संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ९०

मत्स्यपुराणम् - अध्यायः ९०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम् ।
मुक्ताफलसहस्रेण पर्वतः स्यादनुत्तमः ॥१॥

मध्यमः पञ्चशतकस्त्रिशतेनाधमः स्मृतः ।
चतुर्थांशेन विष्कम्भपर्वताः स्युः समन्ततः ॥२॥

पूर्वेण वज्रगोमेदैर्दक्षिणेनेन्द्रनीलकैः ।
पद्मरागयुतः कार्य्यो विद्वद्भिर्गन्दमादनः ॥३॥

वैढूर्य्यविद्रुमैः पश्चात्संमिश्रोविमलाचलः ।
पद्मरागैः ससौवर्णैरुत्तरेण च विन्यसेत् ॥४॥

धान्यपर्वतवत्सर्वमत्रापि परिकल्पयेत् ।
तद्वदावाहनं कुर्य्याद्‌वृक्षान्‌ देवांश्च काञ्चनान् ॥५॥

पूजयेत्पुष्पगन्धाद्यैः प्रभाते च विमत्सरः ।
पूर्ववद्‌गुरुऋत्विग्भ्य इमान् मन्त्रानुदीरयेत् ॥६॥

यदा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः ।
त्वञ्च रत्नमयो नित्यं नमस्तेऽस्तु सदाचल ॥७॥

यस्माद्रत्नप्रदानेन तुष्टिं प्रकुरुते हरिः ।
सदा रत्नप्रदानेन तस्मान्नः पाहि पर्वत ॥८॥

अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम् ।
स याति विष्णुसालोक्यममरेश्वरपूजितः ॥९॥

यावत्कल्पशतं साग्रं वसेच्चेह नराधिप । ‘
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत् ॥१०॥

ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम् ।
तत्सर्वं नाशमायाति गिरिर्वज्रहतो यथा ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP