संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ५७

मत्स्यपुराणम् - अध्यायः ५७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


रोहिणीचन्द्रशयनव्रतकथनम् ।

दीर्घायुरारोग्यकुलाभिवृद्धियुक्तः पुमान् भूपकुलायुतः स्यात् ।
मुहुर्मुहुर्जन्मनि येन सम्यक् व्रतं समाचक्ष्व तदिन्दुमौले! ॥१॥

श्रीभगवानुवाच ।
त्वया पृष्टमिदं सम्यक् उक्तञ्चाक्षय्यकारकम् ।
रहस्यं तव वक्ष्यामि यत्पुराणविदो विदुः ॥२॥

रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम् ।
तस्मिन्नारायणस्यार्च्यामर्चयेदिन्दुनामभिः ॥३॥

यदा सोमदिने शुक्ला भवेत् पञ्चदशी क्वचित् ।
अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते ॥४॥

तदा स्नानं नरः कुर्यात् पञ्चगव्येन सर्षपैः ।
आप्यायस्वेति तु जपेत् विद्वानष्टशतं पुनः ॥५॥

शूद्रोऽपि परया भक्त्या पाषण्डालापवर्जितः ।
सोमाय वरदायाथ विष्णवे च नमो नमः ॥६॥

कृतजप्यः स्वभवनादागत्य मधुसूदनम् ।
पूजयेत् फलपुष्पैश्च सोमनामानि कीर्तयन् ॥७॥

सोमाय शान्ताय नमोऽस्तु पादावनन्तधाम्नेति च जानुजङ्घे ।
ऊरुद्वयञ्चापि जलोदराय संपूजयेन्मेढ्रमनन्तब्राहवे ॥८॥

नमो नमः कामसुखप्रदाय कटिः शशाङ्कस्य सदार्चनीया ।
तथोदरञ्चाप्यमृतोदराय नाभिः शशाङ्काय नमोऽभिपूज्या ॥९॥

नमोऽस्तु चन्द्राय मुखञ्च पूज्यं दन्ता द्विजानामधिपाय पूज्याः ।
हास्यं नमश्चन्द्रमसेऽभिपूज्यमोष्ठौ कुमुद्वन्तवनप्रियाय ॥१०॥

नासा च नाथाय वनौषधीनां आनन्दभूताय पुनर्भ्रुवौ च ।
नेत्रद्वयं पद्मिनिभन्तथेन्दो रिन्दीवरश्यामकराय शौरेः ॥११॥

नमः समस्ताध्वरवन्दिताय कर्णद्वयं दैत्यनिषूदनाय ।
ललाटमिन्दोरुदधिप्रियाय केशाः सुषुम्नाधिपतेः प्रपूज्याः ॥१२॥

शिरः शशाङ्काय नमो मुरारेर्विश्वेश्वरायेति नमः किरीटिने ।
पद्मप्रिये रोहिणि नाम लक्ष्मीः सौभाग्यसौख्यामृतचारुकाये ॥१३॥

देवीं च संपूज्य सुगन्धपुष्पैर्नैवेद्यपुष्पादिभिरिन्दुपत्नीम् ।
सुप्त्वाऽथ भूमौ पुनरुत्थितेन स्नात्वा च विप्राय हविष्ययुक्तः ॥१४॥

देयः प्रभाते सहिरण्यवारिकुम्भो नमः पापविनाशनाय ।
संप्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिञ्च ॥
ग्रामान् पयः सर्पियुतानुपोष्य भुक्त्वेतिहासं श्रृणुयान् मुहूर्त्तम् ॥१५॥

कदम्बनीलोत्पलकेतकानि जातीसरोजं शतपत्रिका च ।
अम्लानकुब्जान्यथ सिन्दुवारं पुष्पं पुनर्नारद! मल्लिकायाः ॥
शुभ्रञ्च विष्णोः करवीरपुष्पं श्रीचम्पकं चन्द्रमसः प्रदेयम् ॥१६॥

श्रावणादिषु मासेषु क्रमादेतानि सर्वदा ।
यस्मिन्‌ मासे व्रतादिः स्यात् तत्पुष्पैरर्चयेद्धरिम् ॥१७॥

एवं संवत्सरं यावदुपास्य विधिवन्नरः ।
व्रतान्ते शयनं दद्यात् दर्पणोपस्करान्वितम् ॥१८॥

रोहिणीचन्द्रमिथुनं कारयित्वाऽथ काञ्चनम् ।
चन्द्रः षडङ्गुलः कार्यो रोहिणी चतुरङ्गुला ॥१९॥

मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम् ।
क्षीरकुम्भोपरि पुनः कांस्यपात्राक्षतान्वितम् ॥
दद्यान्मन्त्रेण पूर्वाह्णे शालीक्षुफलसंयुतम् ॥२०॥

श्वेतामथ सुवर्णास्यां खुरै रौप्यैः समन्विताम् ।
सवस्त्रभाजनां धेनुं तथा शङ्खञ्च शोभनम् ॥२१॥

भूषणैर्द्विजदाम्पत्यमलङ्‌कृत्य गुणान्वितम् ।
चन्द्रोऽहं द्विजरूपेण सभार्य्य इति कल्पयेत् ॥२२॥

यथा न रोहिणीकृष्णशय्यां सन्त्यज्य गच्छति ।
सोमरूपस्य ते तद्वन्‌ ममाभेदोऽस्तु भूतिभिः ॥२३॥

यथा त्वमेव सर्वेषां परमानन्दमुक्तिदः ।
भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि चन्द्रास्तु मे सदा ॥२४॥

संसारभयभीतस्य मुक्तिकामस्य चानघ! ।
रूपारोग्यायुषामेतद्विधायकमनुत्तमम् ॥२५॥

इदमेव पितॄणां च सर्वदा वल्लभं मुने! ।
त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम् ॥
चन्द्रलोकमवाप्नोति विद्युद् भूत्वा तु मुच्यते ॥२६॥

नारी वा रोहिणीचन्द शयनं या समाचरेत् ।
साऽपितत्फलमाप्नोति पुनरावृत्तिदुर्लभम् ॥२७॥

इति पठति श्रृणोति वा य इत्थं मधुमथनार्चनमिन्दुकीर्तनेन नित्यम् ।
मतिमपि च ददाति सोऽपि शौरेर्भवनगतः परिपूज्यतेऽमरौघैः ॥२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP