(भूपरिग्रहः)
भूग्रहणे कर्त्तव्यानि
आकारवर्णशब्दादिगुणोपेतं भुवः स्थलम् ।
संगृह्य स्थपतिः प्राज्ञो दत्त्वा देवबलिं पुनः ॥१॥
स्वस्तिवाचकघोषेण जयशब्दादिमङ्गलैः ।
अपक्रामन्तु भूतानि देवताश्च सराक्षसाः ॥२॥
वासान्तरं व्रजनस्मात् कुर्यां भूमिपरिग्रहम् ।
इति मन्त्रं समुच्चार्य विहिते भूपरिग्रहे ॥३॥
कष्ट्वा गोमयमिश्राणि सर्वबीजानि वापयेत् ।
दृष्ट्वा तानि विरूढानि फलपक्वगतानि च ॥४॥
सवृषाश्च सवत्साश्च ततो गास्तत्र वासयेत् ।
यतो गोभिः परिक्रान्तमुपघ्राणैश्च पूजितम् ॥५॥
संह्रष्टवृषनादैश्च निर्धौतकलुषीकृतम् ।
वत्सवक्त्रच्युतैः फेनैः संस्कृतं प्रस्नवैरपि ॥६॥
स्नातं गोमूत्रसेकैश्च गोपुरीषैः सलेपनम् ।
च्युतरोमन्थनोद्गारैर्गोष्पदैः कृतकौतुकम् ॥७॥
गोगन्धेन समाविष्टं पुण्यतोयैः शुभं पुनः ।
तथा पुण्यतिथोपेते नक्षत्रविषये शुभे ॥८॥
करणे च सुलग्ने च मुहूर्ते च बुधेप्सिते ।
अक्षतैः श्वेतपुष्पैश्च बलिकर्म विधीयते ॥९॥
ब्राह्मणैश्च यथाशक्त्या वाचयेत् स्वस्तिवाचकम् ।
वस्तुमध्ये ततस्तस्मिन् खानयेद् वसुधातलम् ॥१०॥
अरत्निमात्रगम्भीरं चतुरस्त्रसमन्वितम् ।
दिग्भागस्थमसम्भ्रान्तमसंक्शिप्तसमुच्छ्रयम् ॥११॥
अर्चयित्वा यथान्यायं तं कूपमभिवन्द्य च ।
चन्दनाक्षतमिश्रेण सर्वरत्नोदकेन च ॥१२॥
तस्य कूपस्य चाभ्याशे शुचिर्भूत्वा समाहितः ॥१३॥
भूमौ दर्भावकीर्णायां संविशेत् प्राक्शिरा बुधः ।
अयं मन्त्रः -
अस्मिन् वस्त्नि वर्धस्व धनधान्येन मेदिनि! ॥१४॥
उत्तमं वीर्यमास्थाय नमस्तेऽस्तु शिवा भव ।
उपवासमुपक्रामेदेतं मन्त्रं जपंस्ततः ॥१५॥
अह्न आदौ परीक्षेत तं कूपं स्थपतिर्बुधः ।
सावशेषं जलं दृष्ट्वा तद् ग्राह्यं सर्वसम्पदे ॥१६॥
क्लिन्ने वस्तुविनाशाय शुष्के धान्यधनक्षयः ।
पूरिते तन्मृदा खाते समता मध्यमा मता ॥१७॥
तन्मध्यावटसन्दृष्टप्रदक्षिणचरोदकाम् ।
सुरभिप्रतिमां भूमिं गृह्णीयात् सर्वसम्पदे ॥१८॥
एवं यथोक्तविधिना विविधं विदित्वा
ग्रामाग्रहारपुरपत्तनखर्वटानि ।
स्थानीयखेटनिगमानि तथेतराणि
यः संविविक्षुरवनीग्रहणं विदध्यात् ॥१९॥
इति मयमते वास्तुशास्त्रे भूपरिग्रहो
नाम चतुर्थोऽध्यायः