(चतुर्गृहविधानम् )
वर्णानां गृहविन्यासलक्षणां वक्ष्यतेऽधुना ।
चारो वर्णों के गृह का विधान - चारो वर्णो के गृह-विन्यास के लक्षण का वर्णन अब किया जा रहा है ।
वाटभित्तिविधानम्
चतुर्दण्डात् समारभ्य द्विद्विहस्तविवर्धनात् ॥१॥
त्रिंशद्धस्तावधिर्यावदेकैकं गृहमानकम् ।
क्षुद्राणामष्टधा प्रोक्तं मध्यमानां विधीयते ॥२॥
अष्टदण्डात् समारभ्य द्विद्विदण्डविवर्धनात ।
द्वात्रिंशद्दण्डपर्यन्तं गृहाणां मानमिष्यते ॥३॥
अस्मादाशतद्ण्डान्तं दण्डाभ्यां वर्धयेत्क्रमात ।
वाटभित्तेरिदं मानं तदभ्यन्तरतो गृहम् ॥४॥
चतुरस्त्रं द्विजानां च नृपाणां च विशेषतः ।
अष्टाषट्चतुरंशेन दैर्घ्यं स्यात् क्षत्रियादिषु ॥५॥
हीनं षोडशहस्तेभ्यो गृहमानं न कारयेत् ।
नवाष्टासप्तषड्ढस्तैरुत्तुङ्गं तुङ्गमानतः ॥६॥
त्रिचतुर्भागविस्तारा पादोनाग्रविशालका ।
छत्रशीर्षकतुल्याभा चन्द्रनासीविभूषिता ॥७॥
चतुर्दिक्षु चतुर्द्वारोपेता तल्पसमायुता ।
द्वारगोपुरसंयुक्ता नानावयवशोभिता ॥८॥
बहिष्ठात् परिखोपेता सर्वरक्षासमन्विता ।
वाटभित्तिरित्ति प्रोक्ता गृहबाह्यसमावृता ॥९॥
खलूरिखा
मृण्मया वा लुपारूढा तृणादिच्छादनान्विता ।
खलूरिका वा कर्तव्या वेदिकापादशोभिता ॥१०॥
भिन्नाभिन्नगृहम्
गृहक्रिया हि द्विविधा भिन्नाभिन्नप्रकारतः ।
भिन्नं च पिण्डभेदं च वक्ष्ये स्फुटतरं यथा ॥११॥
असन्धिकं भिन्नगृहं ससन्धिकं ह्यभिन्नकं भिन्नगृहेषु तेषु वै ।
चतुर्गृहं दिक्षु गतं प्रधानकं विदिक्षु वा मण्डपकं खलूरिका ॥१२॥
स्याद् वाटभित्तेरबहिः पृथग् गृहं त्रयं द्विकं वैकमसम्पदां पदम् ।
तस्माच्चतुः शालमनिन्दितं परं सविस्तरं तस्य तु मानमुच्यते ॥१३॥
नीचानां नीचमानं स्यात् श्रेष्ठानां श्रेष्ठमुच्यते ।
श्रेष्ठमानं निकृष्टानां सर्वदा न प्रयुज्यते ॥१४॥
क्वचिदिष्टं कनिष्ठानां यन्मानं श्रेष्ठजातिषु ।
गृहविन्यासः
अल्पत्वे वा महत्त्वे वा सीमासूत्रे विनिश्चिते ॥१५॥
सायते चतुरस्त्रे वा चतुष्षष्ट्या विभाजिते ।
रज्जुवंशसिराषट्कचतुष्काष्टकसन्धिभिः ॥१६॥
मर्मशूलं च यत्नेने वर्जयेद् वास्तुकोविदः ।
सूत्रादीनां गृहाङ्गैश्च पीडा येत् सर्वनाशनम् ॥१७॥
तस्मात् सर्वप्रयत्नेन सूत्रादीनि विवर्जयेत् ।
पूर्वादिमध्यसूत्राणि चान्नं धान्यं धनं सुखम् ॥१८॥
इति नामानि तन्नामा चत्वारि स्युर्गृहाणि च ।
अन्नालयं धान्यालयं धनालयं सुखालयम् ॥१९॥
मध्यमण्डपप्रमाणम्
कर्तव्यं वास्तुमध्ये तु मण्डपं प्रथमं बुधैः ।
वास्तुव्यासचतुर्भागं मण्डपस्य तु विस्तृतम् ॥२०॥
पञ्चषट्सप्तभागाष्टनवभागैकमेव वा ।
सप्तहस्तादि षण्मानं द्विद्विहतविवर्धनात् ॥२१॥
आसप्तदशहस्तान्तं श्रेष्ठमध्यकनिष्ठकम् ।
एकभक्त्या द्विभक्त्या वा चतुष्पादाष्टपादकम् ॥२२॥
द्विजभूपतिवैश्यानां युग्मपादं प्रकीर्तितम् ।
शूद्राणामन्यजातीनामयुग्मस्तम्भमिष्यते ॥२३॥
मध्यवेदिका
द्विजवन्नृपवैश्यानां वैशिष्ट्यं मध्यवेदिका ।
त्रिकालबलिलब्धा च पुष्पगन्धादिपूजिता ॥२४॥
सा त्रितालसमुत्सेधा चोत्सेधसमविस्तृता ।
तन्मध्ये ब्रह्मपीठं स्याद् वेदिकार्धप्रमाणतः ॥२५॥
षट्षङ्गुलहीनं स्यात्तन्मानं नृपवैश्ययोः ।
शूद्राद्यन्तरजातीनां न कुर्याद् ब्रह्मवेदिकाम् ॥२६॥
मध्यमण्डपलक्षणम्
सायते चतुरस्त्रे वा तत्तदाकृति मण्डपम् ।
पञ्चताल्म समारब्य त्रित्र्यङ्गुलविवर्धनात् ॥२७॥
नवधा तलिपायामाः सप्ततालान्तमानकाः ।
पञ्चाङ्गुलं समारभ्य त्रयोदशाङ्गुलान्तकाः ॥२८॥
नवधा पादविष्कम्भास्त्वग्रेऽष्टाशविवर्जिताः ।
पादोच्चार्धमधिष्ठानं षडष्टांशोनमेव वा ॥२९॥
पादोच्चे त्रिचतुर्भागं चतुरस्त्रं च वृत्तकम् ।
वस्वस्त्रं चित्रखण्डञ्च स्तम्भानामाकृतिः स्मृता ॥३०॥
शमीकादिरखदिरस्तम्भाश्च द्विजराजयोः ।
सिलीन्ध्रं पिशितं मधूकं वैश्यस्तम्भाः प्रकीर्तिताः ॥३१॥
राजादनं च निम्बं च सिलीन्ध्रः पिशितिन्दुका ।
शूद्राणां स्तम्भवृक्षाश्च त्वक्साराः सर्वयोग्यकाः ॥३२॥
पक्वेष्टाकाभिः सुधया मण्डपं द्विजभूपयोः ।
वैश्यादीनामपक्वाभिर्नानालङ्कारशोभितम् ॥३३॥
प्रपा वा तत्र कर्तव्या नालिकेरदलच्छदा ।
गृहमण्डपयोर्मध्ये त्रिचतुष्पञ्चषट्कराः ॥३४॥
सर्वतः समविस्तारं प्रकुर्यादावृतं पथम् ।
एकहस्तं द्विहस्तं वा क्षुद्रे मार्गविशालता ॥३५॥
अन्नागारादिस्थानानि
अन्नागारादिमध्यं तु वास्तुमध्यात् प्रदक्षिणम् ।
आदित्यनन्दपातालभूताङ्गुलमिति क्रमात् ॥३६॥
धर्मनन्दाष्टाधात्वंशा अन्नागारादिपादगाः ॥३७॥
एकैकाङ्घ्रिगतं तत्तत्स्तम्भस्थापनकर्मणि ।
वास्तुमध्यादुदक् पूर्वदक्षिणापरतः क्रमात् ॥३८॥
गृहाङ्घ्रिमध्ययोर्मध्यभितिर्मध्यमिति स्मृतम् ।
अन्तर्मुखानि गेहानि वास्तुनश्च बहिर्मुखम् ॥३९॥
सुखालयः
महीधरेन्दुभल्लाटमृगादितिपदाश्रितम् ।
सौख्यं महिसुरावासं तत्तारायाममुच्यते ॥४०॥
पञ्चादिनवहस्तान्तं मध्यार्धं च दशार्धकम् ।
सप्तैकादशहस्तं स्यादिति मानत्रयं विदुः ॥४१॥
सामान्यप्रमाणानि
चूल्युच्चं सर्वगेहानां गृहान्तं विपुलं भवेत् ।
पादोदयसमा भित्तिः स्वपादत्रिगुणा ततिः ॥४२॥
गेहतारचतुर्भागपञ्चभागान्तरं क्रमात् ।
पादव्यास इति प्रोक्तं गेहव्यासात्करात्तु वा ॥४३॥
यावन्तो विपुले हस्तास्तावदङ्गुलसंख्यया ।
सर्वेषामपि गेहानां स्तम्भविष्कम्भमिष्यते ॥४४॥
पुनः सुखालयः
महेन्द्रांशे भवेद् द्वारं मुख्यांशे वारिनिःस्त्रवम् ।
ब्राह्मणानामिदं सर्वं सम्पदां स्यात् सदास्पदम् ॥४५॥
अन्नालयः
महेन्द्रार्कार्यके सत्ये भृशभागे महानसम् ।
त्रिहस्तं पञ्चहस्तं च त्र्यर्धहस्तं षडर्धकम् ॥४६॥
चतुर्हस्तं सप्तहस्तं चतुरष्टार्धहस्तकम् ।
पञ्चहस्तं नवहस्तं पञ्चमानं महानसे ॥४७॥
गृहक्षतांशके द्वारं जयन्ते वारिनिःस्त्रवम् ।
प्राच्यावासं नृपस्योक्तं कोशवाहनवर्धनम् ॥४८॥
धान्यालयः
गृहक्षतार्किगन्धर्वभृङ्गराजे विवस्वति ।
धान्यालयं प्रकर्तव्यं तत्तरायाममुच्यते ॥४९॥
पञ्चहस्तं नवहस्तं षडर्धं च दशार्धकम् ।
सप्तैकादशहस्तं स्यान्नवत्रयोदशहस्तकम् ॥५०॥
एकादशपञ्चदशहस्तं पञ्चप्रमाणकम् ।
पुष्पदन्तपदे द्वारं वितथे वारिनिःस्रवम् ॥५१॥
विशां दक्षिणवासं स्याद् धनधान्यसुखावहम् ।
धनालयः
पुष्पदन्तेऽसुरे शोषे वारुने मित्रके पदे ॥५२॥
धनालयं धान्यसमं किञ्चिन्न्यूनत्वमिष्यते ।
शूद्रस्य पश्चिमे वासं धनधान्यशुभप्रदम् ॥५३॥
भल्लाटांशे भवेद् द्वारं सुग्रीवे वारिनिःस्त्रवम् ।
चतुर्णामपि वर्णानामुक्ता वासविधिक्रमः ॥५४॥
गृहोर्ध्वभागाङ्गानि
स्तम्भस्योपरि कर्तव्यं पोतिकोत्तरवाजनम् ।
तुलाजयन्त्यमुमार्गं फलकं भूमिकल्पनम् ॥५५॥
कपोतं तत्प्रतिश्चैव वितस्तिजलकानि च ।
मुष्टिबन्धं मृणाली च दण्डिकां च लुपाक्रियाम् ॥५६॥
लुपापच्छादनं चैव मुखपट्टिकयान्वितम् ।
गृहस्य दक्षिणे पार्श्वे द्वारं प्रति महद्भवेत् ॥५७\।
वास्तुमण्डपप्रमाणम्
द्वित्रिहस्तत्रिहस्तार्धं चतुर्हस्तं च भक्तयः ।
चतुष्पदाद्याद्वात्रिंशद्भक्त्या वा वास्तुमण्डपम् ॥५८॥
एकभक्त्याद्येकत्रिंशद्भक्त्यन्ताल्पेऽन्तरप्रपा ।
सपदा च सविष्टा च नालितालदलच्छदा ॥५९॥
गर्भस्थानम्
गृहाणां गर्भस्थानं तु प्रवक्ष्याम्यनुपूर्वशः ।
देवानां चैव विन्यासे विशेषेण प्रभागतः ॥६०॥
पुष्पदन्ते च भल्लाटॆ महेन्द्रे च गृहक्षते ।
दक्षिने नेत्रभित्तौ तु सौम्यादौ तु चतुर्गृहे ॥६१॥
भित्तिव्यासे नवाष्टांशे बाह्ये तु चतुरंशकम् ।
अन्तस्त्रयांशकं नीत्वा मध्ये गर्भं निधापयेत् ॥६२॥
स्वामिवासस्य विस्तारे पञ्चषट्सप्तभागिके ।
नीत्वान्तर्भागिकं नेत्रं तत्प्रदक्षिणभागिके ॥६३॥
स्तम्भमूले विधातव्यं गर्भं गुह्यतरं वरम् ।
द्वारप्रदक्षिने स्तम्भे कभित्तौ गूढपादके ॥६४॥
वास्तुमण्डपमध्यस्य दक्षिणे वाङ्घ्रिमूलके ।
पिणभिन्नगृहे गर्भस्थानं पञ्चविधं भवेत् ॥६५॥
मुहूर्तस्तम्भः
तस्योपरि निधातव्यं मुहूर्तस्तम्भमुत्तमम् ।
विधिज्ञैस्तत्र खदिरं खादिरं च मधूककम् ॥६६॥
राजादानं यथासंख्यं विस्तारायाममुच्यते ।
भानुरुद्रदशद्वारवितस्त्यायामसंयुताः ॥६७॥
तत्संख्याङ्गुलविस्तीर्णाः स्वाग्रेऽष्टांशविवर्जिताः ।
भूतसार्धचतुर्वेदगुणतालानिखातकाः ॥६८॥
वृत्तकुड्मलखण्डाग्रबुद्बुदाकृतिशीर्षकाः ।
द्विजादीनां चतुर्णां हि स्तम्भाः सम्यक्प्रपूजिताः ॥६९॥
सामान्यविधिः
पिण्डशाला च कर्तव्या त्यक्तमध्यस्थपादका ।
गृहमध्यमभित्तिश्च पादमध्यमवर्जिता ॥७०॥
तामाश्रित्य तु कुल्याभद्वारद्वयमिहेष्यते ।
यत्र चाभ्यन्तरद्वारं पूर्वदक्षिणतो दिशि ॥७१॥
दक्षिणे गृहपार्श्वे तु गृहपार्श्वे महानसे ।
अभ्यन्तरे तु यद् द्वारं पश्चिमोत्तरतो दिशि ॥७२॥
उत्तरे गृहपार्श्वे तु पार्श्वे पश्चिमतो गृहे ।
शालासु भिन्नशालासु सन्धिकर्म न कारयेत् ॥७३॥
देवतास्थापनं पिण्डशालासु तु विधीयते ।
इष्टतो बाह्यदेवानां पद्मजस्य निवेशनम् ॥७४॥
शेषाश्च निष्पदाः सर्वे रक्षणार्थं निवेशिताः ।
कदाचित् पिण्डशालायां मध्यं न प्रविधीयते ॥७५॥
पार्श्वयोः पृष्ठतः पूर्वे पादानां च समुच्चयम् ।
प्रवक्ष्याम्यनुपूर्वेण हस्तसंख्यावशात् पुनः ॥७६॥
त्रिहस्ते वा त्रिहस्तार्धे स्तम्भा अष्टौ समाहिताः ।
चतुर्हस्ते च सार्धे च पञ्चहस्ते च सद्मनि ॥७७॥
द्विरष्टस्तम्भमुद्दिष्ट षट्षडर्धे च सप्तके ।
त्रिरष्टाङ्घ्रय उद्दिष्टाः सार्धाष्टनवहस्तके ॥७८॥
चतुरष्टाङ्घ्रयः प्रोक्ता दशार्धैकादशेऽपि च ।
पञ्चाष्टस्तम्भसंख्याः स्युः सार्धे द्वादशहस्तके ॥७९॥
त्रयोदशविशाले तु षडष्टैवाङ्घ्रयः स्मृताः ।
विस्तारे च तथायामे समाः पादास्तु संख्यया ॥८०॥
अलिन्द्रम्
सप्तहस्तं च विस्तीर्णं षड्भागेन विभाजयेत् ।
द्विभागेन मुखेऽलिन्द्रं नवहस्तेऽष्टभागके ॥८१॥
त्रिभागं पुरतोऽलिन्द्रमेकादशविशालके ।
दशभागे चतुर्भागमर्कभागे त्रयोदशे ॥८२॥
षडंशं पुरतोऽलिन्द्रमेवं भागक्रमं विदुः ।
स्वामिस्थानम्
स्वामिस्थानस्य विस्तारं चतुष्पञ्चाशदङ्गुलम् ॥८३॥
अष्टसप्ततिमात्रं हि महत्त्वं तु विधीयते ।
षट्षडङ्गुलवृद्ध्या तु पञ्चमानं विधीयते ॥८४॥
षष्टिभागे कृते स्तम्भे षोडशांशेन वेदिका ।
वेदिकाद्विगुणं पादं शेषं प्रस्तरमानकम् ॥८५॥
पादबन्धमधिष्ठानं पादं सर्वाङ्गसंयुतम् ।
उत्तरोपरि भुतानि कपोतप्रतिसंयुतम् ॥८६॥
व्यालेभमकरैः सिंहैर्नासिकाद्यैरलंकृतम् ।
द्वारतोरणसंयुक्तं विचित्रान्तरभित्तिकम् ॥८७॥
स्वामिवासमिदं वासे कर्तव्यं चात्र मण्डपम् ।
न जातु स्वामिनो वासे वंशानुगतशायनम् ॥८८॥
स्वामिस्थाने स्थिताः स्तम्भा नेत्रभक्त्या प्रकीर्तिताः ।
एकैकान्तरिताः पादा निरन्तरनिवेशिताः ॥८९॥
मूलस्तम्भार्धविस्तारा यथेष्टालंकृतैर्युताः ।
उपर्युपरि वासानां स्वामिस्थानं विधीयते ॥९०॥
इष्टका सुधया वाऽपि फलकामयभित्तिकम् ।
हेमताम्रादिकं चैव राज्ञां यदि विचित्रकम् ॥९१॥
अन्नागारादिषु द्वौ द्वौ पाञ्चालादिलुपोच्छ्रयौ ।
लुपाक्रियाक्रमं सर्वं पूर्ववत् परिकल्पयेत् ॥९२॥
धनक्षयो मन्दवेधे तीव्रे स्याद् ऋणबन्धनम् ।
त्रिचूली वैश्यशूद्राणां पञ्च सप्त महीभृताम् ॥९३॥
ब्राह्मणांना नवैवं तु एकादशं तु दैविकम् ।
पाषण्ड्याश्रमिणां युग्मसंख्या चूली विधीयते ॥९४॥
गर्भाधानं चङ्क्रमणं कभित्तिं मुख्यवासके ।
शिलास्तम्भं तलं कुड्यं नृणां वासे न कारयेत् ॥९५॥
तृणाद्यैर्मृण्मयं छाद्यं लोष्टैश्छाद्यममृण्मयम् ।
ब्रह्मस्थानं तलान्निम्नं गृहान्तःस्थलमिष्यते ॥९६॥
निम्ने गृहस्थले द्वारं प्रच्छन्नजलभूमिकम् ।
सर्वेषामपि वर्णानां पादोच्चार्धं मसूरकम् ॥९७॥
केचित् स्वर्भर्तृवक्षोरुनाभ्युत्सेधं वदन्ति वै ।
अधिष्ठानं च याम्यादि चतुर्गृहविधौ क्रमात् ॥९८॥
एकस्यैव प्रधानत्वादीदृशेषु गृहेषु वै ।
तस्य कर्तृश्च भोगानां स्थानं तत्रैव कल्पयेत् ॥९९॥
भोगविन्यासः
काञ्चीलवणयोः पात्रं प्रागुदग्दिशि विन्यसेत् ।
अन्तरिक्षे भवेच्चुल्ली सत्यके स्यादुलूखलम् ।
ऐशान्यां पचनस्थानं सर्वेषां देहिनां हितम् ॥१००॥
चुल्लीलक्षणम्
वसुभान्वङ्गुलवैपुलोच्छ्रिताभ्यां नयनांशाक्षकराग्रजप्रवृद्ध्या ।
सविकराङ्गुलरत्निकान्तमानं कथितं पञ्चविधं हि चुल्लिभेदम् ॥१०१॥
चतुरर्काद्यवसानमास्यतारं पुटतारं च तथैव पृष्ठकूटम् ।
समतुङ्गं विपुलं तु चुल्लिकार्थं ह्यधमानामधमादिमानमेव ॥१०२॥
नरशीर्षकवन्नृपस्य चुल्ली चतुरस्त्रं द्युसदां महीसुराणाम् ।
चतुरायतकं विशां परेषामितरेषामितरेषु सर्वमिष्टम् ॥१०३॥
चूलीसंख्यम्
इन्द्वग्निभूतमुनिनन्दकरुद्रसंख्या-
श्चूल्यो नृणाममरधाम्नि समासमाः स्युः ।
सर्वाः सुरावनिसुरावनिपेषु योग्याः
शेषेतु तत्तदुदिताश्च मता यमीन्द्रैः ॥१०४॥
पुनर्भोगविन्यासः
अन्नप्राशनमार्यांशे चेन्द्रांशे च सविन्द्रके ॥१०५॥
श्रवणं तु विवस्वांशे मित्रांशे तु विवाहकम् ।
क्षौरमिन्द्रजये विद्याद् वायौ सोमे च सम्मतम् ॥१०६॥
व्ययं चोपनयं चव पितृदौवारिके जले ।
सुगले पुष्पदन्ते च प्रसूतिगृहमिष्यते ॥१०७॥
जलकोशमापवत्से कुण्डमापे विधीयते ।
अङ्कनं तु महेन्द्रांशे पेषणी च महीधरे ॥१०८॥
वस्तुभेदानि
वस्तुभेदं प्रवक्ष्यामि पूर्वोक्ते सद्यमि क्रमात् ।
दिशाभद्राख्यमादौ तु गरुडपक्षं ततः परम् ॥१०९॥
कायभारं तुलानीयमिति वस्तु चतुर्विधम् ।
दिशाभद्रकम्
गेहायासमं दिक्षु भाद्रकं दिशिभद्रकम् ॥११०॥
अङ्गणं दिक्षु कर्तव्यं विदिक्षु प्रतिवाटभूः ।
शेषं पूर्ववदुद्दिष्टं विशेषाद् द्विजभूपयोः ॥१११॥
गरुडपक्षम्
वेश्मन्यपि यथा राज्ञां गरुडपक्षविधिक्रमः ।
कायभारम्
विस्तारद्विगुणायाममायामं पञ्चभागिकम् ॥११२॥
द्विभागं पश्चिमे त्यक्त्वा शेषमष्टाष्टभागिकम् ।
मण्डपादीनि सर्वाणि पूर्ववत् परिकल्पयेत् ॥११३॥
प्रधानं दक्षिणावासं शेषं भोगाधिवासकम् ।
भृङ्गराजनि दौवार्ये सुग्रीवे पितृभागिके ॥११४॥
अरिष्टागारदिष्टं च तत्रोपस्करभूमिकम् ।
वाहनं द्वारवामे च दानशाला च वारूणे ॥११५॥
असुरे धान्यवासं स्यादायुधं चेन्द्रराजके ।
मित्रवासं तथा मित्रे रोगे लूखलयन्त्रकम् ॥११६॥
भूधरे कोशगेहं स्यान्नागांशे घृतमौषधम् ।
जयन्ते चापवत्से च पर्जन्ये च शिवे क्रमात् ॥११७॥
विषं च विषघातं च कूपं देवगृहं भवेत् ।
सवित्राद्यन्तरिक्षान्ते सव्यञ्जनमहानसम् ॥११८॥
वितथे पूष्णि साविन्द्रे भुक्तिगेहं मनोरमम् ।
एवमैश्वर्ययुक्तानां वैश्यानां प्रविधीयते ॥११९॥
विशां यथार्हकं सर्वं त्यक्तपश्चिमभागकम् ।
कायभारमिति प्रोक्तं तुलानीयं प्रवक्ष्यते ॥१२०॥
तुलानीयम्
विस्तारद्विगुणायाममायामं सप्तभागकम् ।
त्रिभागं वस्तुमध्ये तु चतुष्षष्टिविभाजिते ॥१२१॥
मण्डपादीनि सर्वाणि पूर्ववत् परिकल्पयेत् ।
तत्पूर्वापरयोर्द्विद्विभागं त्यक्त्वा प्रयत्नतः ॥१२२॥
तत्र स्थानमलङ्कुर्याद् यथायुक्ति विचक्षणः ।
वायुभल्लाटसोमेषु भवेदास्थानशालकम् ॥१२३॥
मुख्यांशे लूखलं चापे गणिकानां निवेशनम् ।
वाहनं पुरतो वामे शेषं तत्र यथेष्टतः ॥१२४॥
शूद्राणां भोगयुक्तानामेवं सम्यक् प्रकीर्तितम् ।
पर्यन्ते भित्तिके तस्मिन् जलपातं कुलक्षयम् ॥१२५॥
नीव्रसंक्रमणं तस्मिन्नास्ति चेद् यदि वेश्मनि ।
सर्वेषामपि वर्णानां सर्वसम्पत्क्षयो भवेत् ॥१२६॥
गृहविस्तारमानेन चायामेन गृहोन्नतम् ।
उक्तप्रकारं शुभदमन्यथा चेद् विनाशनम् ॥१२७॥
द्वारमानानि
स्तम्भायामेऽष्टांशके सार्धषट् तु
द्वारायामं नन्दभागे तदर्धे ।
त्यक्त्वार्धांशं शेषभागं विशालं
द्वारं नृणां धाम्नि कुर्याद् विधिज्ञैः ॥१२८॥
पादायमे पञ्चभागे युगांशं
द्वारायामं शेषभागं षडंशम् ।
त्र्यर्धं द्व्यर्धं चोत्तराधः प्रतिः स्याद्
द्वारे बन्धं पूर्ववत्तस्य तारम् ॥१२९॥
कर्मकालः
तरुणरविमयूखप्रेक्षणादन्नशालं
ह्यतिनतमपराह्ने वारुणाद्रश्मिजालम् ।
धनगृहमतितुङ्गः दुर्निरीक्षं त्रिशङ्को-
रतितरमुरुतुङ्गं दक्षिणागारमिष्टम् ॥१३०॥
मुनिशुभकररश्मिप्रेक्षणादत्र हेतोः
सुखगृहमतिनीचं चाथ कर्तव्यमेव ।
द्विजनृपवणिजां वै सद्मनां शूद्रकाना-
मुदयनतविभागं प्रोक्तमाद्यैर्मुनीन्द्रैः ॥१३१॥
द्वारस्थानम्
गृहगतवरमैशं राक्षसे पुष्पदन्ते
शुभकरमथ भल्लाटांशकेऽशे महेन्द्रे ।
धनकुलपशुवृद्धिं शंसते तस्य भर्तु-
र्गृहगतशुभमानं पादमध्यं च भित्तेः ॥१३२॥
वासविन्यासः
दक्षिणावसथकं गृहेशितुर्वामरङ्गमुदितं तु योषितः ।
तद्विपर्ययशोभनं तयोश्चित्तदुःखमनिशं ददाति हि ॥१३३॥
मध्यं प्रोक्तं वस्तुगेहाङऽघ्रिकानां
भित्तेर्युक्त्या तत् क्रमं सम्पदृद्ध्यै ।
तत्तन्मिश्रं सर्वसम्पत्क्षयं स्यात्
तस्मात् सम्यक् सम्परीक्ष्यैव कुर्यात् ॥१३४॥
आरम्भकालः
मेषे वृषे चान्नगृहं प्रकुर्या-
न्मृगेन्द्रके कर्कटके च धान्यम् ।
धनं तुलायामथ वृश्चिके वा
सुखालयं वै मकरे च कुम्भे ॥१३५॥
अनिमिषयमकन्याकार्मुके संस्थिते चेत्
सकलदिशि न कुर्यान्मन्दिरं कर्मविद्वान् ।
यदि विधिमनवेक्ष्य स्वेच्छया कर्तुमिच्छेद्
व्रजति यमपुरं वा दासनाशो भवेद् वा ॥१३६॥
इति मयमते वस्तुशास्त्रे चतुर्गृहविधानं
नाम सप्तविंशोऽध्यायः