नैऋत्यां व्याधिपीडा स्याद् वारुण्यां पशुवर्धनम् ।
वायव्ये शत्रुनाशः स्यात् सौम्ये सर्वसुखप्रदम् ॥१॥
ईशाने पुष्टिलाभः स्याद् ग्रामादौ कूप उच्यते ॥२॥
चन्द्रगुप्तश्चाह-
रुद्र वारुनदिक्षुश्च क्षेत्रारामेषु शस्यते कूपः ॥३॥
वराहमिहिरश्चाह-
आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवेत् कूपः ।
नित्यं स करोति भयं नाशं च समानुषं प्रायः ॥४॥
निऋतिकोणे कूपो धनक्षयं स्त्रीक्षयं च वायव्ये ।
दिक्त्रयमेतत्त्यक्त्वा शेषासु शुभावहः कूपः ॥५॥
तिथिविधिमाह नृसिंह-
चित्रादर्शास्तथा रिक्ता वर्ज्याः शेषाः शुभावहाः ।
शकुनादिनिविष्टं च विशेषेण विवर्जयेत् ॥६॥
शुक्रज्ञजीवचन्द्राणां वाऽथ वर्गोदयाः शुभाः ॥७॥
मूलाग्नेयमघाश्लेषा विशाखा भरणी तथा ।
अधोमुखास्त्रिपूर्वाख्याः कूपादिखनने शुभाः ॥८॥
रोहिण्यार्द्रा श्रविष्ठा च पुष्यवारुणवैष्णवाः ।
ऊर्ध्वाननाः प्रशस्ताः स्युरुत्तरत्रयमेव च ॥९॥
प्रशस्तानि तुलादीनि वृद्धिकार्यादिषु क्रमात् ।
वाजिभाच्चित्रभान्मूलात् पञ्चर्क्षन्तु विवृद्धिदम् ॥१०॥
सेतुकुल्यादिकार्येषु प्रशस्तमिति केचन ।
आप्यानिलाग्निवरुनचतुष्कं चावरोहणम् ॥११॥
वापीकूपतटाकादिखनने शुभदं भवेत् ॥१२॥
हस्तोत्तरा धनिष्ठा पित्र्यं वरुणेन्द्रमैत्ररोहिण्यः ।
हरिमूलसार्पचित्राः तिष्यं खनने प्रशस्ताः स्युः ॥१३॥
पुष्टिं भूतिं पुत्रहानिं पुरन्ध्रीनाशं मृत्युं सम्पदं शस्त्रबाधाम् ।
किञ्चित्सौख्यं दीक्षशर्वादि कुर्यात्कूपो मध्ये गेहमर्त्यक्षयञ्च ॥१४॥
मध्यमे द्रव्यनाशं स्यादैन्द्रे सुखकरं भवेत् ।
आग्नेय्यां पुत्रमरणं याम्ये सर्वविनाशनम् ॥१५॥