(पीठलक्षणम्)
निष्कलानां तु लिङ्गानां सकलानामथाधुना ।
सामान्येन विधानेन वक्ष्येऽहं पीठलक्षणम् ॥१॥
पीठ द्रव्याणि
जात्यैकया विधातव्यं नेष्टमन्योन्यसङ्करम् ।
आहुः शैले द्रुमे केचित् पीठं पक्वेष्टकामयम् ॥२॥
लोहजं मणिलिङ्गानां लोहजानां तु पैण्डिकम् ।
आदाय स्त्रीशिलां सम्यक् पीठं लिङ्गस्य निर्मितम् ॥३॥
पीठप्रमाणम्
पूजांशं द्विगुणं हीनं श्रेष्ठं लिङ्गोन्नतेः समम् ।
नवैते पीठविस्तारास्तयोर्मध्येऽष्टभाजिते ॥४॥
उत्तमा मध्यमा हीनास्त्रित्रिभेदाः प्रकीर्तिताः ।
अथवा लिङ्गतुङ्गार्धं हीनं पादोनकं वरम् ॥५॥
अयोर्मध्येऽष्टभागे तु पीठव्यासादि पूर्ववत् ।
विष्कम्भं त्रिगुणं वाऽथ नाहतुल्यविशालकम् ॥६॥
गर्भागारं त्रिभागैकं चतुर्भागकमेव वा ।
विष्कम्भकर्णाद्विगुणं सार्धं च त्रिगुणं तु वा ॥७॥
पीठविस्तारमुद्दिष्टं स्वाष्टांशोनमथोपरि ।
मण्डनाय स्वविस्ताराष्टांशोनैवाधिकं ततः ॥८॥
सर्वेषामपि पीठानां जन्मान्तं मूलविस्तृतम् ।
अग्रव्यासं महापट्टिकान्तं सम्यक् प्रकीर्तितम् ॥९॥
विष्णुभागसमोत्सेधं सपादं सार्धमेव वा ।
पीठाकारः
चतुरस्त्रं च वस्वस्त्रं षडस्त्रं द्वादशास्त्रकम् ॥१०॥
द्विरष्टास्त्रं सुवृत्तं च तेषामेवायतान्यपि ।
त्रिकोणमर्धचन्द्रं च चतुर्दशनिभानि वै ॥११॥
समानि यानि लिङ्गस्य तानि पीठानि संज्ञया ।
सायतान्यासनानीति सकलानां वदन्ति वै ॥१२॥
त्रिकोणमर्धचन्द्रं च निष्कले सकले क्रमात् ।
पीठनामानि
भद्रपीठं च पद्मं च वज्रपीठं महाम्बुजम् ॥१३॥
श्रीकरं पीठपद्मं च महावज्रं च सौम्यकम् ।
श्रीकाम्याख्यमिति प्रोक्ता नाम्नैता नव पीठिकाः ॥१४॥
स्वाम्नाकृतियुक्त्या तु त्रिकोणार्धेन्दुसंयुते ।
पीठिकानामलङ्कारं क्रमशो वक्ष्यतेऽधुना ।
गृहीतोत्सेधमानांशवशेन विविधेन च ॥१५॥
भद्रपीठम्
त्रिःपञ्चांशे द्व्यंशि जन्मं युगांशं वप्रं सार्धं पद्मकं तद्दृगर्धम् ।
कुम्भं द्व्यंशं क्षेपणं चार्धमूर्ध्वे ग्रीवं सार्धं पूर्ववत् क्षेपणोच्चम् ॥१६॥
द्वयंशं पट्टं स्नेहवार्यर्धभागं तत् सामान्यं भद्रपीठं सुह्रष्टम् ।
विप्रोर्वीभृद्वैश्यकानां परेषां श्रीसौभाग्यारोग्यभोग्यप्रदायि ॥१७॥
पद्मपीठम्
द्विरष्टभागेऽश्विन्बाणनेत्रैर्युगांशनेत्रेन्दुभिरत्र पट्टम् ।
पद्मं च वृत्तं च दलं च पट्टं स्यात् पद्मपीठं घृतवारियुक्तम् ॥१८॥
वज्रपद्मपीठम्
द्विःसप्तांशे सार्धमर्धं गुणार्धं जन्मं निम्नं पङ्कजं तत्क्रमेण ।
पट्टं निम्नं चार्धमर्धं तु भागं वज्रं निम्नं कम्पकं पुर्ववत् स्यात् ॥१९॥
त्र्यंशं पद्मं निम्नमर्धं तदूर्ध्वेऽध्यर्धार्धांशा पट्टिकाज्यार्थभागा ।
एतत्पीठं वज्रपद्मं हि नाम्ना सामान्यं तत्सर्वलिङ्गेषु शस्तम् ॥२०॥
महाब्जपीठम्
त्रिःषड्भागे द्व्यर्धवेदांशकार्धैः सार्धद्वयर्धार्धार्धकार्धानलांशैः ।
अर्धाध्यर्धार्धांशकैर्जन्ममब्जं पट्टं निम्नं पङ्कजं वृत्तमब्जम् ॥२१॥
निम्नं पट्टं पङ्कजं स्यात्तदूर्ध्वे श्रीपट्टं तत्स्नेहभारं क्रमेण ।
एतन्नाम्ना सम्यगुक्तं महाब्जं चित्रं सद्भिः पौरुषे चार्षकेऽपि ॥२२॥
श्रीकरपीठम्
लब्धोत्सेधे षोडशांशेंऽशिजन्म त्र्यंशं वप्रं पद्मतुङ्गं युगांशम् ।
ह्रद्भागार्धं द्व्यंशिवृत्तं धृगर्धं पद्मं त्र्यंशं पट्टिका सार्धभागा ॥२३॥
अर्धांशं तत् स्नेहवार्यर्धखातं तावद्व्यासं त्र्यंशकं वा युगांशम् ।
नालव्यासं निर्गमं तत् त्रियंशं कुर्यादग्रं श्रीकरं श्रीकरं तत् ॥२४॥
अध्यर्धार्धद्व्यर्धकार्धार्धकार्धैः पक्षार्धैर्द्व्यर्धैः खुरं निम्नमब्जम् ।
पट्टं निम्नं पट्टमब्जं तु निम्नं पट्टं पीठपद्मं दशांशे ॥२५॥
महावज्रसौम्यपीठे
त्रिःपञ्चांशे लब्धतुङ्गे च सार्धं चार्धं वेदद्व्यर्धसार्धेन्दुभागैः ।
अर्धद्व्यर्धाध्यर्धकार्धैः क्रमेण जन्मं निम्नं पट्टकं तत्क्रमेण ॥२६॥
जन्मं निम्नं पङ्कजं पट्टकं तद्वज्रं वृत्तं क्षेपणं कञ्जमूर्ध्वे ।
पट्टं निम्नं तन्महावज्रमुक्तं नाम्ना सौम्यं सर्वसम्पत्करं स्यात् ॥२७॥
वज्रं वृत्तं तुङ्गमाना तदेव सौम्यं पीठं सम्पदायुष्करं स्यात् ।
श्रीकाम्यपीथम्
द्विःषड्भागे चन्द्रनेत्रार्धभागैः सार्धार्धार्धैः सार्धसार्धार्धकार्धैः ॥२८॥
अध्यर्धेनार्धेन जन्मं तु वप्रं निम्नं पद्मं धृग्दलं वृत्तमब्जम् ।
धृक्पद्मं तत्पट्टिकानिम्नपट्टं श्रीकाम्यं तल्लब्धतुङ्गे मयोक्तम् ॥२९॥
पीठसामान्यलक्षणम्
धाम्नि प्रोक्तान्यप्यधिष्ठानकानि ।
तान्यप्यस्मिन्मण्डनीयानि युक्त्या ॥३०॥
यथाबलं यथाशोभं यथायुक्ति प्रवेशनम् ।
निर्गमं सर्वपीठानामङ्गानां परिकल्पयेत् ॥३१॥
पीठव्यासत्रिभागैकं चतुर्भागैकमेव वा ।
निर्गमं मूलविस्तारं प्रणालस्य प्रकल्पयेत् ॥३२॥
मूलादर्धं त्रिपादं वा त्रिभागैकांशमेव वा ।
प्रणालस्याग्रविस्तारं त्रिपादं वा घनं समम् ॥३३॥
गजोष्ठसदृशाकारं गोमुखाकारमेव वा ।
मूलाग्रविपुलत्र्यंशव्यासं स्यात् खातनिम्नकम् ॥३४॥
इष्टदिङ्मुखलिङ्गस्य पीठमध्यं तदेव हि ।
नालं वामे प्रकर्तव्यं सधारं वा यथारुचि ॥३५॥
अग्रपट्टस्य विस्तारं स्वोच्छ्रयेण समन्वितम् ।
सपादं वाऽथ सार्धं वा त्रिपादं वा यथाबलम् ॥३६॥
तत्पट्टस्य घनं खातं तन्मूले कारयेद् बुधः ।
क्रमेणोन्नतिमल्लिङ्गसङ्गमं परिकल्पयेत् ॥३७॥
शिवभागमधःपीठात् किञ्चिदप्यवलम्बनम् ।
उन्नतं यदि चेन्नित्यं सर्वेषामशुभं भवेत् ॥३८॥
ज्याकारमर्धचन्द्रस्य प्रकुर्याद् द्वारसम्मुखम् ।
पीठस्यास्य त्रिकोणस्य ऋज्वंशं द्वारसम्मुखम् ॥३९॥
पीठास्त्रं द्वारसूत्रस्य वेधकं नेष्यते बुधैः ।
दृषदैकेन कर्तव्यं पीठं निःसन्धिकं शुभम् ॥४०॥
एकालाभेऽपि कर्तव्यमेकयैवोर्ध्वमण्डनम् ।
क्षुद्रे महति मध्येषु चागतं सन्धिमण्डितम् ॥४१॥
उपर्युपरि पीठानां सन्दिरङ्गावसानके ।
नालमध्येऽर्धमध्ये च कर्णे सन्धिं न सन्धयेत् ॥४२॥
युञ्जीयाद् दक्षिणे वामे दीर्घादीर्घं यथाक्रमम् ।
त्रिखण्डं वाप्यनेकं वाधोगतं युक्तितो न्यसेत् ॥४३॥
ब्रह्मशिला
लिङ्गायामसमव्यासा श्रेष्ठा ब्रह्मशिलापरा ।
पूजांशद्विगुणाष्टांशे तयोर्मध्ये तु भाजिते ॥४४॥
पूर्ववन्नवधा व्यासा स्वव्यासार्धोन्नता वरा ।
व्यासार्धार्धघना हीना तयोर्मध्ये तु पूर्ववत् ॥४५॥
अथवा लिङ्गविष्कम्बद्विगुणा श्रेष्ठविस्तरा ।
अध्यर्धं कन्यसी प्रोक्ता स्वव्यासार्धत्रिपाद्धना ॥४६॥
व्यासोत्सेधेषु तेष्वेवं पूर्ववन्नवधा भवेत् ।
आकृतिर्ब्रह्मभागस्य संस्थानं तु यथा तथा ॥४७॥
लिङ्गव्याससमं व्यासं मध्ये खातं प्रकल्पयेत् ।
स्वव्यासार्धं तु वाष्टांशं गम्भीरं लिङ्गमूलवत् ॥४८॥
न्यस्तरत्नयुतं सम्यक् श्लिष्टं तल्लिङ्गमूलतः ।
नपुंसकाश्मना तत्र कर्तव्या ब्रह्मणः शिला ॥४९॥
नन्द्यावर्तशिलाः
पीठब्रह्माश्मनोर्नन्द्यावर्ताभा मध्यमे शिलाः ।
चतस्त्रताः प्रयोक्तव्याः प्रादक्षिण्यक्रमेण तु ॥५०॥
प्रतिमापीठानि
स्थानकासनयुक्तानाम प्रतिमानां परेऽपरे ।
एकद्वित्रिचतुःपञ्चषण्मात्रं वाधिकं ततः ॥५१॥
आसनानां स्वविस्तारादष्टभागाध्दैर्घ्यकम् ।
द्विगुणान्तं निजायामं मण्डनं पैण्डिके यथा ॥५२॥
त्रिचतुःपञ्चभागोच्चे बेरायामे यथक्रमम् ।
शयने चासने भागं स्थानके विष्टरोदयम् ॥५३॥
यथोचितं तथा दैर्घ्यव्यासं स्याच्छयनेऽपि च ।
ब्रह्मादीनां तु देवानां देवीनामासनं मतम् ॥५४॥
सोपपीठं गुहाङ्घ्रिस्थसिंहं सिंहासने मतम् ।
त्रिपक्षे वीचिसंयुक्ते नानामण्डनमण्डिते ॥५५॥
सिंहासनविधिं दृष्ट्वा विधेया तदलङ्कृतिः ।
पीठमानतः प्रासादमानानि
बाणलिङ्गादिलिङ्गानामार्षाणां च स्वयम्भुवाम् ॥५६॥
पीठं प्रासादरूपं च यथेष्टं कारयेद् बुधः ।
पूर्वोक्ते पौरुषे लिङ्गे पीठव्यासादि पूर्ववत् ॥५७॥
तन्मानेन विमानानां विस्तारं सम्यगुच्यते ।
पीठस्य द्विगुणं गेहं चतुःपञ्चगुणं तु वा ॥४८॥
नालीगेहस्य विस्तारं पुर्ववद्वा विधीयते ।
त्रिभागेनैकमर्धं वा दृढं वा भित्तिविस्तृतम् ॥५९॥
सान्धारं वा निरन्धारं कूटकोष्ठादि पूर्ववत् ।
लिङ्गमानवशात् सौधं प्रोक्तं पूर्ववदुच्छ्रयम् ॥६०॥
बेरमानतः प्रासादमानानि
गृहीतभवनस्तम्भद्वारमानवशादपि ।
यथाजात्म तथा बेरवशात् सौधं प्रकल्पयेत् ॥६१॥
तथैव सकलस्यापि प्रासादं परिकल्पयेत् ।
बेरायामसमं गेहमध्यर्धं द्विगुं मतम् ॥६२॥
बेरायामे त्रिभागे तु द्व्यंशाधिकविशालकम् ।
गर्भगेहस्य विस्तारे चतुर्भागे त्रिभागिके ॥६३॥
द्विभागे चन्द्रभागं तु स्वविशालर्धमानकम् ।
अष्टबन्धसंग्रहणम्
लाक्षागुलमधूच्छिष्टगुग्गुलूनां समांशकाः ॥६४॥
एतेषां द्विगुणं भागं ग्राह्यं सर्जरसं तदा ।
गैरिकाचूर्णकं तस्मादर्धं तु घनचूर्णकम् ॥६५॥
सर्वेषामर्धतस्तैलं निक्षिपेल्लोहभाजने ।
लोहदर्व्या चलं कुर्यात् पाचयेन्मृदुवह्निना ।
अष्टबन्धमिति प्रोक्तमश्मवद् दृढबन्धनम् ॥६६॥
गर्भगृहे बेरस्थानानि
स्थापनीयमिह कर्तुरिच्छया लिङ्गमेकमथवाप्यनेककम् ।
यत्र यत्र परितस्तु मध्यमे भित्तितस्त्वपि च येन केन वा ॥६७॥
एकधाम्नि बहुधाम्नि वा ततः शूललिङ्गभवनं महत्तरम् ।
शेषमत्र विधिनोहनीयकं शिल्पविद्दृढतरेण बुद्धिना ॥६८॥
गर्भागारे सप्तसप्तांशकेऽशं
मध्ये ब्राह्मं दैविकं चाष्टभागम् ।
मानुष्यं तत् षोडशांशं बहिष्ठात्
पैशाचांशं स्याच्चतुर्विंशमंशम् ॥६९॥
शैवं ब्राह्मे वैष्णवं दैविकांशे सर्वे देवा मानुषे स्थापनीयाः ।
पैशाचांशेव मातरश्चासुराद्या रक्षोगन्धर्वादियक्षाश्च शेषाः ॥७०॥
मध्ये सूत्रं ब्रह्मणस्तस्य वामे
शम्भोर्मध्यं विष्णुसूत्रं तयोश्च ।
एवं नीत्वा दिग्गतं तत्क्रमेण ।
स्थाप्याः सर्वा देवता विष्णुसूत्रे ॥७१॥
सकलमकललिङ्गं मिश्रकं वा विधिज्ञः
स्थपतिरचलधीमान् स्थापयेत् सावधानः ।
सुवृतकनकयज्ञो भूषणैः संविभूष्य
सकलविभवयुक्तः स्थापकेनैव सार्धम् ॥७२॥
सर्वात्मीयं लिङ्गमाकाशरूपं तस्माल्लिङ्गं पौरुषं स्थापनीयम् ।
तज्ज्ञैर्युक्त्या सावकाशालये वा पश्चाद्बध्नीयात्तु मूर्ध्नेष्टकां वा ॥७३॥
एवं पीठं चासनं निष्कलानामार्चानां वा मण्डनं तत्प्रणालम् ।
लिङ्गानां वै पौरुषाणां विमाने प्रोक्ते नीत्या स्थापना च क्रमेण ॥७४॥
इति मयमते वस्तुशास्त्रे पीठलक्षणं नाम चतुस्त्रिंशोऽध्यायः