संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ११५

मत्स्यपुराणम् - अध्यायः ११५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


पुरूरवसः पूर्वजन्मवृत्तान्तवर्णनम् ।
मनुरुवाच ।
चरितं बुधपुत्रस्य जनार्दन! मया श्रुतम् ।
श्रुतः श्राद्धविधिः पुण्यः सर्वपापप्रणाशनः ॥१॥

धेन्वाः प्रसूतमानायाः फलं दानस्य मे श्रुतम् ।
कृष्णाजिनप्रदानञ्च वृषोत्सर्गस्तथैव च ॥२॥

श्रुत्वा रूपं नरेन्द्रस्य बुधपुत्रस्य केशव!
कौतूहलं समुत्पन्नं तन्ममाचक्ष्व पृच्छतः ॥३॥

केन कर्म्मविपाकेन स तु राजा पुरूरवाः ।
अवाप ताद्रृशं रूपं सौभाग्यमपि चोत्तमम् ॥४॥

देवांस्त्रिभुवनश्रेष्ठान् गन्धर्वांश्च मनोरमान् ।
उर्वशीसङ्गता त्यक्त्वा सर्वभावेन तं नृपम् ॥५॥

मत्स्य उवाच ।
शृणु कर्म्मविपाकेन येन राजा पुरूरवाः ।
अवाप ताद्रृशं रूपं सौभाग्यमपि चोत्तमम् ॥६॥

अतीते जन्मनि पुरा योऽयं राजा पुरूरवाः ।
पुरूरवा इति ख्यातो मद्रदेशाधिपो हि सः ॥७॥

चाक्षुषस्यान्वये राजा चाक्षुषस्यान्तरे मनोः ।
स वै नृपगुणैर्युक्तः केवलं रूपवर्जितः ॥८॥

पुरूरवा मद्रपतिः कर्म्मणा केन पार्थिवः ।
बभूव कर्म्मणा केन रूपवांश्चैव सूतज! ॥९॥

सूत उवाच ।
द्विजग्रामे द्विजश्रेष्ठे नाम्ना चासीत् पुरूरवाः ।
नद्याः कूले महाराजः पूर्वजन्मनि पार्थिवः ॥१०॥

स तु मद्रपती राजा यस्तु नाम्ना पुरूरवाः ।
तस्मिन् जन्मन्यसौ विप्रो द्वादश्यान्तु सदानघ! ॥११॥

उपोष्य पूजयामास राज्यकामो जनार्दनम् ।
चकार सोपवासश्च स्नानमभ्यङ्गपूर्वकम् ॥१२॥

उपवासफलात्प्राप्तं राज्यं मद्रेशकण्टकम् ।
उपोषितस्तथाभ्यङ्गाद् रूपहीनो व्यजायत ॥१३॥

उपोषितैर्नरैस्तस्मात् स्नानमभ्यङ्गपूर्वकम् ।
वर्जनीयं प्रयत्नेन रूपघ्नं तत्परं नृप! ॥१४॥

एतद्वः कथितं सर्वं यद्‌वृत्तं पूर्वजन्मनि ।
मद्रेश्वरस्य चरितं शृणु तस्य महीपतेः ॥१५॥

तस्य राजगुणैः सर्वैः समुपेतस्य भूपतेः ।
जनानुरागो नैवासीद्रूपहीनस्य तस्य वै ॥१६॥

रूपकामः स मद्रेशास्तपसे कृतनिश्चयः ।
राज्यं मन्त्रिगतं कृत्वा जगाम हिमपर्वतम् ॥१७॥

व्यवसायद्वितीयस्तु पद्‌भ्यामेव महायशाः ।
द्रष्टुं स तीर्थसदनं विषयान्ते स्वके नदीम् ॥
ऐरावतीति विख्यातान्ददर्शातिमनोरमाम् ॥१८॥

तुहिनगिरि महौघ वेगान्तुहिन गभस्ति समान शीतलोदाम् ।
तुहिन सदृश हैमवर्ण पुञ्जान्तु हिनयशाः सरितं ददर्श राजा ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP