संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथैकत्रिंशोऽध्यायः

अथैकत्रिंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(यानाधिकारः)

यानशयनभेदाः

अथ वक्ष्ये यानानां शयनानां लक्षणं क्रमशः ।

शिबिका च रथं यानं पर्यङ्कादीनि शयनानि ॥१॥

अथ शयने तज्जातान्यपि पीठाद्यासनानि ततः ।

शिबिकाभेदाः

पीठेति च शिखरेति मौण्डीति मया त्रिधा मता शिबिका ॥२॥

व्यासायामसमस्ता भेदाः सत्र्यंशशिखरिभित्तिवशात् ।

व्यासायामोत्सेधान्यधुना वक्ष्ये पृथक्‌ पृथक्‌ तासाम् ॥३॥

पीठा

व्यासं त्रिवितस्तिः स्यादायामं पञ्चकैर्वितस्तिः स्यात् ।

अधम्म त्रिवितस्तिः स्यान्मध्यं तस्मादङ्गुलाधिक्यम् ॥४॥

तस्मात् त्र्यङ्गुलमधिकमुत्तममेतत्तु कथ्यते मुनिभिः ।

विपुलाध्यर्धायामं स्वस्वव्यासं च कर्णमात्रं वा ॥५॥

व्यासार्ध्म भित्त्युच्चं श्रेष्ठं तस्मात् त्र्यङ्गुलक्षयतः ।

मध्यममधमं तस्मात् त्र्यङ्गुलहीनं त्रिधोत्तुङ्गम् ॥६॥

व्यासायामोच्चवशात् त्रिविधोक्ता पैण्डिका शिबिका ।

सैकत्रिंशतिमात्रैः सप्तत्रिंशत् सपञ्चकं त्रिंशत् ॥७॥

मात्रैरथवा विपुलं दैर्घ्योच्चं पूर्वमेव तत्कार्यम् ।

उत्कृष्टमध्यमाधाविपुलं पञ्चार्धयुगलमिति मात्रैः ॥८॥

निजविपुलार्धोत्सेधं कर्तव्यं सम्यगीषिकायामम् ।

पञ्चचतुस्त्र्यङ्गुलिभिर्विपुलं सार्धं तु तत्तीव्रम् ॥९॥

सक्षुद्रपट्टिकाथ वाजननिम्नाब्जकं प्रयुतम् ।

द्वयर्धं द्विमात्रसार्धेकाङ्गुलविपुलं च हस्तं स्यात् ॥१०॥

व्यासं त्रिपादमर्धं तयोस्तु मध्यं च तत्तुङ्गम् ।

गोलार्धाकृतिकं वा छत्राभं वाऽथ वेत्रभेदनिभम् ॥११॥

हस्तेषिकयोर्मध्ये षड्‍भागैः कम्पकानि चत्वारि ।

सार्धद्वयङ्गुलविपुलं द्व्यङ्गुलमध्यार्धमात्रविस्तारम् ॥१२॥

अर्धं त्रिपादाङ्गुलकमुत्सेधं ह्येव कम्पकानाण तु

अधरोर्ध्वे चैकांशाङ्गुलिकं फलकाभिरपि युक्तम् ॥१३॥

मध्यमकम्पं त्यक्त्वा युक्तिवशान्मध्यभित्तिमाने तु ।

मध्ये द्व्यंशे फलका नरनारीचक्रवाकशोभयुतम् ॥१४॥

वल्लीचतुष्पदाद्यैः संयुक्ता नाटकादिकैरपि च ।

हस्ताधिकयोर्मध्ये व्यालस्थानं विधीयतेऽग्रे तु ॥१५॥

स्वव्यासकर्णमात्रमुदितं निर्गमनमुष्टिबन्धं स्यात् ।

तदधो वाङ्‌घ्रियुतं तदधोभागेन तुङ्गमेव स्यात् ॥१६॥

तत्समनिर्गमयुक्तं स्वव्यासार्धं तु कम्पकं पुरतः ।

नक्रमुखेन तु युक्तं लोहेनैवाथवेभदन्तेन ॥१७॥

भक्त्या विपुला दैर्घ्यशरसप्तकनन्दकाख्यदशरुद्राः ।

कम्पव्यासघनाभ्यां स्तम्भव्यासं तु बाहल्यम् ॥१८॥

दैर्घ्याधिकाग्रमूले कर्तव्या युक्तिबलवशात्तु शिखा ।

आत्तविशालं ह्रस्वैधितयोर्मूले तदग्रे च ॥१९॥

पञ्च चतुष्टयमात्रं निर्गमनं पद्मचित्रयुतम् ।

तत्कमलाग्रहस्तं च तन्मानं वा समानकर्णं वा ॥२०॥

ह्रस्वैधितोपरिष्टाद्‌ विपुलं कम्पं च वा फलकम् ।

एकांशेन समोच्चं शोभार्थं वा फलार्थं स्यात् ॥२१॥

तत्रैव ह्रस्वपादैर्गुलिकाभिः शोभितं तदुक्त्यापि ।

अथवा मुखतो द्वारं पञ्चैवांशं गुणांशकं वा तु ॥२२॥

त्रिचतुर्मात्रविशालं षट्‌सप्ताष्टाङ्गुलोत्सेधम् ।

पादं यत्कुम्भं तदवलग्नं हीरकं सुवृत्तं च ॥२३॥

गुल्फायामसुपट्टैर्मतिभिः पट्टैस्तु कीलकं कुर्यात् ।

एवं प्रोक्ता शिबिका पैठिका नाम चित्राङ्गा ॥२४॥

अन्याः शिबिकाः

स्वव्याससमेन तूत्सेधः स्वव्यासार्धं त्रिभागभित्तिश्च ।

पादसमेता शिखरोपेता सा शेकरीति सम्प्रोक्ता ॥२५॥

मौण्डी मुण्डाकारा शिखराभैरव भित्तिभिर्युक्ता ।

व्याससमोत्सेधयुता मण्डपमिव मण्डपोदिताभिमता ॥२६॥

पान्मध्यतस्तु मानं तासां सम्यक्‌ प्रयोक्तव्यम् ।

शाकः कालस्तिमिशः पनसो निम्बार्जुनौ मधूकश्च ॥२७॥

याने शयने चैते प्रोक्ताः वृक्षाः पुराणैस्तु ॥

श्रीनतसुखमधिरुह्य यानं श्रीमत्तत्प्रकटनिजात्मा स्यात् ।

तद्यानं तदपि शिबिकालक्षणयुक्तं तत्सम्पदे सहर्ध्या ॥२८॥

इति शिबिकाध्यायविधिः

रथः

द्विचक्रबाह्ये विस्तारं षट्‌सप्ताष्टवितस्तियुक्‌ ।

चक्रनाभिद्वयान्ताभिगतमक्षोत्तरस्य तु ॥२९॥

हारबाह्यं च तावत् स्याद्‌ विस्तारार्धाधिकायतम् ।

चतुस्त्रिद्वयङ्गुलोत्सेधं बाहल्यं पञ्चभारकम् ॥३०॥

त्रिसप्तनवधा तत्र व्यासोत्सेधाश्च पूर्ववत् ।

आयामानुगतं तिर्यक्‌ तुल्यकम्पं दृढीकृतम् ॥३१॥

मध्यभारोपरि तुलामध्यनिर्गमनाग्रतः ।

ललाटात्तु त्रिहस्तादि तदग्रं कुटिलाकृतिः ॥३२॥

मध्यभार इति प्रोक्तं कूर्परो युगभागभाक्‌ ।

भारोपर्यङ्गुलघनफलकाप्रस्तरो भवेत् ॥३३॥

अक्षमक्षोत्तरं चक्रपट्टं भारोपधानकम्‍ ।

उत्सेधं पञ्चषट्‌सप्तबाहल्यं द्वित्रिमात्रकम् ॥३४॥

अष्टादशाङ्गुलं दैर्घ्यं पार्श्वे भारोपधानकम् ।

पोतिकाकारसंयुक्तमयःपट्टैर्दृढीकृतम् ॥३५॥

अक्षोर्ध्वोत्तरबाहल्यतुल्यच्छिद्रात्ममध्यमम् ।

तदधस्त्वक्षरक्षार्थं पार्श्वयोर्बन्धनं भवेत् ॥३६॥

उपधानविधानं तु तुल्यव्यासार्धतीव्रकम् ।

अक्षस्यावधि दैर्घ्यं स्याद्‌ दारु चेच्चतुरस्त्रकम् ॥३७॥

अयःपट्टैश्च कीलैश्च स्वशिखाभिर्दृढीकृतम् ।

अक्षान्तेऽक्षोत्तर बन्धं दारुकीलैः प्रयोजयेत् ॥३८॥

अक्षोत्तरसम्म चक्रं विस्तारं परिकीर्तितम् ।

नाभिर्दशाङ्गुलोत्सेधा वितस्त्यायामविस्तृता ॥३९॥

तत्पट्टनाभिमध्ये तु द्वात्रीशद्वा त्रिरष्टकम् ।

अष्टाष्टक्म तु वा तत्र युक्त्या संख्यासमन्वितम् ॥४०॥

अरारकर्णमूलाग्रं त्र्यङ्गुलं सार्धमात्रकम् ।

मूले क्षीणं यवाकारं मूलेऽग्रे शिखयान्वितम् ॥४१॥

रोहारोहघने चैव अक्षान्तरं तथाम्बकम् ।

भारस्योदयं पट्टैश्च कीलकैः पट्टबन्धकैः ॥४२॥

योग्यं च द्व्यंशपादांशैरयःपट्टैश्च बन्धयेत् ।

तत्स्थाने चोपपीठे च गुह्यं युक्तिवशान्नयेत् ॥४३॥

सार्धबद्धकरं पादोत्सेधं चक्रार्धमिष्यते ।

पादोत्सेधद्विभागैकं भागं स्याच्चूलिकोच्छ्रयम्॥४४॥

अग्रे पार्श्वे तले वा तु गुलिका पट्टिकान्तरे ।

पृष्ठे पञ्चाङ्गुलोत्सेधं मुखपट्टिकयावृतम् ॥४५॥

अन्तरे कर्णपादस्य मुकुलाग्रोत्तरान्तिका ।

भारो भारोपधानं च अक्षमक्षोत्तरं तथा ॥४६॥

कूबरः कूबरस्याग्रो द्वयपट्टैश्च कीलाइः ।

तत्तद्योगेश्च तत्स्थाने बन्धनाच्च भवेदपि ॥४७॥

अक्षमक्षोत्तरं मध्ये दारुकीलं प्रयोजयेत् ।

सर्वराजाधिपत्ये च राजयुद्धे महोत्सवे ॥४८॥

मङ्गले देवपूजायां सोमयागे तथैव च ।

इत्येवं कर्मणादिष्टं रथारोहणमिष्यते ॥४९॥

वासद्वित्रिगुणायामं चक्रं तारसमन्वितम् ।

सप्ततालं तु वा दैर्घ्यं त्रिचतुर्मात्रविस्तृतम् ॥५०॥

स्वस्वपादवशात् तत्र पूर्ववच्चोत्तरादिकम् ।

हारोपर्यन्तरोपेतं ह्रस्वपादान्तरान्वितम् ॥५१॥

चतुष्षष्टिकसंख्याभिः सतम्भयुक्तसमन्वितम् ।

षट्‍सार्धपञ्चपञ्चैव तालेन चरणोदयम् ॥५२॥

एकद्वित्रितलोपेतमेकं वाऽथ चतुर्मुखम् ।

मण्डपाकारसंयुक्तं शालाकारशिरःक्रियम् ॥५३॥

त्रिचतुष्पञ्चषट्‌सप्तहस्तं चक्रान्तमिष्यते ।

चक्रोत्सेधं चतुष्पञ्चषट्‌सप्ताष्टेष्टतीव्रकम् ॥५४॥

अक्षमक्षोत्तरं चैव भारोपधानकं यथा ।

इष्टेष्टविपुलोत्तुङ्गेर्दारुकीलैर्दृढीकृतम् ॥५५॥

एकद्वित्रितलोपेतं प्रासादवदलङ्‌कृतम् ।

षोडशस्तम्भसंयुक्तं दिग्दिक्षु मुखभद्रकम् ॥५६॥

सर्वालङ्कारसंयुक्तं रङ्गं तद्योजयेद्‌ दृढम् ।

तथैव शिल्पिमानीय योजनीयं विचक्षणैः ॥५७॥

पादुकं मिथुनांशकपद्मकं लेखिते चरणांशकमूर्तिकम् ।

तुर्यकादिकृतपट्टिककल्पितं पञ्चबोधिरसकुड्‌मलमेव च ॥५८॥

द्वित्रिपादकरनन्दवर्गकैर्विप्रभागमिति गण्यमिष्यते ॥५९॥

पद्मं तु पट्टीसहकर्णप्रस्तरं व्यालं तु नक्रक्रममेव शोभितम् ।

कर्णांशपद्मं जगति प्रतिष्ठां नराप्रवेशं कुमुदं तु भागम् ॥६०॥

वस्वंशकर्णं गुणभागपट्टी शिवांशवेदी सकलं धरातलम ।

शरण्यपद्मं च तु कर्णवेदिका कर्णेन वेदी गलपक्षमंशम् ।

प्रस्तरांशुमुनिदेवसानकं नाट्यताल उपधानकल्पितम् ॥६१॥

इति मयमते वस्तुशास्त्रे यानाधिकारो नामैकत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP