संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ८९

मत्स्यपुराणम् - अध्यायः ८९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


घृताचलदानवर्णनम् ।

अतः परं प्रवक्ष्यामि घृताचलमनुत्तमम् ।
तेजोऽमृतमयं दिव्यं महापातकनाशनम् ॥१॥

विशत्या घृतकुम्भानामुत्तमः स्याद्‌घृताचलः ।
दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः ॥२॥

अल्पवित्तोऽपि यः कुर्य्याद्‌ द्वाभ्यामिह विधानतः ।
विष्कम्भपर्वतास्तद्वच्चतुर्भागेन कल्पयेत् ॥३॥

शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत् ।
कारयेत्संहतानुच्चान्‌ यथाशोभं विधानतः ॥४॥

वेष्टयेच्छुक्लवासोभिरिक्षुदण्डफलादिकैः ।
धान्यपर्वतवच्छेषं विधानमिह पठ्यते ॥५॥

अधिवासनपूर्वञ्च तद्वद्धोमसुरार्चनम् ।
प्रभातायां तु शर्वर्य्यां गुरवे तन्निवेदयेत् ।
विष्कम्भपर्वतांस्तद्वत् ऋत्विग्‌भ्यः शान्तमानसः ॥६॥

संयोगाद्‌घृतमुत्पन्नं यस्मादमृततेजसोः ।
तस्मद्‌घृतार्चिर्विश्वात्मा प्रीयतामत्र शङ्करः ॥7॥

यस्मात्तेजोमयं ब्रह्म घृते तद्विद्‌ध्यवस्थितम् ।
धृतपर्वतरूपेण तस्मात्त्वं पाहिनोऽनिशम् ॥८॥

अनेन विधिना दद्याद्‌घृताचलमनुत्तमम् ।
महापातकयुक्तोऽपि लोकमाप्नोति शाङ्करम् ॥९॥

हंससारसयुक्तेन किङ्किणीजालमालिना ।
विमानेनाप्सरोभिश्च सिद्धविद्याधरैर्वृतः ॥
विहरेत् पितृभिः सार्द्धं यावदाभूतसंप्लवम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP