संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १२७

मत्स्यपुराणम् - अध्यायः १२७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


ग्रहाणांगतिवर्णनम् ।
सूत उवाच ।
ताराग्रहाणां वक्ष्यामि स्वर्भानोस्तु रथं पुनः ।
अथ तेजोमयः शुभ्रः सोमपुत्रस्य वै रथः ॥१॥

युक्तोहयैः विशङ्गैश्च दशभिर्वातरंहसैः ।
श्वेतः पिशङ्गः सारङ्गो नीलः श्यामो विलोहितः ॥२॥

श्वेतश्च हरितश्चैव पृषतो वृष्णिरेव च ।
दशभिस्तु महाभागैरुत्तमैर्वातसम्भवैः ॥३॥

ततो भौमरथश्चापि अष्टाङ्गः काञ्चनः स्मृतः ।
अष्टभिर्लोहितैरश्वैः सध्वजैरग्निसम्भवैः ॥४॥

सर्पतेऽसौ कुमारो वै ऋजुवक्रानुवक्रगः ।
अतश्चाङ्गिरसौ विद्वान् देवाचार्यो बृहस्पतिः ॥५॥

गोराश्वेन तु रौप्येण स्यन्दनेन विसर्पति ।
युक्तेनाष्टाभिरश्वैश्च ध्वजैरग्निसमुद्भवैः ॥६॥

अब्दं वसति यो राशौ स्वदिशं तेन गच्छति ।
ततः शनैश्चरोऽप्यश्वैः सबलैर्वातरंहसैः ॥७॥

कार्ष्णायसं समारुह्य स्यन्दनं यात्यसौ शनिः ।
स्वर्भानोस्तु तथाष्टाश्वाः कृष्णा वै वातरंहसः ॥८॥

रथन्तमोमयं तस्य वहन्तिस्म सुदंशिताः ।
आदित्यनिलयो राहुः सोमं गच्छति पर्वसु ॥९॥

आदित्यमेति सोमाच्च तमसां तेषु पर्वसु ।
ततः केतुमतस्त्वश्वा अष्टौ ते वातरंहसः ॥१०॥

पलालधूमवर्णाभाः क्षामदेहाः सुदारुणाः ।
एते वाहा ग्रहाणां वै मया प्रोक्ता रथै सह ॥११॥

सर्वे ध्रुवे निबद्धास्ते निबद्धा वातरश्मिभिः ।

एते वै भ्राम्यमाणास्ते यथायोगं वहन्ति वै ॥१२॥

वायव्याभिरदृश्याभिः प्रबद्धा वातरश्मिभिः ।
परिभ्रमन्ति तद्बद्ध्वा श्चन्द्रसूर्यग्रहा दिवि ॥१३॥

यावत्तमनुपर्येति ध्रुवं वै ज्योतिषाङ्गणः ।
यथा नद्युदके नौस्तु उदकेन सहोह्यते ॥१४॥

तथा देवगृहाणि स्युरुह्यन्ते वातरंहसा ।
तस्माद्यानि प्रगृह्यन्ते व्योम्नि देवगृहा इति ॥१५॥

यावन्त्यश्चैव ताराः स्युस्तावन्तोऽस्य मरीचयः ।
सर्वा ध्रुवनिबद्धास्ता भ्रमन्त्यो भ्रामयन्ति च ॥१६॥

तैलपीडं यथा चक्रं भ्रामते भ्रामयन्ति वै ।
तथा भ्रमन्ति ज्योतींषि वाता बद्धानि सर्वशः ॥१७॥

अलातचक्रवद्यान्ति वातचक्रेरितानि तु ।
यस्मात् प्रवहते तानि प्रवहस्तेन स स्मृतः ॥१८॥

एवं ध्रुवे नियुक्तोऽसौ भ्रमते ज्योतिषाङ्गणाः ।
एष तारामयः प्रोक्तः शिशुमारे ध्रुवा दिवि ॥१९॥

शिश्ने सम्वत्सरो ज्ञेयो मित्रश्चापानमाश्रितः ।
पुच्छेऽग्निश्च महेन्द्रश्च मरीचिः कश्यपो ध्रुवः ॥२०॥

एष तारामयः स्तम्भो नास्तमेति नवोदयम् ।
नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह ॥२१॥

यादह्रा कुरुते पापन्तं द्रृष्ट्वा निशि मुञ्चतः ।
शिशुमारशरीरस्था यावन्त्यस्तारकास्तु ताः ॥२२॥

वर्षाणि द्रृष्ट्वा जीवेत तावदेवाधिकानि तु ।
शिशुमाराकृतिं ज्ञात्वा प्रविभागेत सर्वशः ॥२३॥

उत्तानपादस्तस्याथ विज्ञेयः सोत्तरा हनुः ।
यज्ञोधरस्तु विज्ञेयो धर्मोमूर्द्धानमाश्रितः ॥२४॥

हृदि नारायणः साध्या अश्विनौ पूर्वपादयोः ।
वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥२५॥

तन्मुखाभिमुखाः सर्वे चक्रभूता दिवि स्थिताः ।
ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम् ॥२६॥

परियान्ति सुरश्रेष्ठं मेढीभूतं ध्रुवं दिवि ।
आग्नीध्रकाश्यपानान्तु तेषां स परमो ध्रुवः ॥२७॥

एक एव भ्रमत्येष मेरोरन्तरमूर्द्धनि ।
ज्योतिषाञ्च क्रमादाय आकर्षस्तमधोमुखः ॥
मेरुमालोकयन्नेव प्रति याति प्रदक्षिणम् ॥२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP