संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १०८

मत्स्यपुराणम् - अध्यायः १०८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


युधिष्ठिर उवाच ।
एतच्छ्रुत्वा प्रयागस्य यत्त्वया परिकीर्तितम् ।
विशुद्धं मेऽद्य हृदयं प्रयागस्य तु कीर्तनात् ॥१॥

अनाशकफलं ब्रूहि भगवंस्तत्र कीद्रृशम् ।
यञ्च लोकमवाप्नोति विशुद्धः सर्वकिल्बिषैः ॥२॥

मार्कण्डेय उवाच ।
श्रृणु राजन्! प्रयागे तु अनाशकफलं विभो ।
प्राप्नोति पुरषो धीमान् श्रद्धधानो जितेन्द्रियः ॥३॥

अहीनाङ्गोऽप्यरोगश्च प़ञ्चेन्द्रियसमन्वितः ।
अश्वमेधफलं तस्य गच्छतस्तु पदे पदे ॥४॥

कुलानि तारयेद्राजन्! दशपूर्वान् दशापरान् ।
मुच्यते सर्वपापेभ्यो गच्छेत् तु परमं पदम् ॥५॥

युदिष्ठिर उवाच ।
महाभाग्यं हि धर्म्मस्य यत्त्वं वदसि मे प्रभो! ।
अल्पेनैव प्रयत्नेन बहून् धर्मानवाप्नुते ॥६॥

अश्वमेधैस्तु बहुभिः प्राप्यते सुव्रतैरिह ।
इमं मे संशयं छिन्धि परं कौतूहलं हि मे ॥७॥

मार्कण्डेय उवाच ।
श्रृणु राजन्! महावीर! यदुक्तं ब्रह्मयोनिना ।
ऋषीणां सन्निधौ पूर्वं कथ्यमानं मया श्रुतम् ॥८॥

पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् ।
प्रविष्टमात्रे तद्भूमावश्वमेधः पदे पदे ॥९॥

व्यतीतान् पुरुषान् सप्त भविष्यांश्च चतुर्दश ।
नरस्तारयते सर्वान् यस्तु---प्राणान् परित्यजेत् ॥१०॥

एवं ज्ञात्वा तु राजेन्द्र! सदा सेवापरो भवेत् ।
अश्रद्दधानाः पुरुषाः पापोऽपहतचेतसः ।
न प्राप्नुवन्ति तत्स्तानं प्रयागं देवरक्षितम् ॥११॥

युधिष्ठिर उवाच ।
स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशङ्गताः ।
कथं तीर्थफलं तेषां कथं पुण्यफलं भवेत् ॥१२॥

विक्रयः सर्वमाण्डानां कार्याकार्य्यमजानतः ।
प्रयागे का गातिस्तस्य तन्मे ब्रूहि पितामह! ॥१३॥

मार्कण्डेय उवाच ।
श्रृणु राजन्! महागुह्यं सर्वपापप्रणाशनम् ।
मासमेकन्तु यः स्नायात् प्रयागे नियतेन्द्रियः ॥
मुच्यते सर्वपापेभ्यः स गच्छेत् परमं पदम् ॥१४॥

विश्रम्भधातकानान्तु प्रयागे श्रृणु यत् फलम् ।
त्रिकालमेवस्नायीत आहारं भैक्ष्यमाचरेत् ॥
त्रिभिर्मासैः स मुच्येत प्रयागे तु न संशयः ॥१५॥

अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् ।
सर्वकामसमृद्धे तु स्वर्गलोके महीयते ॥
स्थानञ्च लभते नित्यं धनधान्यसमाकुलम् ॥१६॥

एवं ज्ञानेन संपूर्णः सदा भवति भोगवान् ।
तारिताः पितरस्तेन नरकात् प्रपितामहाः ॥१७॥

धर्मानुसारितत्वज्ञ! पृच्छतस्ते पुनः पुनः ।
त्वत्प्रियार्थं समाख्यातं गुह्यमेतत् सनातनम् ॥१८॥

युधिष्ठिर उवाच ।
अद्यमे सफलं जन्म अद्यमे तारितं कुलम् ।
प्रीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेवते मुने! ॥१९॥

त्वद्दर्शनात्तु धर्मात्मन्! मुक्तोहऽञ्चाद्य किल्बिषात् ।
इदानीं वेद्मि चात्मानं भगवन्! गतकल्मषम् ॥२०॥

मार्कण्डेय उवाच ।
दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम् ।
कीर्तनाद्वर्धते पुण्यं श्रुतात्पापप्रणाशनम् ॥२१॥

युधिष्ठिर उवाच ।
यमुनायान्तु किं पुण्यं किं फलन्तु महामुने! ।
एतन्मे सर्वमाख्या हि यथाद्रृष्टं यथा श्रुतम् ॥२२॥

मार्कण्डेय उवाच ।
तपनस्य सुतादेवी त्रिषुलोकेषु विश्रुता ।
समाख्याता महाभागा यमुना तत्र निम्नगा ॥२३॥

येनैव निः सृता गङ्गा तेनैव यमुना गता ।
योजनानां सहस्रेषु कीर्तनात् पापनाशिनी ॥२४॥

तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर! ।
कीर्तनाल्लभते पुण्यं द्रृष्ट्वा भद्राणि पश्यति ॥२५॥

अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम् ।
प्राणांस्त्यजति यस्तत्र स याति परमाङ्गतिम् ॥२६॥

अग्नितीर्थमितिख्यातं यमुनादक्षिणे तटे ।
पश्चिमे धर्मराजस्य तीर्थन्तु नरकं स्मृतम् ॥२७॥

तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः ।
एवं तीर्थसहस्राणि यमुनादक्षिणे तटे ॥२८॥

उत्तरेण प्रवक्ष्याणि आदित्यस्य महात्मनः ।
तीर्थं निरञ्जनं नाम यत्र देवाः सवासवाः ॥२९॥

उपासते स्म सन्ध्यां ये त्रिकालं हि युधिष्ठिर!
देवाः सेवन्ति तत्तीर्थं ये चान्ये विबुधाजनाः ॥३०॥

श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम् ।
अन्ये च बहवस्तीर्थाः सर्वपापहराः स्मृताः ॥
तेषु स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः ॥३१॥

गङ्गा च यमुना चैव उभे तुल्यफले स्मृते ।
केवलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते ॥३२॥

एवं कुरुष्व कौन्तेय! सर्वतीर्थाभिषेचनम् ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥३३॥

यस्त्विमं कल्प (ल्य) उत्थाय पठते च श्रृणोति च ।
मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP