संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १८९

मत्स्यपुराणम् - अध्यायः १८९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


नर्मदामाहात्म्ये कावेरीसंगममाहात्म्यवर्णनम् ।
सूत उवाच ।
पृच्छन्ति ते महात्मानो मार्कण्डेयं महामुनिम् ।
युधिष्ठिर-पुरोगास्ते ऋषयश्च तपोधनाः ॥१॥

आख्याहि भगवन् । तथ्यं कावेरी सङ्गमो महान् ।
लोकानाञ्च हितार्थाय अस्माकञ्च विवृद्धये ॥२॥

सदा पापरता ये च नरा दुष्कृतकारिणः ।
मुच्यन्ते सर्वपापेभ्यो गच्छन्ति परमं पदम् ॥३॥

मार्कण्डेय उवाच ।
श्रृण्वन्त्ववहिताः सर्वे युधिष्ठरपुरोगमाः ।
अस्ति वीरो महायक्षः कुबेरः सत्यविक्रमः ॥४॥

इदं तीर्थमनुप्राप्य राजा यक्षाधिपोऽभवत् ।
सिद्धं प्राप्तो महाराज! तन्मे निगदतः श्रृणु ॥५॥

कावेरी नर्मदा यत्र सङ्गमो लोकविश्रुतः ।
तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः ॥६॥

तपोऽतप्यत यक्षेन्द्रो दिव्यं वर्षशतं महत् ।
तस्य तुष्टो महादेवः प्रदातुं वरमुत्तमम् ॥७॥

भो भो यक्ष! महासत्व! वरं ब्रूहि यथेप्सितम् ।
ब्रूहि कार्यं यथेष्टन्तु यद्वा मनसि वर्तते ॥८॥

कुबेर उवाच ।
यदि तुष्टोऽसि मे देव! यदि देयो वरो मम ।
अद्य प्रभृति सर्वेषां यक्षाणामधिपो भवेत् ॥९॥

कुबेरस्य वचः श्रुत्वा परितुष्टो महोश्वरः ।
एवमस्तु ततो देवस्तत्रैवान्तर धीयत ॥१०॥

सोऽपि लब्धवरो यक्षः शीघ्रं लब्धफलोदयः ।
पूजितः स तु यक्षैश्च ह्यभिषिक्तस्तु पार्थिव! ॥११॥

कावेरीसङ्गमं तत्र सर्वपापप्रणाशनम् ।
ये नरा नाभिजानन्ति वञ्चितास्ते न संशयः ॥१२॥

तस्मात् सर्व प्रयत्नेन तत्र स्नायीत मानवः ।
कावेरी च महापुण्या नर्मदा च महानदी ॥१३॥

तत्र स्नात्वा तु राजेन्द्र! ह्यर्चयेद् वृषभध्वजम् ।
अश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥१४॥

अग्निप्रवेशं यः कुर्य्याद्यश्च कुर्य्यादनाशकम् ।
अनिवर्त्या गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ॥१५॥

सेव्यमानो वरस्त्रीमिः क्रीडते दिवि रुद्रवत् ।
षष्टिवर्षसहस्राणि षष्टिकोट्यस्तथापराः ॥१६॥

मोदते रुद्रलोकस्थो यत्र तत्रैव गच्छति ।
पुण्यक्षयात् परिभ्रष्टो राजा भवति धार्मिकः ॥१७॥

भोगवान् दानशीलश्च महाकुल समुद्भवः ।
तत्र पीत्वा जलं सम्यक् चान्द्रायणफलं लभेत् ॥१८॥

स्वर्गं गच्छन्ति ते मर्त्या ये पिबन्ति शुभं जलम् ।
गङ्गायमुनयोर्मध्ये यत् फलं प्राप्नुयान्नरः
कावेरी सङ्गमे स्नात्वा तत् फलं तस्य जायते ॥१९॥

एवमादि तु राजेन्द्र! कावेरी सङ्गमे महत् ।
पुण्यं महत्फलं तत्र सर्वपापप्रणाशनम् ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP