संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १५५

मत्स्यपुराणम् - अध्यायः १५५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


शर्व उवाच ।
शरीरे मम तन्वङ्गि! सिते भास्यसितद्युतिः
भुजङ्गी वासिता शुद्धा संश्लिष्टा चन्दने तरौ ॥१॥

चन्द्रातपेन संपृक्ता रुचिराम्वरया तथा ।
रजनीवासिते पक्षे दृष्टिदोषं ददासि मे ॥२॥

इत्युक्ता गिरिजा तेन मुक्तकण्ठा पिनाकिना ।
उवाच कोपरक्ताक्षी भ्रुकुटीकुटिलानना ॥३॥

देव्युवाच ।
स्वकृतेन जनः सर्वो जाड्येन परिभूयते ।
अवश्यमर्थात् प्राप्नोति खण्डनं शशिमण्डन! ॥४॥

तपोभिर्दीर्घचरितैर्यच्च प्रार्थिवत्यहम् ।
तस्या मे नियतस्त्वेष ह्यवमानः पदे पदे ॥५॥

नैवास्मि कुटिला शर्व! विषमा नैव धूर्जटे! ।
स विषस्त्वङ्गतः ख्यातिं व्यक्तं दोषाकराश्रयात् ॥६॥

नाहं पूष्णोऽपि दशना नेत्रे चास्मि भवस्य हि ।
आदित्यश्च विजानाति भगवान् द्वादशात्मकः ॥७॥

मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन् ।
यस्त्वं ममाह कृष्णेति महाकालेति विश्रुतः ॥८॥

यास्याम्यहं परित्यक्त्वा चात्मानं तपसा गिरिम् ।
जीवन्त्या नास्ति मे कृत्यं धूर्त्तेन परिभूतया
निशम्य तस्या वचनं कोपतीक्ष्णाक्षरम्भवः ।
उवाचाधिकसम्भ्रान्तः प्रणयेनेन्दुमौलिना
अगात्मजासि गिरिजे !नाहं निन्दापरस्तव ।
त्वद्भक्तिबुद्ध्या कृतवांस्तवाहं नामसंश्रयम् ॥९॥

विकल्पः स्वस्थचित्तेऽपि गिरिजे! नैव कल्पना ।
यद्येवं कुपिता भीरु! त्वन्तवाहन्नवै पुनः ॥१०॥

नर्मवादी भविष्यामि जहि कोपं शुचिस्मिते! ।
शिरसा प्रणतश्चाहं रचितस्ते मयाञ्जलिः ॥११॥

स्नेहेनाप्यवमानेन निन्दितेनैव विक्रियाम् ।
तस्मान्न यातु रुष्टस्य नर्मस्पृष्टो जनः किल ॥१२॥

अनेकैः स्वादुभिर्देवी देवेन शङ्करपाणिना ।
कोपन्तीव्रन्न तत्याज सती मर्मणि घट्टिता
अवष्टब्धमथास्फाल्य वासः शङ्करपाणिना ।
विपर्यस्तालका वेगाद्यातुमैच्छत शैलजा ॥१३॥

तस्या व्रजन्त्याः कोपेन पुनराह पुरान्तकः ।
सत्यं सर्वैरवयवैः सुतासि सदृशी पितुः
हिमाचलस्य श्रृङ्गैस्तै र्मेघजालाकुलैर्नभः ।
तथा दुरवगाह्येभ्यो हृदयेभ्यस्तवाशयः ॥१४॥

काठिन्याङ्कस्त्वमस्मभ्यं वनेभ्यो बहुधा गता ।
कुटिलत्वञ्च वक्त्रेभ्यो दुःसेव्यत्वं हिमादपि ॥१५॥

संक्रान्ति सर्वदैवेति तन्वङ्गि! हिमशैलराट् ।
इत्युक्ता सा पुनः प्राह गिरिशं शैलजा तदा ॥१६॥

कोपकम्पितमूर्द्धा च प्रस्फुरद्दशनच्छदा ।
उमोवाच ।
मा सर्वान्दोषदानेन निन्दान्यान् गुणिनो जनान् ॥१७॥

तवापि दुष्टसम्पर्कात् संक्रान्तं सर्वमेव हि ।
व्यालेभ्योऽधिकजिह्मत्वं भस्मना स्नेहबन्धनम् ॥१८॥

हृत्कालुष्यं शशाङ्कात्तु दुर्बोधित्वं वृषादपि ।
तता बहु किमुक्तेन अलं वाचा श्रमेण ते ॥१९॥

श्मशानवासान्निर्भीत्वं नग्नत्वान्न तवत्रपा ।
निर्घृणत्वं कपालित्वाद्दया ते विगताचिरम् ॥२०॥

इत्युक्त्वामन्दिरात्तस्मान्निर्जगाम हिमाद्रिजा ।
तस्यां व्रजन्त्यां देवेश गणैः किलकिलोध्वनिः ॥२१॥

क्व मातर्गच्छसि त्यक्त्वा रुदन्तो धाविताः पुनः  ।
विष्टभ्य चरणौ देव्या वीरको बाष्पगद्गदम् ॥२२॥

प्रोवाच मातः! किन्त्वेतत् क्व यासि कुपितान्तरा ।
अहं त्वामनुयास्यामि व्रजन्तीं स्नेहवर्जिताम् ॥२३॥

सोऽहं पतिष्ये शिखरात् तपो निष्ठे त्वयोज्झितः ।
उन्नाम्य वदनं देवी दक्षिणेन तु पाणिना ॥२४॥

उवाच वीरकं माता माशोकं पुत्र! भावय ।
शैलाग्रात् पतितुं देवी दक्षिणेन तु पाणिना ॥२५॥

युक्तन्ते पुत्र! वक्ष्यामि येन कार्येण तच्छृणु ।
कृष्णेत्युक्त्वाहरेणाहं निन्दिताचाप्यनिन्दिता ॥२६॥

साहं तपः करिष्यामि येन गौरीत्वमाप्नुयात् ।
एष स्त्रीलम्पटो देवो यातायां मय्यनन्तरम् ॥२७॥

द्वाररक्षा त्वया कार्य्या नित्यं रन्ध्रान्ववेक्षिणा ।
यता न काचित् प्रविशेद्योषिदत्र हरान्तिकम् ॥२८॥

दृष्ट्वा परस्त्रियञ्चात्र वदेथा मम पुत्रक! ।
शीघ्रमेव करिष्यामि यथा युक्तमनन्तरम् ॥२९॥

एवमस्त्विति देवीं स वीरकः प्राह साम्प्रतम् ।
मातुराज्ञामृताह्लाद प्लाविताङ्गो गतज्वरः
जगाम कक्ष्यां संद्रष्टुं प्रणिपत्य च मातरम् ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP