संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १८१

मत्स्यपुराणम् - अध्यायः १८१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


वाराणसीस्थक्षेत्रमाहात्म्यम् ।
सूत उवाच ।
इमां पुण्योद्भवां स्निग्धां कथां पापप्रणाशिनीम् ।
श्रृण्वन्तु ऋष्यः सर्वे सुविशुद्धास्तपोधनाः ॥१॥

दिव्यं रुद्रतुल्यपराक्रमम् ।
सनत्कुमारो भगवानपृच्छन्नन्दिकेश्वरम् ॥२॥

ब्रुहि गुह्यं यथा तत्त्वं यत्र नित्यं भव स्थितः ।
माहात्म्यं सर्वभूतानां परमात्मा महेश्वरः॥३॥

घोररूपं समास्थाय दुष्करं देवदानवैः ।
आभूतसंप्लवं यावत् स्थाणुभूतो महेश्वरः ॥४॥

नन्दिकेश्वर उवाच ।
पुरा देवेन यत्प्रोक्तं पुराणं पुण्यमुत्तम् ।
तत्सर्वं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् ॥५॥

ततो देवेन तुष्टेन उमायाः प्रियकाम्यया ।
कथितं भुवि विख्यातं यत्र नित्यं स्वयं स्थितः ॥६॥

रुद्रस्यार्धासनगता मेरुश्रृङ्गे यशस्विनी ।
महादेवं ततो देवी प्रणता परिपृच्छति ॥७॥

भगवन्! देवदेवेश! चन्द्रार्द्धकृतशेखर! ।
धर्मं प्रब्रूहि मर्त्यानां भुवि चैवोर्ध्वरेतसाम् ॥८॥

जप्तं दत्तं हुतं चेष्टं तपस्तप्तं कृत़ञ्च यत् ।
ध्यानाध्ययनसम्पन्नं कथं भवति चाक्षयम् ॥९॥

जन्मान्तरसहस्रेण यत्पापं पूर्वसञ्चितम् ।
कथं तत्क्षयमायाति तन्ममाचक्ष्व शङ्कर ॥१०॥

यस्मिन् व्यवस्थितो भक्त्या तुष्यसे परमेश्वर! ।
व्रतानि नियमाश्चैव आचारो धर्म एव च ॥११॥

सर्वसिद्धिकरं यत्र ह्यक्षय्य गतिदायकम् ।
वक्तुमर्हसि तत्सर्वं परं कौतूहलं हि मे ॥१२॥

महेश्वर उवाच ।
श्रृणु देवि! प्रवक्ष्यामि गुह्यानां गुह्यमुत्तमम्॥
सर्वक्षेत्रेषु विख्यातमविमुक्तं प्रिये मम ॥१३॥

अष्टषष्टिः पुरा प्रोक्ता स्थानानां स्थानमुत्तमम् ।
यत्र साक्षात् स्वयं रुद्रः कृत्तिवासाः स्वयं स्थितः ॥१४॥

यत्र सन्निहितो नित्यमविमुक्ते निरन्तरम् ।
तत्क्षेत्रं न मया मुक्तमविमुक्तं ततः स्मृतम्॥१५॥

अविमुक्ते परा सिद्धिरविमुक्ते परा गतिः ।
जप्तं दत्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ॥१६॥

ध्यानमध्ययनं दानं सर्वं भवति चाक्षयम् ।
जन्मान्तरसहस्रेण यत्पापं पूर्वसञ्चितम् ॥१७॥

अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ।
अविमुक्ताग्निना दग्धमग्नौ तूलमिवाहितम् ॥१८॥

ब्राह्मणाः क्षत्रियाः वैश्याः शूद्रा वै वर्णसङ्कराः ।
कृमिम्लेच्छाश्च ये चान्ये सङ्कीर्णाः पापयोनयः ॥१९॥

कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।
कालेन निधनं प्राप्ता अविमुक्ते शृणु प्रिये! ॥२०॥

चन्द्रार्द्धमौलिनः सर्वे ललाटाक्षा वृषध्वजाः ।
शिवे मम पुरे देवि! जायन्ते तत्र मानवाः ॥२१॥

अकामो वा सकामो वा ह्यपि तिर्यग्गतोऽपि वा ।
अविमुक्ते त्यजन् प्राणान् मम लोके महीयते ॥२२॥

अविमुक्तं यदागच्छेत् कदाचित् कालपर्ययात् ।
अश्मना चरणौ बद्ध्वा तत्रैव निधनं व्रजेत् ॥२३॥

अविमुक्तं गतो देवि! न निर्गच्छेत् ततः पुनः ।
सोऽपिबत्पदमाप्नोति बद्ध्वा तत्रैव निधनं व्रजेत् ॥२४॥

अविमुक्तं गतो देवि! न निर्गच्छेत् ततः पुनः ।
सोऽपिबत्पदमाप्नोति नात्र कर्या विचारणा ॥२५॥

अमरञ्च महाकालं तथा कायावरोहणम् ।
एतानि हि पवित्रापि सान्निध्यात् सन्ध्ययोर्द्वयोः ॥२६॥

कालिञ्जरवनञ्चैव शङ्कुकर्णं स्थलेश्वरम् ।
एतानि च पवित्राणि सान्निध्याद्धि मम प्रिये
अविमुक्ते वरारोहे! त्रिसन्ध्यं नात्र संशयः ॥२७॥

इरिश्चन्द्रं परं गुह्यं गुह्यमाम्रातकेश्वरम् ।
जलेश्वरं परं गुह्यं गुह्यं श्रीपर्वतं तथा ॥२८॥

महालयं तथा गुह्यं कृमिचण्डेश्वरं शुभम् ।
गुह्यातिगुह्यं केदारं महाभैरवमेव च ॥२९॥

अष्टावेतानि स्थानानि सान्निध्याद्धि मम प्रिये! ।
अविमुक्ते वरारोहे! त्रिसन्ध्यं नात्र संशयः ॥३०॥

यानि स्थानानि श्रूयन्ते त्रिषु लोकेषु सुव्रते! ।
अविमुक्तस्य पादेषु नित्यं सन्निहितानि वै ॥३१॥

अथोत्तरां कथां दिव्यामविमुक्तस्य शोभने ।
स्कन्दो वक्ष्यति माहात्म्यमृषीणां भावितात्मनाम् ॥३२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP