संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १७७

मत्स्यपुराणम् - अध्यायः १७७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कालनेमिवृत्तान्तवर्णनम् ।

मत्स्य उवाच ।
दानवानामनीकेषु कालनेमिर्महासुरः ।
विवर्द्धितमहातेजास्तपान्ते जलदो यथा ॥१

तं त्रैलोक्यान्तरगतं दृष्ट्वा ते दानवेश्वराः ।
उत्तस्थुरपरिश्रान्ताः पीत्वामृतमनुत्तमम् ॥२

ते वीतभयसन्त्रासा मयतारपुरोगमाः ।
तारकामयसंग्रामे सततं जितकाशिनः ॥३

रेजुरायोधनगता दानवाः युद्धकाङ्क्षिणः ।
मन्त्रमभ्यसतान्तेषां व्यूहञ्च परिधावताम्॥४

प्रेक्षताञ्चाभवत् प्रीतिर्दानवं कालनेमिनम् ।
ये तु तत्र मयस्यासन् मुख्या युद्धपुरःसराः ॥५

ते तु सर्वे भयन्त्यक्त्वा हृष्टा योद्धुमुपस्थिताः ।
मयस्तारो वराहश्च हयग्रीवश्च वीर्यवान् ॥६

विप्रचित्तिसुतः श्वेनः खरलम्बावुभावपि ।
अरिष्टो बलिपुत्रश्च किशोराख्यस्तथैव च ॥७

स्वर्भानुश्चामर प्रख्यो वक्त्रयोधी महासुरः ।
एतेऽस्त्रवेदिनः सर्वे सर्वे तपसि सुस्थिताः ॥८

दानवाः कृतिनो जग्मुः कालनेमिं तमुद्धतम् ।
ते गदाभिर्भुशुण्डीभिश्चक्रैरथ परश्वधैः ॥९

कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः ।
अश्मभिश्चाद्रिसदृशैः गण्डशैलैश्च दारुणैः ॥१०

पट्टिशैर्भिन्दिपालैश्च परिघैश्चोत्तमायसैः ।
घातनीभिः सुगुर्वीभिः शतघ्नीभिस्तथैव च ॥११

युगैर्यन्त्रैश्च निर्मुक्तैर्मार्गणैरुग्रताडितैः ।
दौर्भिश्चायतदीप्तैश्च प्रासैः पाशैश्च मूर्च्छनैः ॥१२

भुजङ्गवक्त्रैर्लेलिहानैर्विसर्पद्भिश्च सायकैः ।
वज्रैः प्रहरणीयैश्च दीव्यमानैश्च तोमरैः ॥१३

विकोशैरसिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः ।
दैत्याः संदीप्तमनसः प्रगृहीतशरासनाः ॥१४

ततः पुरस्कृत्य तदा कालनेमिं महाहवे ।
सा दीप्तशस्तप्रवरा दैत्यानां रुरुचे चमूः ॥१५

द्यौर्निमीलितसर्वाङ्ग घना नीलाम्बुदागमे ।
देवतानामपि चमूः मुमुदे शक्रपालिता ॥१६

उपेता सितकृष्णाभ्यां ताराभ्यां चन्द्रसूर्ययोः ।
वायुवेगवती सौम्या तारागणपताकिनी ॥१७

तोयदाविद्धवसना ग्रहनक्षत्रहासिनी ।
यमेन्द्रवरुणैर्गुप्ता धनदेव च धीमता ॥१८

सम्प्रदीप्ताग्नि नयना नारायण परायणा ।
सा समुद्रौघसदृशी दिव्या देवमहाचमूः ॥१९

रराजास्त्रवती भीमा यक्षगन्धर्व शालिनी ।
तयोश्चम्वोस्तदानीन्तु बभूव स समागमः ॥२०

द्यावापृथिव्योः संयोगो यथा स्याद्युगपर्यये ।
तद्युद्धमभवद् घोरं देवदानवसङ्कलम् ॥२१

क्षमा पराक्रमपरं दर्पस्य विनयस्य च ।
निश्चक्रमुर्बलाभ्यान्तु भीमास्तत्र सुरासुराः ॥२२

पूर्वा पराभ्यां संरब्धाः सागराभ्यामिवाम्बुदाः ।
ताभ्यां बलाभ्यां संदृष्टाश्चेरुस्ते देवदानवाः ॥२३

वनाभ्यां पार्वतीयाभ्यां पुष्पिताभ्यां यथा गजाः ।
समाजघ्नुस्ततोभेरीः शङ्खान्दध्मुरनेकशः ॥२४

स शब्दोद्यां भुवं खञ्च दिशश्च समपूरयत् ।
ज्याघात तलनिर्घोषो धनुषां कूजितानि च ॥२५

दुन्दुभीनाञ्च निनदो दैत्यमन्तर्दधुः स्वनम् ।
तेऽन्योन्यमभिसम्पेतुः पातयन्तः परस्परम् ॥२६

बभञ्जुर्बाहुभिर्बाहून् द्वन्द्वमन्ये युयुत्सवः ।
देवास्तु चाशनिं घोरं परिघांश्चोत्तमायसान् ॥२७

निस्त्रिंशान् ससृजुः संख्ये गदागुर्वीश्च दानवाः ।
गदानिपातैर्भग्नाङ्गा बाणैश्च शकलीकृताः ॥२८

परिपेतुर्भृशं केचित् पुनः केचित्तु जघ्निरे ।
ततो रथैः सतुरगैः र्विमानैश्चाशुगामिभिः ॥२९

समीयुस्ते सुसंरब्धा रोषादन्योन्यमाहवे ।
संवर्तमानाः समरे सन्दष्टौष्ठ पुटाननाः ॥३०

रथारथैर्निरुध्यन्ते पादाताश्च पदातिभिः ।
तेषां रथानान्तुमुलः स शब्दः शब्दवाहिनाम् ॥३१

नभोनभश्च हि यथा नभस्यैर्जलदस्वनैः ।
बभञ्जुस्तु रथान् केचित् केचित् सम्पाटितारथैः ॥३२

सम्बाधमन्ये सम्प्राप्य न शेकुश्चलितुं रथान् ।
अन्योन्यमन्ये समरे दोर्भ्यामुत्क्षिप्य दंशिताः ॥३३


संह्रादमानाभरणा जघ्नुस्तत्रापि चर्मिणः ।
अस्त्रैरन्ये विनिर्भिन्ना वेमू रक्तं हतायुधि॥३४

क्षरज्जलानां सदृशाः जलदानां समागमे ।
तैरस्त्रशस्त्रग्रथितं क्षिप्तोत्क्षिप्तगदाविलम् ॥३५

देवदानव संक्षुब्धं सङ्कुलं युद्धमाबभौ ।
तद्दानव महामेघं देवायुध विराजितम् ॥३६

अन्योन्यबाणवर्षेण युद्धदुर्दिनमाबभौ ।
एतस्मिन्नन्तरे क्रुद्धः कालनेमिः स दानवः ॥३७

व्यवर्धत समुद्रौघैः पूर्यमाण इवाम्बुदः ।
तस्य विद्युच्चलापीडैः प्रदीप्त शनिवर्षिणः ॥३८

गात्रैर्नागगिरिप्रख्या विनिपेतुर्बलाहकाः
क्रोधान्निश्वसतस्तस्य भ्रूभेद स्वेदवर्षिणः ॥३९

साग्निस्फुलिङ्गप्रतता मुखान्निष्पेतुरर्चिषः ।
तिर्यगूर्ध्वञ्च गगने ववृधुस्तस्य बाहवः॥४०

पर्वतादिव निष्क्रान्ताः पञ्चास्या इव पन्नगाः ।
सोऽस्त्रजालैर्बहुविधैर्धनुभिः परिघैरपि ॥४१

दिव्यमाकाशमावव्रे पर्वतैरुच्छ्रितैरिव ।
सोऽनिलोद्धूतवसनस्तस्थौ संग्रामलालसः ॥४२

सन्ध्या तपग्रस्तशिलः साक्षान्मेरुरिवाचलः ।
ऊरुवेग प्रमथितैः शैलश्रृङ्गाग्र पादपैः ॥४३

अपातयद् देवगणान् वज्रेणेव महागिरीन् ।
बहुभिः शस्त्रनिस्त्रिंश्छिन्नभिन्न शिरोरुहाः ॥४४

न शेकुश्चलितुं देवाः कालनेमिहता युधि ।
मुष्टिभिर्निहताः केचित् केचित्तु विदलीकृताः ॥४५

यक्षगन्धर्व पतयः पेतुः सह महोरगैः ।
तेन वित्रासिता देवाः समरे कालनेमिना ॥४६

न शेकुर्यत्नवन्तोऽपि यत्नं कर्तुं विचेतसः ।
तेन शक्रः सहस्राक्षः स्पन्दितः शरबन्धनैः ॥४७

ऐरावतगतः संख्ये चलितुं न शशाक ह ।
निर्जलाम्भोद सदृशो निर्जलार्णव सप्रभः ॥४८

निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे ।
रणो वैश्रवणस्तेन परिघैः कामरूपिणा॥४९

वित्तदोऽपि कृतः संख्ये निर्जितः कालनेमिना ।
यमः सर्वहरस्तेन मृत्युप्रहरणे रणे ॥५०

याम्यामवस्थां सन्त्यज्य भीतः स्वन्दिशमाविशत् ।
स लोकपालानुत्सार्य कृत्वा तेषाञ्च कर्म्म तत् ॥५१

दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा ।
स नक्षत्र पथड्गत्वा दिव्यं स्वर्भानुदर्शनम् ॥५२

जहार लक्ष्मीं सोमस्य तं चास्य विषयं महत् ।
चालयामास दीप्ताशं स्वर्गद्वारात् स भास्करम् ॥५३

सायनञ्चास्य विषयं जहार दिनकर्म्म च ।
सोऽग्ने देवमुखं दृष्ट्वा चकारात्म मुखाश्रयम् ॥५४

वायुञ्च तरसा जित्वा चकारात्म वशानुगम् ।
स समुद्रान् समानीय सर्वाश्च सरितो बलात् ॥५५

चकारात्ममुखे वीर्याद्देहभूताश्च सिन्धवः ।
अपः स्ववशगाः कृत्वा दिविजा याश्च भूमिजाः ॥५६

स स्वयम्भुवि वा भाति महाभूत पतिर्यथा ।
सर्वलोकमयो दैत्यः सर्वभूत भयावहः ॥५७

स लोकपालैकवपुश्चन्द्रादित्य ग्रहात्मवान् ।
स्तापयामास जगतीं सुगुप्तां धरणीधरैः ॥५८

पावकानिलसम्पातो रराज युधि दानवः ।
पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवोपमे  ।
तं तुष्टुवुर्दैत्यगणा देवा इव पितामहम् ॥५९

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP