संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ११९

मत्स्यपुराणम् - अध्यायः ११९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


हिमवत्प्रदेशवर्णनम् ।
सूत उवाच ।
तत्र यौ तौ महाश्रृङ्गौ महावर्णौ महाहिमौ ।
तृतीयन्तु तयोर्मध्ये श्रृङ्गमत्यन्तमुच्छ्रितम् ॥१॥

नित्यातप्तशिलाजालं सदाभ्रपरिवर्जितम् ।
तस्याधस्ताद्‌वृक्षगणो दिशा भागे च पश्चिमे ॥२॥

जातीलतापरिक्षिप्तं विवरं चारुदर्शनम् ।
द्रृष्टैव कौतुकाविष्टस्तं विवेश महीपतिः ॥३॥

तमसा चातिनिबिडं नल्वमात्रं सुसङ्कटम् ।
नल्वमात्रमतिक्रम्य स्वप्रभाभरणोज्ज्वलम् ॥४॥

तमुच्छ्रितमथात्यन्तं गम्भीरं परिवर्तुलम् ।
न तत्र सूर्य्यस्तपति न विराजति चन्द्रमाः ॥५॥

तथापि दिवसाकारं प्रकाशं तदहर्निशम् ।
क्रोशाधिकपरीमाणं सरसाच विराजितम् ॥६॥

समन्तात्सरसस्तस्य शैललग्ना तु वेदिका ।
सौवर्णे राजतैर्वृक्षैर्विद्रुमैरुपशोभितम् ॥७॥

नानामाणिक्यकुसुमैः सुप्रभाभरणोज्ज्वलैः ।
तस्मिन् सरसि पद्मानि पद्मरागच्छदानि तु ॥८॥

वज्रकेसरजालानि सुगन्धीनि तथा युतम् ।
पत्रैर्मरकतैर्नीलर्वैढूर्य्यस्य महीपते ॥९॥

कर्णिकाश्च तथा तेषां जातरूपस्य पार्थिव ।
तस्मिन् सरसि या भूमिर्न सा वज्रसमाकुला ॥१०॥

नानारत्नैरुपचिता जलजानां समाश्रया ।
कपर्दिकानां शुक्तीनां शङ्कानाञ्च महीपते! ॥११॥

मकराणाञ्च मत्स्यानां चण्डानां कच्छपैः सह ।
तत्र मरकतखण्डानि वज्राणाञ्च सहस्रशः ॥१२॥

पद्मरागेन्द्रनीलानि महानीलानि पार्थिव ।
पुष्परागाणि सर्वाणि तथा कर्कोटकानि च ॥१३॥

तुत्थकस्य तु खण्डानि तथाशेषस्य भागशः ।
राजावर्तस्य मुख्यस्य रुचिराक्षस्य चाप्यथ ॥१४॥

सूर्य्येन्दुकान्तयश्चैव नीलो वर्णान्तिमश्च यः ।
ज्योतीरसस्य रम्यस्य स्यमन्तस्य च भागशः ॥१५॥

सुरोरगवलक्षाणां स्फटिकस्य तथैव च ।
गोमेदपित्तकानाञ्च धूलीमरकतस्य च ॥१६॥

वैढूर्यसौगन्धिकयस्तथा राजमणेर्नृप ।
वज्रस्यैव च मुख्यस्य तथा ब्रह्ममणेरपि ॥१७॥

मुक्ताफलानि मुक्तानान्ताराविग्रहधारिणाम् ॥१८॥

सुखोष्णञ्चैव तत्तोयं स्नानाच्छीतविनाशनम् ।
वैढूर्यस्य शिलामध्ये सरसस्तस्य शोभना ॥१९॥

प्रमाणेन तथा सा च द्वे च राजन्! धनुः शते ।
चतुरस्रा तथा रम्या तपसा निर्मिताऽत्रिणा ॥२०॥

बिलद्वारसमो देशो यत्र तत्र हिरण्मयः ।
प्रदेशः स तु राजेन्द्र! द्वीपे तस्मिन् मनोहरे ॥२१॥

तथा पुष्करिणी रम्या तस्मिन् राजन्! शिलातले ।
सुशीतामलपानीया जलजैश्च विराजिता ॥२२॥

आकाशप्रतिमा राजन्! चतुरस्रा मनोहरा ।
तस्यास्तदुदकं स्वादु लघुशीतं सुगन्धिकम् ॥२३॥

न क्षिणोति यथा कण्ठं कुक्षिन्नापूरयत्यपि ।
तृप्तिं विधत्ते परमां शरीरे च महत् सुखम् ॥२४॥

मध्ये तु तस्याः प्रासादं निर्मितं तपसात्रिणा ।
रुक्मसेतुप्रवेशान्तं सर्वरत्नमयं शुभम् ॥२५॥

इन्द्रनीलमहास्तम्भं मरकतासक्तवेदिकम् ।
वज्रांशुजालैः स्फुरितं रम्यं द्रृष्टिमनोरमम् ॥२६॥

प्रासादे तत्र भगवान् देवदेवो जनार्दनः ।
भोगिभोगावलीसुप्तः सर्वालङ्कारभूषितः ॥२७॥

जान्वाचकुञ्चितस्त्वेको देवदेवस्य चक्रिणः ।
फणीन्द्रसन्निविष्टोऽङ्‌घ्रिर्द्वितीयश्च तथानघ ॥२८॥

लक्ष्म्युत्सङ्गगतोऽङ्घ्रिस्तु शेषभोगप्रशायिनः ।
फणीन्द्रभोगसन्यस्तबाहुः केयूरभूषणः ॥२९॥

अङ्गुलीपृष्ठविन्यस्तदेवशीर्षधरम्भुजम् ।
एकं वै देवदेवस्य द्वितीयन्तु प्रसारितम् ॥३०॥

समाकुञ्चितजानुस्थमणिबन्धेन शोभितम् ।
किञ्चिदाकुञ्चितं चैव नाभिदेशकरस्थितम् ॥३१॥

तृतीयन्तु भुजं तस्य चतुर्थन्तु तथा श्रृणु ।
आत्तसन्तानकुसुमं घ्राणदेशानुसर्पिणम् ॥३२॥

लक्ष्म्या सवाह्यमानाङ्‌घ्रिः पद्मपत्रनिभेः करैः ।
सन्तानमालामुकुटं हारकेयूरभूषितम् ॥३३॥

भूषितञ्च तथा देवमङ्गदैरङ्गुलीयकैः ।
फणीन्द्रफणविन्यस्तचारुरत्नशिरोज्ज्वलम् ॥३४॥

अज्ञातवस्तुचरितं प्रतिष्ठितमथात्रिणा ।
सिद्धानुपूज्यं सततं सन्तानकुसुमार्चितम् ॥३५॥

दिव्यगन्धानुलिप्ताङ्गं दिव्यधूपेन धूपितम् ।
सुरसैः सुफलैर्हृद्यैः सिद्धेरुपहृतैः सदा ॥३६॥

शोभितोत्तमपार्श्वन्तं देवमुत्पलशीर्षकम् ।
ततः सन्मुखमुद्वीक्ष्य ववन्दे स नराधिपः ॥३७॥

जानुभ्यां शिरसा चैव गत्वा भूमिं यथाविधिः ।
नाम्नां सहस्रेण तदा तुष्टाव मधुसूदनम् ॥३८॥

प्रदक्षिणमथो चक्रे स तूत्थाय पुनः पुनः ।
रम्यमायतनं द्रृष्ट्वा तत्रोवासाश्रमे पुनः ॥३९॥

जलाद्‌बहिर्गुहां काञ्चिदाश्रित्य सुमनोहराम् ।
तपश्चकार तत्रैव पूजयन्‌ मधुसूदनम् ॥४०॥

नानाविधैस्तथा पुष्पैः फलमूलैः सगोरसैः ।
नित्यं त्रिषवणस्नायी वह्निपूजापरायणः ॥४१॥

देववापीजलैः कुर्वन् सततं प्राणधारणम् ।
सर्वाहारपरित्यागं कृत्वा तु मनुजेश्वरः ॥४२॥

अनास्तृतगुहाशायी कालं नयति पार्थिवः ।
त्यक्ताहारक्रियश्चैव केवलं तोयतो नृपः ॥४३॥

न तस्य ग्लानिमायाति शरीरञ्च तदद्‌भुतम् ।
एवं स राजा तपसि प्रसक्तः संपूजयन् देववरं सदैव ॥
तत्राश्रमे कालमुवास कञ्चित् स्वर्गोपमे दुःखमविन्दमानः ॥४४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP