संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १११

मत्स्यपुराणम् - अध्यायः १११

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


युधिष्ठिर उवाच ।
कथं सर्वमिदं प्रोक्तं प्रयागस्य महामुने!
एतन्नः सर्वमाख्याहि यथा हि मम तारयेत् ॥१॥

मार्कण्डेय उवाच ।
श्रृणु राजन्! प्रयागे तु प्रोक्तं सर्वमिदं जपेत् ।
ब्रह्मा विष्णुस्तथेशानो देवताः प्रभुरव्ययः ॥२॥

ब्रह्मा सृजति भूतानि स्थावरं जङ्गमञ्च यत् ।
तान्येतानि परं लोके विष्णुः सम्वर्द्धते प्रजाः ॥३॥

कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत् ।
तदा प्रयागतीर्थञ्च न कदाचिद्विनश्यति ॥४॥

ईश्वरः सर्वभूतानां यः पश्यति स पश्यति ।
यत्नेनानेन तिष्ठन्ति ते यान्ति परमाङ्गतिम् ॥५॥

युधिष्ठिर उवाच ।
आख्याहि मे यथातथ्यं यथैषा तिष्ठति श्रुतिः ।
केन वा कारणेनैव तिष्ठन्ते लोकसत्तमाः ॥६॥

मार्कण्डेय उवाच ।
प्रयागे निवसन्ते ते ब्रह्मविष्णुमहेश्वराः ।
कारणं तत्प्रवक्ष्यामि श्रृणु तत्त्वं युधिष्ठिर! ॥७॥

प़ञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् ।
तिष्ठन्ति रक्षणा यात्र पापकर्मनिवारणात् ॥८॥

उत्तरेण प्रतिष्ठानाच्छद्मना ब्रह्म तिष्ठति ।
वेणीमाधवरूपी तु भगवांस्तत्र तिष्ठति ॥९॥

माहेश्वरो वटो भूत्वा तिष्ठते परमेश्वरः ।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥
रक्षन्ति मण्डलं नित्यं पापकर्मनिवारणात् ॥१०॥

यस्मिन् जुह्वन् स्वकं पापं नरकञ्च न पश्यति ।
एवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः ॥११॥

सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले ।
रक्षमाणाश्च तिष्ठन्ति यावदाभूतसंप्लवम् ॥१२॥

येचान्ये बहवः सर्वे तिष्ठन्ति युधिष्ठिर! ।
पृथिवी तत्समाश्रित्य निर्मिता दैवतैस्त्रिभिः ॥१३॥

प्रजापतेरिन्द्र (दं) क्षेत्रं प्रयागमिति विश्रुतम् ।
एतत् पुण्यं पवित्रं वै प्रयागञ्च युधिष्ठिर! ॥
स्वराज्यं कुरु राजेन्द्र! भ्रातृभिः सहितोऽनघ ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP