(गोपुरविधान)
अधुना गोपुराणां तु लक्षणं वक्ष्यते क्रमात् ।
क्षुद्राल्पमध्यमुख्यानां हर्याणां स्वप्रमाणतः ॥१॥
पञ्चविधगोपुरमान
मूलप्रासादविस्तारे सप्ताष्टनवभागिके ।
दशैकादशभागे तु तत्तदेकांशहीनक ॥२॥
द्वारशोभादिविस्तारं गोपुरान्तं यथाक्रम ।
क्षुद्राल्पयोः समुद्दिष्टं मध्यानां प्रविधीयते ॥३॥
मूलधानस्तु विस्तारे चतुष्पञ्चषडंशके ।
सप्ताष्टांसे च भागोनं गोपुरान्तं यथाक्रम ॥४॥
द्वारशोभादिविस्तारं पञ्चधा परिकीर्तित ।
त्रिभागैकांशमध्यं च द्विभागं स्यात्त्रिभागिके ॥५॥
चतुर्भागे त्रिभागं तु पञ्चांशे चतुरंशक ।
द्वारशोभादिविस्तारं गोपुरान्तं क्रमेन तु ॥६॥
उत्तमानामिदं प्रोक्तं हस्तैरप्यथ वक्ष्यते ।
द्विहस्तादि द्विरष्टान्तमेकारत्निविवर्धनात् ॥७॥
एकैकं त्रिविधा मानं द्वारशोभादिपञ्चसु ।
त्रिहस्तादेकत्रिंशान्तं द्विद्विहस्तविवर्धनात् ॥८॥
प्रोक्तं त्रिः पञ्चधा मानं द्वारशोभादिपञ्चके ।
नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ॥९॥
सप्तत्रिंशत्करं यावत् पञ्चपङ्क्तिप्रमाणक ।
शोभादिगोपुराणां च विस्तारं परिकीर्तित ॥१०॥
पञ्चविधगोपुर
द्वारशोभा द्वारशाला द्वारप्रासादहर्यके ।
गोपुरेण तु पञ्चैते द्वारशोभादिपञ्चसु ॥११॥
अथवा हस्तमानेन विस्तारं परिगृह्यता ।
त्रिपञ्चसप्तनन्दैकादशारत्नैर्विवर्धनात् ॥१२॥
पञ्चमानं द्विरत्निभ्यां पञ्चस्वेकस्य समत ।
पञ्चसप्तत्रिस्त्र्येकादशत्रयोदशमानतः ॥१३॥
प्रथमावरणे द्वारशोभाव्यासस्तु पञ्चधा ।
त्रिपञ्चाद्यात्रयोविंशद् द्वारशालाविशालता ॥१४॥
पञ्चपञ्चकराद् यावत् त्रयस्त्रिंशत्करान्तक ।
द्वारप्रासादविस्तारं पञ्चधा परिकीर्तित ॥१५॥
पञ्चत्रिंशत्कराद् यावत् त्रिचत्वारिंशदन्तक ।
द्वारहर्यस्य विस्तारं पञ्चभेदमथोच्यते ॥१६॥
नवपञ्चकराद् यावत् त्रिपञ्चाशत्करान्तक ।
पञ्चधा विपुलं प्रोक्तं गोपुरस्य मुनीश्वरैः ॥१७॥
चक्रवर्तिमहाराजवेश्मन्यप्येवमूह्यता ।
सार्धं त्रिपादं द्विगुणं त्र्यंशैकद्व्यंशमायत ॥१८॥
शोभादिनां तु पञ्चानां द्वाराणामुदितं ततः ।
तेषामेवं क्रमाद् व्यासादुत्सेधं पृथगुच्यते ॥१९॥
सप्तांशे च दशांशं च चतुरंशे षडंशक ।
सप्तभागं चतुर्भागं त्रित्रिभागं तु पञ्चके ॥२०॥
द्विगुणं तु यथासंख्यं द्वरायतनतुङ्गता ।
गोपुरस्य तु विस्तारत्रिभागादेकभागिक ॥२१॥
चतुर्भागैकभागं च पञ्चभागाद्विभागिक ।
निर्गमं गोपुराणां तु प्राकाराद्भित्तिबाह्यतः ॥२२॥
द्वारमान
मूलं सार्धं तु पादोनद्विहस्तं तु द्विहस्तक ।
तत्तत्षडङ्गुलैर्नन्दमात्रैर्द्वादशमात्रकैः ॥२३॥
वृद्ध्या पञ्चकरान्तं तु सप्तान्तं तु नवान्तक ।
द्वारं त्रिःपञ्चधामानमेकैकं तु पृथक् पृथक् ॥२४॥
क्षुद्रे मध्ये वरे द्वारविस्ताराः परिकीर्तिताः ।
तत्तद्वैपुल्यवशतस्तत्तदुत्सेधमुच्यते ॥२५॥
पञ्चांशेभ्यश्च सप्तांशं सप्तांशेभ्यो दशांशक ।
द्विगुणार्धाधिकं पादाधिकं पञ्चोच्छ्रयाः स्मृताः ॥२६॥
अधिष्ठानादिमान
मूलवस्तु निरीक्ष्यैव पादाधिष्ठानतुङ्गता ।
चतुष्पञ्चर्तुसप्ताष्टनन्दपङ्क्तीशभानुषु ॥२७॥
भागेष्वेकैकभागोनं स्वाधिष्ठानान्ततुङ्गक ।
शेषं तदुपपीठं स्यात् पादबन्धं मसूरक ॥२८॥
प्रासादस्तभमानं वा वसुभागोनमेव वा ।
नन्दपङ्क्त्यंशहीनं वा गोपुरस्तभतुङ्गक ॥२९॥
छेदयेत्तदधिष्ठानं होमान्तं खातपादक ।
उत्तरान्तं समुत्सेधं तदर्धं द्वारविस्तृत ॥३०॥
प्रवेशदक्षिणे गर्भमारूढे भित्तिके भवेत् ।
गोपुरभेदाः
श्रीकरं रतिकान्तं च कान्तविजयमेव च ॥३१॥
विजयविशालकं चैव विशालालयमेव च ।
विप्रतीकान्तं श्रीकान्तं श्रीकेशं च तथा पुनः ॥३२॥
केशविशालकं स्वस्तिकं दिशास्वस्तिकमेव च ।
मर्दलं मात्रकाण्डं च श्रीविशालं चतुर्मुख ॥३३॥
एते पञ्चदश प्रोक्ता गोपुरस्याभिधानकाः ।
एकादिपञ्चभूयन्तं शोभाद्यल्पप्रमाणक ॥३४॥
द्वितलाद षट्तलान्तं मध्यमक्रममुच्यते ।
त्रितलात् सप्ततलपर्यन्तं चोत्तममुच्यते ॥३५॥
सोपपीठमधिष्ठानं पादोच्चमुत्तरान्तक ।
शेषं तत्सूथपिपर्यन्तं भागमानं विधीयते ॥३६॥
एकतलगोपुर
स्थूप्यन्तमुत्तरान्तं च षड्भागं विभजेत्समम ।
सपादभागमञ्चोच्चं कन्धरोच्चं तदंशक ।
सत्रिपादद्विभागं तु शिरःशेषं शिखोदय ॥३७॥
एवमेकतलं प्रोक्तं द्वितले भागमुच्यते ।
द्वितलगोपुर
उत्तरादिशिखान्तं यन्नवधा विभजेत् सम ॥३८॥
सपादभागमञ्चोच्चं द्व्यंशार्धं चरणायत ।
भागैकं प्रस्तरोत्सेधमेकांशं कन्धरोदय ॥३९॥
सार्धद्व्यंशं शिरस्तुङ्गं शेषभागाशिखोदय ।
एवं द्वितलमाख्यातं त्रितले भागमुच्यते ॥४०॥
त्रितलगोपुर
स्थूप्यन्तमुत्तरान्तं च कृत्वोच्चं द्वादशांशक ।
सर्पादांशं कपोतोच्चं द्व्यंशार्धं चरणायत ॥४१॥
भागैकं प्रस्तरोत्सेधं द्विभागं पाददैर्घ्यक ।
त्रिपादं तत्कपोतोच्चमंशं ग्रीवोदयं भवेत् ॥४२॥
सार्धद्वयंश शिरस्तस्माच्छेषं स्थूप्युच्छ्रयं भवेत् ।
एवं त्रितलमाख्यातं चतुर्भौममथोच्यते ॥४३॥
चतुस्तलगोपुर
उत्तरादिशिखान्तं यन्मानमष्टादशांशक ।
सत्रिपादांशकं मञ्चं त्रिभागं तलिपायत ॥४४॥
सार्धांशं प्रस्तरोच्चं स्याद् द्व्यंशं सार्धं पदोदय ।
सपादभागं मञ्चोच्चं द्व्यंशं स्यात् स्तभदैर्घ्यक ॥४५॥
मञ्चमंशं गलं भागं त्रिभागं शिखरोदय ।
शेषभागं शिखामानं पञ्चभौममथोच्यते ।
पञ्चतलगोपुर
स्थूप्यन्तमुत्तरान्तं च त्रयोविंशतिभागिक ॥४६॥
द्विभागं प्रस्तरोच्चं स्यात्त्र्यंशार्धं चरणायत ।
पादोन द्व्यंशकं मञ्चं पादायामं त्रियंशक ॥४७॥
सार्धांशमुर्ध्वमञ्चोच्चं द्व्यंशार्धं पाददैर्घ्यक ।
सपादांशं कपोतोच्चं द्व्यंशं स्यात्तलिपायत ॥४८॥
प्रस्तरोच्चं तु भागेन कन्धरं भागमिष्यते ।
द्व्यंशार्धं शिखरोत्सेधं शेषं स्थूप्युच्छ्रयं भवेत् ॥४९॥
षट्तलगोपुर
उत्तरादिशिखान्तं स्यादेकोनत्रिंशदंशक ।
द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरंशकैः ॥५०॥
पादोनद्व्यंशकं मञ्चं त्र्यंशार्धं पाददैर्घ्यक ।
सत्रिपादांशकं मञ्चं त्रिभागं तलिपायत ॥५१॥
सार्धांशं प्रस्तरोत्सेधं द्व्यंशार्धं पाददैर्घ्यक ।
सपादांशं कपोतोच्चमूर्ध्वभागं द्विभागतः ॥५२॥
प्रस्तरोच्चं तु भागेन कन्धरं तत्समं भवेत् ।
सार्धंद्व्यंशं शिरस्तस्माच्छेषभागं शिखोदय ॥५३॥
एवं तु षट्तलं प्रोक्तं सप्तभौममथोच्यते ।
सप्ततलगोपुर
उत्तरादिशिखान्तं यन्मानं षट्त्रिंशदंशक ॥५४॥
मञ्चं साङ्घ्रिद्वयं सार्धवेदांशं पाददैर्घ्यक ।
द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरंशक ॥५५॥
सत्रिपादांशकं मञ्चं त्र्यंशार्धं चरणायत ।
पादोनद्व्यंशमञ्चोच्चं त्रिभागं पाददैर्घ्यक ॥५६॥
सार्धांशं प्रस्तरोच्चं तु द्व्यंशार्धं तलिपायत ।
सपादभागमञ्चोच्चमूर्ध्वपादं द्विभागिक ॥५७॥
कपोतोच्चं तु भागेन तत्समं कन्धरोदय ।
सत्रिपादाश्विनीभागं शिरःशेषं शिखोदय ॥५८॥
एवं भागानि कर्तव्यान्युर्वीसंख्याक्रमेण तु ।
गोपुरविस्तारमान
विस्तारे पञ्चभागे तु नालीगेहं त्रियंशक ॥५९॥
शेषं तु भित्तिविष्कभमेकभूमेर्विधीयते ।
विस्तारे सप्तभागं स्याद्गर्भगेहं युगांशक ॥६०॥
शेषं तु भित्तिविष्कभमेकांशं कूटविस्तृत ।
कोष्ठकं त्र्यंशकं तारे पञ्चांशं स्यात्तदायते ॥६१॥
कूटकोष्ठकयोर्मध्ये पञ्जरादिविभूषित ।
एवं द्वितलमुद्दिष्टं त्रितलस्य विधीयते ॥६२॥
विस्तारे नवभागे तु नालीगेहं त्रियंशक ।
गृहपिण्ड्यलिन्द्रहारा भागेन परिकल्पयेत् ॥६३॥
कूटकोष्ठादिसर्वाङ्गं पूर्ववत् परिकल्पयेत् ।
शेषं तु भित्तिविष्कभमेकांशं कूटविस्तृत ॥६४॥
शालायामं त्रिभागं स्यादेकांशं लबपञ्जर ।
हाराभागमथार्धं स्यादायामे कोष्ठकायत ॥६५॥
पञ्चांशं वा षडंशं वाप्यूर्ध्वे सप्तांशाविस्तृत ।
कूटमंशं द्विभागेन शालायामं द्विभागिक ॥६६॥
हारायां क्षुद्रनीं तदर्धभागमिति स्मृत ।
शालायामं तु पञ्चांशमायामे प्रविधीयते ॥६७॥
एवं त्रितलमाख्यातं शेषमूह्यं विचक्षणैः ।
तारे पङ्क्त्यंशके नालीगेहं तत्त्रिभिरंशकैः ॥६८॥
सार्धांशं भित्तिविष्कभमेकभागमलिन्द्रक ।
एकांशं खण्डहर्यं स्यात्कूटकोष्ठादि पूर्ववत् ॥६९॥
मुखेऽमुखे महाशाला पञ्चांशं च षडंशक ।
सर्वावयवसंयुक्तं चतुर्भौममिदं वर ॥७०॥
तारे रुद्रांशके नालीगेहं तत्त्रिभिरंशकैः ।
द्विभागं भित्तिविष्कभमेकबागमलिन्द्रक ॥७१॥
एकांशं खण्डहर्यं स्याच्छेषं पूर्ववदाचरेत् ।
एवं पञ्चतलं विद्यात् षट्तलं चाधुनोच्यते ॥७२॥
विपुले द्वादशांशे तु नालीगेहं युगांशक ।
द्विभागं भित्तिविष्कभमंशेनान्धारकं भवेत् ॥७३॥
अंशेन खण्डहर्यं स्यात्कूटकोष्ठादि पूर्ववत् ।
तारे त्रयोदशांशे तु गर्भगेहं युगांशक ॥७४॥
द्व्यंशार्धं भित्तिविष्कभमेकभागमलिन्द्रक ।
एकांशं खण्डहर्यं स्यात्कूटकोष्ठादि पूर्ववत् ॥७५॥
मुखेऽमुखे महाशाला षड्भागेन विधीयते ।
पञ्जरैर्हस्तिपृष्ठैश्च पक्षशालादिभिर्युत ॥७६॥
नानामसूरकस्तभवेदीजालकतोरण ।
एवं सप्ततलं प्रोक्तं गोपुरं सार्वदेशिक ॥७७॥
द्वारविस्तारमान
मूलद्वारस्य विस्तारे पञ्चभागैकहीनक ।
चतुर्भागैकहीनं वोपरिष्टाद् द्वारविस्तृत ॥७८॥
उपर्युपरि वेशं च मध्यपादोत्तरैर्युत ।
गर्भागारे तु सोपानं ह्यपर्युपरि विन्यसेत् ॥७९॥
चतुष्कर्णे तु सोपानमुपपीठे प्रशस्यते ।
यथायुक्ति यथाशोभं तथा योज्यं विचक्षणैः ॥८०॥
गोपुरालङ्कारः
गोपुराणामलङ्कारं प्रत्येकं वक्ष्यतेऽधुना ।
मण्डपाभा यथा द्वारशोभा तत्र प्रकीर्तिता ॥८१॥
दण्डशाला यथा द्वारशाला तत्र विधीयते ।
प्रासादाकृतवद् द्वारप्रासादं प्रोच्यते बुधैः ॥८२॥
मालिकाकृतविद् द्वारहर्यं तु प्रोच्यते बुधैः ।
सशालाकृतिसंस्थानं द्वारगोपुरमिष्यते ॥८३॥
सवेषु गोपुरं कुर्याद्यथायुक्ति विशेषतः ।
श्रीकर-द्वारशोभा
श्रीकरस्याप्यलङ्कारं प्रवक्ष्यायनुपूर्वशः ॥८४॥
विस्तारद्विगुणं वाऽपि पादोनद्विगुणायत ।
पञ्चसप्तनवांशं तु विस्तारे प्रविधीयते ॥८५॥
विस्तारांशप्रमाणेन दैर्घ्यभागांश्च कल्पयेत् ।
एकद्वित्रितालोपेतं सर्वावयवसंयुत ॥८६॥
स्वस्तिकाकृतिकं नासो सर्वत्र प्रविधीयते ।
मुखेऽमुखे महानासी वंशनासी द्विपार्श्वयोः ॥८७॥
शिरःक्रकरकोष्ठं वा युग्मस्थूपिसमायुत ।
लुपारोहिशिरो वाऽपि मण्डपाकृतिरेव वा ॥८८॥
रतिकान्त-द्वारशोभा
रतिकान्तस्य संस्थानं विस्ताराध्यर्धमायत ।
कूटकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् ॥८९॥
शालाकारशिरस्तस्मिन षण्णासी मुखपृष्ठयोः ।
सार्धकोटिसमायुक्तं मध्यवेशनसंयुत ९०व
कान्तविजय-द्वारशोभा
कान्तविजयसंस्थानं तारत्रिद्वियंशमायत ॥९१॥
पूर्ववद् भूमिभागं च कूटकोष्ठादि पूर्ववत् ।
अन्तःपादोतरैर्युक्तं नानाङ्गैः समलंकृत ॥९२॥
शिखरे च मुखे पृष्ठे षण्णास्यः पार्श्वयोर्द्वयोः ।
सभाकारः शिरस्तस्मिन्नयुग्मस्थूपिकान्वित ॥९३॥
द्वारशोभात्रयं प्रोक्तं द्वाराङ्गं मुखशोभित ।
विजयविशाल-द्वारशाला
विजयविशालसंस्थानं विस्तारद्विगुणायत ॥९४॥
सपादं वाऽथ सार्धं वा पादोनद्विगुणायत ।
सप्तनन्दशिवांशैश्च तलं द्वित्रिचतुष्टय ॥९५॥
सालिन्द्रे त्रिचतुर्भोमो चतस्त्रो मुखपट्टिकाः ।
मुखे पृष्ठे महानासी सार्धकोटि सभद्रक ॥९६॥
पार्श्वयोः पञ्जरैर्युक्तं शालाकारशिरःक्रिय ।
अयुग्मस्थूपिकोपेतं सर्वावयवसंयुत ॥९७॥
विशालालय-द्वारशाला
विशालालयसंस्थानं पादोनद्विगुणायत ।
पूर्ववद् भूमिभागं च कूटकोष्ठाद्यलंकृत ॥९८॥
अर्धकोटि सभद्रं स्याद्भद्रनासी मुखेऽमुखे ।
चतस्त्रः पार्श्वयोर्नास्यः शालाशिखरसंयुत ॥९९॥
अयुग्मस्थूपिकोपेतं शेषं पूर्ववदाचरेत् ।
विप्रतीकान्त-द्वारशाला
विप्रतीकान्तसंस्थानं त्र्यंशे द्व्यंशाधिकायत ॥१००॥
कूटकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् ।
पूर्ववद् भूमिभागं च चतुर्दिग्गतभद्रक ॥१०१॥
चतस्त्रः शिखरे नास्यः शिरो भद्रसमन्वित ।
अन्तः पादोत्तरैर्युक्तमयुग्मस्थूपिकान्वित ॥१०२॥
द्वारशालात्रयं प्रोक्तं सर्वाङ्गं परिमण्डित ।
श्रीकान्त-द्वारप्रासादः
श्रीकानस्य च संस्थानं विस्ताराध्यर्धमायत ॥१०३॥
नन्दपङ्क्तिशिवांशैश्च त्रिचतुष्पञ्चभूमयः ।
अन्तः पादोत्तरैर्युक्तमन्धाराद्यैरलंकृत ॥१०४॥
द्वारस्योर्ध्वेऽन्तरे रङ्गं परिभद्रसमन्वित ।
मुखेऽमुखे महानासी शालाकारशिरो भवेत् ॥१०५॥
अर्धकोटिसमायुक्तं चतुष्पञ्जरशोभित ।
श्रीकेश-द्वारप्रासादः
श्रीकेशस्य तु संस्थानं तारत्रिभागमायत ॥१०६॥
पूर्ववद् भूमिभागं च द्वारे निर्गमकुट्टिम ।
सान्धारं कूटकोष्ठादिसर्वावयवसंयुत ॥१०७॥
नानामसूरकस्तभवेदिकाद्यौरलंकृत ।
अन्तःपादोत्तरैर्युक्तं मध्ये वारणशोभित ॥१०८॥
मुखेऽमुखे महानासी शालाकारशिरःक्रिय ।
पार्श्वयोर्वेदनास्यः स्युः सर्वावयवशोभित ॥१०९॥
स्वस्तिकाकृतिवन्नासी सर्वत्र परिशोभिता ।
नन्द्यावर्तगवाक्षाजालकाद्यैर्विचित्रित ॥११०॥
केशविशाल-द्वारप्रासादः
केशविशालसंस्थानं विस्ताराध्यर्धमायत ।
पूर्ववद् भूमिभागं च मध्यवारणशोभित ॥१११॥
कूटकोष्ठाद्यलङ्कारं पूर्ववत् परिकल्पयेत् ।
मुखे पृष्ठे द्विपार्श्वे तु महानासीचतुष्ट्य ॥११२॥
सभाकारशिरस्तय मुखे पृष्ठे द्विपार्श्वयोः ।
अयुग्मस्थूपिकायुक्तं द्वारप्रासादकत्रय ॥११३॥
स्वस्तिक-द्वारहर्य
स्वस्तिकस्य तु संस्थानं विस्तारद्विगुणायत ।
पङ्क्तिरुद्रार्कभागैस्तु वेदपञ्चर्तुभूमयः ॥११४॥
अन्तःपादोत्तरैयुक्तं भूमिभागं च पूर्ववत् ।
कूटकोष्ठादिसर्वाङ्गैरन्धाराद्यैरलङ्कृत ॥११५॥
सभाशिखरसंयुक्तं स्वस्तिकाकृत्नासियुक् ।
अष्टनासि सभाग्रे तु अयुग्मस्थूपिकान्वित ॥११६॥
दिशास्वस्तिक-द्वारहर्य
दिशास्वस्तिकसंस्थानं विस्तारद्विगुणायत ।
पूर्ववद् भूमिभागं च कूटकोष्ठाद्यलंकृत ॥११७॥
अन्धार्यन्धारहाराङ्गं खण्डहर्याभिमण्डित ।
मुखेऽमुखेऽतिभद्रांशं शिरश्चायतमण्डल ॥११८॥
महानासि चतुर्युक्तं चतुष्पञ्जरशोभित ।
अन्तःपादोत्तरैर्युक्तं सर्वावयवसंयुत ॥११९॥
अनुक्तं पूर्ववत् सर्वमयुग्मस्थूपिकान्वित ।
मर्दल-द्वारहर्य
मर्दलस्य तु संस्थानं विस्तारद्विगुणायत ॥१२०॥
पूर्ववद् भूमिभागं च कूटकोष्ठाद्यलंकृत ।
पुरे पृष्ठे सभागं स्याद् विस्तारत्यंशनिर्गम ॥१२१॥
शालाकारशिरोयुक्तं क्षुद्रनसीविभूषित ।
मुखे पृष्ठे महानासी चतुष्पञ्जरशोभित ॥१२२॥
अन्तःपादोत्तरैर्युक्तं द्वारहर्यं त्रिधोदित ।
मात्राकाण्ड-द्वारगोपुर
मात्राकाण्डस्य संस्थानं विस्तारद्विगुणायत ॥१२३॥
रुद्रार्क त्रयोदशांशैः पञ्चषट्सप्तभूमयः ।
पूर्ववद्भूमिभागं च कूटकोष्ठादि पूर्ववत् ॥१२४॥
अन्तःपादोत्तरैर्युक्तं चतुर्दिग्गतभद्रक ।
गृहपिण्ड्यलिन्द्रहाराभिर्मण्डितं खण्डहर्यवत् ॥१२५॥
शालाकारशिरः कुर्यान्महानासी मुखेऽमुखे ।
पार्श्वयोः क्षुद्रनास्यश्च यथायुक्त्या प्रयोजयेत् ॥१२६॥
श्रीविशाल-द्वारगोपुर
श्रीविशालस्य संस्थानं पञ्चांशे द्व्यंशमायत ।
पूर्ववद् भूमिभागं च मूलतः क्रकरीकृत ॥१२७॥
शिरः क्रकरकोष्ठं च सभा वा तत्र शीर्षक ।
नानामसूरकस्तबवेदिकाद्यैरलंकृत ॥१२८॥
चतुर्दिक्षु महानासी क्षुद्रनासीविभूषिता ।
स्वस्तिकाकृतिवन्नास्यः सर्वत्र परिकल्पयेत् ॥१२९॥
चतुर्मुख-द्वारगोपुर
चतुर्मुखस्य संस्थानं चतुर्भागाधिकायुत ।
पूर्ववद् भूमिभागं च दिशाभद्रकसंयुत ॥१३०॥
हारामध्ये तु कर्तव्यं कुड्यकुभलतान्वित ।
तोरणैर्जालकैर्वृत्तस्फुटिताद्यैरलंकृत ॥१३१॥
कूटैर्नीडैस्तथा कोष्ठैः क्षुद्रकोष्ठैर्विभूषित ।
गृहपिण्ड्यलिन्द्रहाराभिर्मण्डितं खण्डहर्यवत् ॥१३२॥
सभाशिरस्तु वा शालाकारं वा शीर्षकं तु तत् ।
चतुर्नासिसमायुक्तं पार्श्वे द्वे द्वे तु नासिके ॥१३३॥
उपर्युपरिकूटाद्यैः सर्वाङ्गैः समलङ्कृत ।
अन्तःसोपानसंयुक्तं द्वारगोपुरकं त्रिधा ॥१३४॥
वर्षस्थलसमोपेतं निर्वारितलकं तु वा ।
घनाघनाङ्गयुक्तानि श्रीकरादिनि युक्तितः ॥१३५॥
नानाविधस्तभमसूरकाणि नानाविधाङ्गानि सलक्षणानि ।
नानोपपीठानि समण्डकानि भद्राण्यभद्राणि घनाघनानि ॥१३६॥
एकादिसप्तान्ततलानि युक्त्या शोभादिपञ्चादशगोपुराणि ।
शालासभामण्डपशीर्षकाणि प्रोक्तानि सद्मन्यमरेश्वराणा ॥१३७॥
इति मयमते वस्तुशास्त्रे गोपुरविधानं
नाम चतुर्विंशोऽध्यायः