादि स्थापयेन्मध्ये वारुण्यां मन्त्रमाश्रितः ।
ब्रह्माणञ्च शिवं विष्णुं तत्रैव स्थापयेद्‌ बुधः ॥२४॥

विनायकञ्च विन्यस्य कमलामम्बिकां तथा ।
शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत् ततः ॥२५॥

पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाऽधिवासनम् ।
कुम्भान्‌ सजलगर्भांस्तान्‌ वासोभिः परिवेष्टयेत् ॥२६॥

पुष्पगन्धैरलङ्कृत्य द्वारपालान् समन्ततः ।
पठध्वमिति तान् ब्रूयादाचार्यस्त्वभिपूजयेत् ॥२७॥

बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ ।
सामगौ पश्चिमे तद्वदुत्तरेण त्वथर्वणौ ॥२८॥

उदङ्‌मुखी दक्षिणतो यजमान उपाविशेत् ।
यजध्वमिति तान्‌ ब्रूयाद् हौत्रिकान्पुनरेव तु  ॥२९॥

उत्कृष्टान् मन्त्रजापेन तिष्ठध्वमिति जापकान् ।
एवमादिश्य तान् सर्वान् पर्युक्ष्याग्निं स मन्त्रवित् ॥३०॥

जुहुयाद्वारुणैर्मन्त्रैराज्यं च समिधस्तथा ।
ऋत्विग्भिश्चाथ होतव्यं वारुणैरेव सर्वतः ॥३१॥

ग्रहेभ्यो विधिवद्‌ हुत्वा तथेन्द्रायेश्वराय च ।
मरुद्‌भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे ॥३२॥

रात्रिसूक्तञ्च रौद्रञ्च पावमानं सुमङ्गलम् ।
जपेयुः पौरुषं सूक्तं पूर्वतो बह्वृचाः पृथक् ॥३३॥

शाक्रं रौद्रञ्च सौम्यं च कृष्माण्डंा जातवेदसम् ।
सौरसूक्तं जपेन्मन्त्रं दक्षिणेन यजुर्विदः ॥३४॥

वैराज्यं पौरुषं सूक्तं सौवर्णं रुद्रसंहिताम् ।
शैशवं पञ्च निधनं गायत्रं ज्येष्ठसाम च ॥३५॥

वामदेव्यं बृहत्साम रौरवं सरथन्तरम् ।
गवां व्रतं च काण्वञ्च रक्षोघ्नं वयसस्तथा ॥
गायेयु सामगा राजन्! पश्चिमं द्वारमाश्रिताः ॥३६॥

अथर्वणश्चोत्तरतः शान्तिकं पौष्टिकं तथा ।
जपेयुर्मनसा देवमाश्रित्य वरुणं प्रभुम् ॥३७॥

पूर्वेद्युरभितो रात्रावेवं कृत्वाधिवासनम् ।
गजाश्वरथ्यावल्मीकात् सङ्गमाद्रदगोकुलात् ॥
मृदमादाय कुम्भेषु प्रक्षिपेच्चत्वरात् तथा ॥३८॥

रोचनाञ्च ससिद्धार्थां गन्धं गुग्गुलमेव च ।
स्नपनं तस्य कर्तव्यं पञ्चभङ्गसमन्वितम् ॥३९॥

प्रत्येकन्तु महामन्त्रैरेवं कृत्वा विधानतः ।
एवं क्षिपति वा ह्यथ विधियुक्तेन कर्मणा ॥४०॥

ततः प्रभाते विमले सञ्जातेऽथ शतं गवाम् ।
ब्राह्मणेभ्यः प्रदातव्यमष्टषष्टिश्च वा पुनः ॥
पञ्चाशद्वाथ षट्‌त्रिंशत् पञ्चविंशतिरप्यथ ॥४१॥

ततः साम्वत्सरप्रोक्ते शुभे लग्ने सुशोभने ।
वेदशब्दैश्च गान्धर्वैर्वाद्यैश्च विविधैः पुनः ॥४२॥

कनकालङ्कृतां कृत्वा जले गामवतारयेत् ।
सामगाय च सा देया ब्राह्मणाय विशाम्पते ॥४३॥

पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम् ।
ततो निक्षिप्य मकर मत्स्यदींश्चैव सर्वशः ॥
धृतां चतुर्विधैर्विप्रै र्वेदवेदाङ्गपारगैः ॥४४॥

महानदीजलोपेतां दध्यक्षतसमन्विताम् ।
उत्तराभिमुखीं धेनुं जलमध्ये तु कारयेत् ॥४५॥

आथर्वणेन संस्नातां पुनर्मामेत्यथेति च ।
आपोहिष्ठेति मन्त्रेण क्षिप्त्वाऽऽगत्य च मण्डलम् ॥४६॥

पूजयित्वा सरस्तत्र बलिं दद्यात् समन्ततः ।
पुनर्दिनानि होतव्यं चत्वारि मुनिसत्तमाः! ॥४७॥

चतुर्थी कर्म कर्तव्यं देया तत्रापि शक्तितः ।
दक्षिणा राजशार्दूल! वरुणक्ष्मापनं ततः ॥४८॥

कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च ।
ऋत्विग्भ्यस्तु समं दत्त्वा मण्डपं विभजेत् पुनः ।
हेमपात्रीञ्च शय्याञ्च स्थापकाय निवेदयेत् ॥४९॥

ततः सहस्रं विप्राणामथवाष्टशतं तथा ।
भोजनीयं यथाशक्ति पञ्चाशद्वाथ विंशतिः ॥
एवमेषु पुराणेषु तडाग विधिरुच्यते ॥५०॥

कूपवापीषु सर्वासु तथा पुष्करिणीषु च ।
एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च ॥५१॥

मन्त्रतस्तु विशेषः स्यात् प्रसादोद्यानभूमिषु ।
अयन्त्वशक्तावर्द्धेन विधिर्द्रृष्टः स्वयम्भुवा ।
अल्पेष्वेकाग्निवत् कृत्वा वित्तशाठ्याद्रृते नृणाम् ॥५२॥

प्रावृट्‌काले स्थिते तोये ह्यग्निष्टोमफलं स्मृतम् ।
शरत्‌काले स्थितं यत् स्यात् तदुक्तफलदायकम् ।
वाजपेयातिरात्राभ्यां हेमन्ते शिशिरे स्थितम् ॥५३॥

अश्वमेधसमं प्राह वसन्तसमये स्थितम् ।
ग्रीष्मेऽपि तत् स्थितन्तोयं राजसूयाद्विशिष्यते ॥५४॥

एतान्‌ महाराज!विशेषधर्मान् करोति योऽप्यागमशुद्धबुद्धिः ।
स याति रुद्रालयमाशु पूतः कल्पाननेकान् दिवि मोदते च ॥५५॥

अनेकलोकान् स महत्तमादीन् भुक्त्वा परार्द्धद्वयमङ्गनाभिः ।
सहैव विष्णोः परमम्पदं यत् प्राप्नोति तद्यागफलेन भूयः ॥५६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP