संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ८४

मत्स्यपुराणम् - अध्यायः ८४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


लवणाचलदानवर्णनम् ।

ईश्वर उवाच ।
अथातः सम्प्रवक्ष्यामि लवणाचलमुत्तमम् ।
यत्प्रदानान्नरोलोकानाप्नोति शिवसंयुतान् ॥१॥

उत्तमः षोड़शद्रोणैः कर्त्तव्यो लवणाचलः ।
मध्यमः स्यात्तदर्द्धेन चतुर्भिरधमः स्मृतः ॥२॥

वित्तहीनो यथाशक्त्या द्रोणादूद्‌र्ध्वन्तु कारयेत् ।
चतुर्थांशेन विष्कम्भ पर्वतान्‌ कारयेत् पृथक् ॥३॥

विधानं पूर्ववत्कुर्य्याद् ब्रह्मादीनाञ्च सर्वदा ।
तद्वद् हेममयान् सर्व्वान् लोकपालान्निवेशयेत् ॥४॥

सरांसि कामदेवादींस्तद्वदत्रापि कारयेत् ।
कुर्य्याज्जागरणञ्चापि दानमन्त्रान्निबोधत ॥५॥

सौभाग्यसरसम्भूतो यतोऽयं लवणो रसः ।
तद्दानकर्तृकत्वेन त्वं मां पाहि नगोत्तम ॥६॥

यस्मादन्नरसाः सर्वे नोत्कटालवणं विना ।
प्रियञ्चशिवयोर्नित्यं तस्माच्छान्तिं प्रयच्छ मे ॥७॥

विष्णुदेहसमुद्‌भूतं यस्मादारोग्यवर्द्धनम् ।
तस्मात्पर्वतरूपेण पाहि संसारसागरात् ॥८॥

अनेन विधिना यस्तु दद्याल्लवणपर्वतम् ।
उमालोके वसेत्कल्पं ततो याति परां गतिम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP