संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ९१

मत्स्यपुराणम् - अध्यायः ९१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


रौप्याचलदानवर्णनम् ।

अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् ।
यत्प्रदानान्नरो याति सोमलोकमनुत्तमम् ॥१॥

दशभिः पलसाहस्रैरुत्तमो रजताचलः ।
पञ्चभिर्मध्यमः प्रोक्तस्तदर्द्धेनाधमः स्मृतः ॥२॥

अशक्तो विंशतेरूर्द्ध्वं कारयेच्छक्तितस्तदा ।
विष्कम्भपर्वतास्तद्वत्तुरीयांशेन कल्पयेत् ॥३॥

पूर्ववद्राजतान् कुर्वन् मन्दरादीन् विधानतः ।
कलधौतमयांस्तद्वल्लोकेशानर्चयेद् बुधः ॥४॥

ब्रह्मविष्ण्वर्कवान् कार्यो नितम्बोऽत्र हिरण्मयः ।
राजतं स्याद्यदन्येषां सर्वं तदिह काञ्चनम् ॥५॥

शेषन्तु पूर्ववत् कुर्यात् होमजागरणादिकम् ।
दद्यात्ततः प्रभाते तु गुरवे रौप्यपर्वतम् ॥६॥

विष्कम्भशैलानृत्विग्‌भ्यः पूज्य वस्त्रविभूषणैः ।
इमं मन्त्रं पठन्‌ दद्याद्दर्भपाणिर्विमत्सरः ॥७॥

पितॄणां वल्लभो यस्माद् हरीन्द्राणां शिवस्य च ।
पाहि राजत! तस्मात् त्वं शोकसंसारसागरात् ॥८॥

इत्थं निवेद्य यो दद्याद्रजताचलमुत्तमम् ।
गवामयुतदानस्य फलं प्राप्नोति मानवः ॥९॥

सोमलोकेसगन्धर्वैः किन्नराप्सरसाङ्गणैः ।
पूज्यमानो वसेद्‌विद्वान्‌ यावदाभूतसंप्लवम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP