संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ११२

मत्स्यपुराणम् - अध्यायः ११२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


नन्दिकेश्वर उवाच ।
भ्रातृभिः सहितः सर्वे द्रौपद्या सह भार्यया ।
ब्राह्मणेभ्यो नमस्कृत्य गुरून् देवानतर्पयत् ॥१॥

वासुदेवोऽपि तत्रैव क्षणेनाभ्यागतस्तदा ।
पाण्डवैः सहितैः सर्वे (र्वैः) पूज्यमानस्तु माधवः ॥२॥

कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः ।
अभिषिक्तः स्वराज्ये च धर्मपुत्रो युधिष्ठिरः ॥३॥

एतस्मिन्नन्तरे चैव मार्कण्डेयो महामुनिः ।
ततः स्वस्तीति चोक्त्वा तु क्षणादाश्रममागमत् ॥४॥

युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितोऽवसत् ।
महादानं ततो दत्त्वा धर्मपुत्रो महामनाः ॥५॥

यस्त्विहं कल्प(ल्प) उत्थाय माहात्म्यं पठते नरः ।
प्रयागं स्मरते नित्यं स याति परमं पदम् ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥६॥

वासुदेव उवाच ।
मम वाक्यञ्च कर्त्तव्यं महाराज! ब्रवीम्यहम् ।
नित्यं जपस्व जुह्वस्व प्रयागे विगतज्वरः ॥७॥

प्रयागं स्मर वै नित्यं सहास्माभिर्युधिष्ठिर! ।
स्वयं प्राप्स्यसि राजेन्द्र! स्वर्गलोकं न संशयः ॥८॥

प्रयागमनुगच्छेद्वा वसते वापि यो नरः ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥९॥

प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः ।
अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते ॥१०॥

अकोपनश्च सत्यश्च सत्यवादी द्रृढव्रतः ।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥११॥

ऋषिभिः क्रतवः प्रोक्ता देवैश्चापि यथाक्रमम् ।
न हि शक्त्या दरिद्रेण यज्ञाः प्राप्तुं महीयते ॥१२॥

बहूपकरणा यज्ञा नानासम्भारविस्तराः ।
प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वा नरैः क्वचित् ॥१३॥

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर! ।
तुल्यो यज्ञफलैः पुण्यैस्तन्निबोधयुधिष्ठिर ॥१४॥

ऋषिणां परमं गुह्यमिदं भरतसत्तम! ।
तीर्थानुगमनं पुण्यं यज्ञेभ्योऽपि विशिष्यते ॥१५॥

दशतीर्थसहस्राणि तिस्रः कोट्यस्तथापगाः ।
माघमासे गमिष्यन्ति गङ्गायां भरतर्षभ! ॥१६॥

स्वस्थो भव महाराज! भुंक्ष्व राज्यमकण्टकम् ।
पुनर्द्रक्ष्यसि राजेन्द्र! यजमानो विशेषतः ॥१७॥

नन्दिकेश्वर उवाच ।
इत्युक्त्वा स महाभागो मार्कण्डेयो महातपाः ।
युधिष्ठिरस्य नृपतेस्तत्रैवान्तरधीयत ॥१८॥

ततस्तत्र समाप्लाव्य गात्राणि सगणो नृपः ।
यथोक्तेनाथ विधिना परां निर्वृतिमागमत् ॥१९॥

तथा त्वमपि देवर्षे । प्रयागाभिमुखो भव ।
अभिषेकन्तु कृत्वाद्य कृतकृत्यो भविष्यसि ॥२०॥

सूत उवाच ।
एवमुक्त्वाऽथ नन्दीशस्तत्रैवान्तरधीयत ।
नारदोऽपि जगामाशु प्रयागाभिमुखस्तदा ॥२१॥

तत्र स्नात्वा च जप्त्वा च विधिद्रृष्टेन कर्मणा ।
दानं दत्त्वा द्विजाग्र्येभ्यो गतः स्वभवनं तदा ॥२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP