संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ पञ्चदशोऽध्यायः

मयमतम् - अथ पञ्चदशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


पाद्प्रामणद्रव्यपरिग्रहविधानम्

स्तम्भलक्षणम्

पादायामं सविस्तारमाकारं भूषणादिकम् ।

लक्षणान्तरतः सम्यग्‍ वक्ष्ये संक्षेपतः क्रमात् ॥१॥

स्थाणुः सःऊणश्च पादश्च जङ्घा च चरणोऽङ्‌घ्रिकः ।

स्तम्भश्च तलिपः कम्पः पर्यायवचनानि हि ॥२॥

स्तम्भमानम्

सवितस्त्यष्टहस्तोच्चं द्वादशक्ष्माद्यपादकम् ।

तत्तद्वितस्तिहीनेन त्रिकरं चान्त्यभूमिके ॥३॥

आत्तोत्सेधाशमानेन पादोच्चं वा विधीयते ।

आत्तधिष्ठानतुङ्गस्य द्विगुणं पादतुङ्गकम् ॥४॥

द्विगुणादधिकोत्सेधः स्तम्भः प्रोक्तः स्वयम्भुवा ।

अष्टविंशतिमात्रैस्तु मूलभूस्तम्भविस्तृतम् ॥५॥

तत्तद्‌द्वयङ्गुलभिन्नेन षण्मात्रं चान्त्यभूम्के ।

पादोच्चे पङ्‍क्तिनन्दाष्टभागेंऽसं पादविस्तृतम् ॥६॥

तदर्धं वा त्रिभागोनं चतुर्भागोनमेव वा ।

कुड्यस्तम्भस्य विस्तारस्तेन द्वित्रिचतुर्गुणः ॥७॥

पञ्चषड्‌गुण एवं स्याद्‍ भित्तिविष्कम्भ इष्यते ।

जन्मोर्ध्वे स्तम्भविक्षेपहोमाः स्तम्भविधौ विदुः ॥८॥

स्तम्भभेदाः

प्रतिस्तम्भः प्रतेरूर्ध्वे चोत्तराधो हितायतिः ।

जन्मोर्ध्वे स्तम्भनिक्षेपः स्तम्भायामस्त्रिभागभाक् ॥९॥

गाम्भीर्यमवटं कृत्वा तदुपज्ञतलं कुरु ।

पादुकाद्युत्तरान्तःस्थो निखातस्तम्भ इष्यते ॥१०॥

अधिष्ठानोत्तरन्तःस्थो झषालस्तम्भ उच्यते ।

तद्व्यासादर्कभागाद्यं षड्‌भागोनाग्रविस्तरः ॥११॥

मूलभूस्तम्भतुङ्गस्य द्वादशाद्याः षडंशयुक् ।

ऊर्ध्वोर्ध्वस्तम्भतुङ्गं स्यादेवं तद्विस्तरक्रमः ॥१२॥

अग्राकारं युगास्त्रं तु कुम्भमन्डिसमन्वितम् ।

ब्रह्मकान्तं तदष्टास्त्रं विष्णुकान्तमिहोच्यते ॥१३॥

षडस्त्रमिन्द्रकान्तं स्यात्‌ सौम्यं तत्‍ षोडशास्त्रकम् ।

कर्णमात्रेण तन्मूले चतुरस्त्रमितोर्ध्वतः ॥१४॥

अष्टास्त्रं वा द्विरष्टास्त्रवृत्तं पूर्वास्त्रमीरितम् ।

कुम्भमण्डियुतं वाऽपि रुद्रकान्तं सुवृत्तकम् ॥१५॥

विस्तारद्विगुणं मध्येऽष्टास्त्रयुक्तं युगास्त्रकम् ।

वियुक्तं कुम्भमण्डिभ्यां मध्येऽष्टास्त्रं तदुच्यते ॥१६॥

चतुरष्टास्त्ररवृत्ताभं रुद्रच्छन्दं समांशतः ।

दण्डाध्यर्धे द्विदण्डेनोत्तुङ्गद्विगुणविस्तृतम् ॥१७॥

पद्मासनं तु कर्तव्यं मूले पद्मासनं भवेत् ।

यथेष्टाकृतिसंयुक्तमुर्ध्वतो वा समण्डितम् ॥१८॥

चक्रवाकाकृतिव्याप्तं मूले पद्मासनान्वितम् ।

सभद्रं मध्यभागे तु भद्रकं तद्‍ द्विमण्डितम् ॥१९॥

व्यालेभसिंहभूतादिमण्डितं यत्तु मूलतः ।

यथेष्टाकृतिसंयुक्तं तत्तन्नाम्ना समीरितम् ॥२०॥

आत्तमेव तदायामे शुण्डभेदसमन्वितम् ।

युतं तत्कुम्भमण्डिभ्यां शुण्डपादमिति स्मृतम् ॥२१॥

मुक्तोत्करणकर्माङ्गं पिण्डिपादं तदेव हि ।

कर्मायामेन चाग्रे तु चतुरस्त्रसमन्वितम् ॥२२॥

तदधस्त्वर्धदण्डेन पद्मं वस्वस्त्रसंयुतम् ।

तदधस्तु विकारास्त्रं दण्डेनाब्जं तु पूर्ववत् ॥२३॥

तदधो दण्डमाने मध्यपट्टं युगास्त्रकम् ।

पद्मं च षोडशास्त्रं च पूर्ववत्परिकल्पयत् ॥२४॥

मूले शेषं युगास्त्रं स्याच्चित्रखण्डं तदुच्यते ।

तदेवाष्टास्त्रकं मध्यपट्टं श्रीखण्डमुच्यते ॥२५॥

मध्यपट्टं कलास्त्रं चेच्छ्रीवज्रस्तम्भमुच्यते ।

अग्राकारं युगास्त्रं स्यात्त्रिपट्टक्षेपणान्वितम् ॥२६॥

क्षेपणस्तम्भमित्युक्तं पट्टं पत्रादिशोभितम् ।

ऊर्ध्वाधस्ताच्छिखामानं त्रिचुतर्भागमेव वा ॥२७॥

सर्वे पोतिकया युक्ता नानारूपैर्विचित्रिताः ।

दण्डलक्षणम्

पादाग्रविपुलं यत्तु तद्‌ दण्डमिति कथ्यते ॥२८॥

सर्वाण्यङ्गानि हर्म्याणां मानयेद्‍ दण्डमानतः ।

कलशलक्षणम्

सपादं सार्धपादोनद्विगुणं द्विगुणोन्नतम् ॥२९॥

श्रीकरं चन्द्रकान्तं च सौमुख्यं प्रियदर्शनम् ।

यथाक्रमेण नामानि कलशानां भवन्ति हि ॥३०॥

पोतिकाखण्डमण्डीनि कुम्भं स्कन्धञ्च पद्मकम् ।

मालास्थानं क्रमेणैव स्तम्भग्रात्‍ परिकल्पयेत् ॥३१॥

कुम्भोच्छ्रये नवांशे धृग्भागेन चतुरंशकैः ।

कमलं कण्ठमंशेन भागेनास्यं प्रकीर्तितम् ॥३२॥

भागेन पद्ममर्धेन वृत्तमर्धेन हीरकौ ।

हीरौ पादसमव्यासौ तत्कर्णेनास्यविस्तृतम् ॥३३॥

तत्कर्णं कुम्भविस्तारं तत्कर्णं फलकायतम् ।

अथवा फलकायामं चतुर्दण्डं त्रिदण्डकम् ॥३४॥

सार्धत्रिदण्डमायाममुत्सेधाख्यं त्रिदण्डकम् ।

तदुत्सेधे त्रिभागे तु भागेनोत्सन्धिरिष्यते ॥३५॥

भागेन वेत्रमंशेन पद्मं पाल्याभमिष्यते ।

नागवक्त्रसमाकारमावेत्रात्‍ पादरूपवत् ॥३६॥

पादविस्तारविस्तारं धृक्कण्ठं वीरकाण्डकम् ।

सर्वेषामपि पादानां वीरकाण्डं युगास्त्रकम् ॥३७॥

तदुत्सेधत्रिपादोनं दण्डोत्थं स्कन्धमिष्यते ।

तदधस्तु तदधेन पद्मं पत्रविचित्रितम् ॥३८॥

मालास्थानमधस्तस्माद्‍ दण्डमानसमुन्नतिः ।

पोतिका

पादविस्तारविस्तारा पोतिका तत्समोदया ॥३९॥

पञ्चदण्डसमायामा श्रेष्ठार्धोच्चा कनिष्ठिका ।

आयता सा त्रिदण्डेन चतुर्दण्डेन दीर्घका ॥४०॥

त्रिभागोना त्रिपादोच्चा मध्यमा पोतिका भवेत् ।

पूर्वोक्तं तत्‍ समण्डीनां सकुम्भानां चतुर्गुणम् ॥४१॥

त्रिगुणं केवलानां तु पादानां प्रविधीयते ।

सर्वेषामपि पादानां यथेष्टायतमीरितम् ॥४२॥

तदुच्चत्रिचतुर्भागोच्चा वा स्वाग्रे तु पट्टिका ।

अर्धं त्रिद्व्यंशमङ्‌घ्र्यूनं छायामानं विधीयते ॥४३॥

त्रिभागं वा चतुर्भागं तरङ्गस्थानमिष्यते ।

सक्षुद्रक्षेपणं मध्यपट्टं पत्रविचित्रितम् ॥४४॥

समास्तरङ्गाश्चान्योन्यहीनाः सर्वत्र सम्मताः ।

अग्रनिष्क्राममर्धं वा त्रिभागं वा स्वतारतः ॥४५॥

मुष्टिबन्धोपरिक्षिप्तव्यालसंह्रतिरूपवत् ।

सनालीकं समतलं सनाटकमथापि वा ॥४६॥

भूतेभमकरैर्व्यालसंयुक्तं चाग्रमण्डनम् ।

पार्श्वयोः पोतिकामध्ये पट्टं पादविशालवत्‌ ॥४७॥

रत्‍नबन्धक्रियावल्ली चित्रा वाग्रस्थपट्टिका ।

नानाचित्रैर्विचित्रा वा सा प्रोक्ता चित्रपोतिका ॥४८॥

पत्रैर्विचित्रिता पत्रपोतिकेति प्रकीर्तिता ।

महार्णवतरङ्गाभतरङ्गाभा तरङ्गिणी ॥४९॥

चतुःषडष्टपङ्‍क्त्यर्कसंख्या वा स्युस्तरङ्गकाः ।

बहवोऽपि समाश्चैते चान्योन्याः स्युर्वराः क्रमात् ॥५०॥

स्तम्भविषये विशेषः

पादमर्धं त्रिपादं वा भित्तेः स्तम्भस्य निर्गतम् ।

चतुरष्टास्त्रवृत्तानां यथाक्रममिति स्मृतम् ॥५१॥

द्विहस्ताद्यं चतुर्हस्तं स्तम्भान्तरमिति स्मृतम् ।

षडङ्गुलविवृद्ध्या तु नवभेदं प्रकीर्तितम् ॥५२॥

गृहीतांशवशेनापि यथायुक्त्या प्रयोजयेत् ।

स्तम्भस्तम्भान्तरं सर्वं प्रासादे सार्वदेशिके ॥५३॥

विषमस्तम्भभागं तु वास्तुवस्तुविनाशनम् ।

सायत चापि तत्सर्वं तन्नाम्नैव प्रपद्यते ॥५४॥

दारुस्तम्भविशालं वा सार्धं द्वित्रिगुणं तु वा ।

शिलास्तम्भविशालं स्याद्‍ देवानां नैव मानवे ॥५५॥

इष्टकाश्मद्रुमैः सर्वैः स्तम्भाः प्रोक्ताश्चिरन्तनैः ।

युग्मायुग्मं तु देवानामयुग्मं तु नृणां मतम् ॥५६॥

अन्तःस्तम्भं बहिःस्तम्भमाजुसूत्रं यथा भवत् ।

गृहाणां भित्तिमध्ये तु शालानां तु तथा भवेत् ॥५७॥

प्रासादानां तु पाद्बाह्ये पान्मध्ये शयनासने ।

उपानादिशिरः केचित्केचित्स्तूप्यन्तमुन्नतम् ॥५८॥

मुनयः प्रवदन्त्युच्चं प्रासादे सार्वदेशिके ।

पाद्बाह्ये पादमध्ये वा सभामण्डपयोर्मतम् ॥५९॥

अन्तर्बहिश्च मध्ये तु सालानां मानसूत्रकम् ।

युञ्जीयादेवमेवं तु सर्वेषां सम्पदां पदम् ॥६०॥

विपरीते विपत्त्यै स्यादिति शास्त्रविनिश्चयः ।

द्रव्यपरिग्रहः

स्तम्भोत्तरादिकाङ्गानां द्रव्यं द्रुमोपलेष्टकाः ॥६१॥

वृक्षलक्षणम्

स्निग्धसारमहासारा ह्यवृद्धास्तरुणेतराः ।

अवक्रा निर्व्रणाः सर्वे ग्रहीतव्या महीरुहाः ॥६२॥

पुण्याद्रिवनतीर्थस्था दर्शनीया मनोरमाः ।

सर्वसम्पत्समृद्ध्यर्था भवेयुस्ते न संशयः ॥६३॥

पुरुषः खदिरः सालो मधूकः चम्पकस्तथा ।

शिंशपार्जुनाजकर्णी क्षीरिणी पञ्चचन्दनौ ॥६४॥

पिशितो धन्वनः पिण्डी सिंहो राजादनः शमी ।

तिलकश्च द्रुमाश्चैते स्तम्भवृक्षाः समीरिताः ॥६५॥

निम्बासनशिरीषाश्च एकः कालश्च कट्‌फलः ।

तिमिसो लिकुचश्चैव पनसः सप्तपर्णकः ॥६६॥

भौमा चैव गवाक्षी चैत्यादयश्चोर्ध्वभूरुहाः ।

शिलालक्षणम्

एकवर्णाः स्थिराः स्निग्धाः सुखसंस्पर्शनान्विताः ॥६७॥

प्राचीनाश्चाप्युदीचीना भूमग्नाः शुभदाः शिलाः ।

इष्टकालक्षणम्

स्त्रीलिङ्गाश्चापि पुँल्लिङ्गा निर्दोषाश्च नपुंसकाः ॥६८॥

सुघनाः समदग्धाश्च सुस्वराश्चेष्टकाः शुभाः ।

स्त्रीलिङ्गाश्चापि पुँल्लिङ्गा भिन्नाश्छिद्रादिवर्जिताः ॥६९॥

एतैरेवंविधैर्द्रव्यैः कृतं वस्तु समृद्धये ।

धर्मार्थकामसौख्यानां भवेदेवेति निश्चितम्‌ ॥७०॥

वर्ज्याः वृक्षाः

न देवतालयान्तःस्थाः प्रहता वा न विद्युताः ।

न दावानलसंलीढा न भूतालयमध्यगाः ॥७१॥

न महापतथसंरूढा न तु ग्रामसमुद्भवाः ।

न घटाम्बुभिरासिक्ता न पक्षिमृगसेविताः ॥७२॥

न वायुना न मातङ्गैर्भग्ना नैव गतासवः ।

न चण्डालजनाकीर्णा न सर्वजनसेविताः ॥७३॥

नान्योन्यवलिता भग्ना न वल्मीकसमाश्रिताः ।

न लतालिङ्गिता गाढा न सिराकोटरावृताः ॥७४॥

नाङ्कुरावृतसर्वाङ्गा न भृङ्गकीटदूषिताः ।

नाकालफलिनो ग्राह्या श्मशानसमीपगाः ॥७५॥

सभाचैत्यसमीपस्था देवादीनां न भूरुहाः ।

वापीकूपतटाकादिवस्तुष्वपि च सम्भवाः ॥७६॥

विनष्टवस्तुसञ्जातद्रव्यं सर्वविपत्करम् ।

तस्मात्सर्वप्रयत्‍नेन शुद्धं द्रव्यं प्रगृह्यताम्‌ ॥७७॥

शिला देवालये ग्राह्या द्विजावनिपयोर्मताः ।

पाषण्डिनां च कर्तव्या न कुर्यादद्वैश्यशूद्रयोः ॥७८॥

कर्तव्यं यदि तद्वास्तु धर्मकामार्थनाशकृत् ।

एकद्रव्यकृतं शुद्धं मिश्रं द्विद्रव्यनिर्मितम्‍ ॥७९॥

त्रिद्रव्यसंयुतं यत्तु तत्‍ सङ्कीर्णमुदाह्रतम्

पूर्वोदितानां वासेषु कर्तव्यं सम्पदां पदम् ॥८०॥

वृक्षसंग्रहणम्

सर्वद्वारिकनक्षत्रे शुभपक्षमुहूर्तके ।

गच्छेदरण्यं द्रव्यार्थी कृतकौतुकमङ्गलः ॥८१॥

निमित्तैः शकुनैर्योग्यैः सह मङ्गलशब्दकैः ।

गन्धैः पुष्पैश्च धूपैश्च मांसेन कृसरेण च ॥८२॥

पायसौदनमत्स्यैश्च भक्षैश्चापि पृथग्विधैः ।

अर्चयेदीप्सितान्‍ सर्वान्‌ वृक्षांश्च वनदेवताः ॥८३॥

भूतक्रूरबलिं दत्त्वा कर्मयोग्मद्रुमं हरेत् ।

मूलाग्रादार्जवं वृत्तं शाखानेकसमन्वितम् ॥८४॥

तत्तु पुंस्त्वं भवेन्मूले स्थूलं स्त्रीत्वं कृशाग्रकम्‌ ।

स्थूलाग्रं कृशमूलं तु षण्डमेतदुदीरितम्‍ ॥८५॥

मुहूर्तस्तम्भमुद्दिश्य पुम्भूरुह उदीरितः ।

सर्वेष्वङ्गेषु वस्तूनां पुंस्त्रीषण्डं प्रकीर्तितम् ॥८६॥

पूर्वाशायां द्रुमस्यास्य स्वपेद्‍ दर्भान्तरे शुचिः ।

स्वप्रदक्षिणपार्श्वे तु संस्थाप्य परशुं सुधीः ॥८७॥

पीत्वा शुद्धं पयो रात्रावपराभिमुखोऽपरः ।

स्थपतिर्वरवेषाढ्यो मन्त्रयेत्‍ सपरश्वधः ॥८८॥

अपक्रामन्तु भूतानि देवताश्च सगुह्यकाः ।

युष्मभ्यं तु बलं भूयः सोमो दिशतु पादपाः ॥८९॥

शिवमस्तु महीपुत्रा! देवताश्च सगुह्यकाः ! ।

कर्मैतत्‍ साधयिष्यामि क्रियतां वासपर्ययः ॥९०॥

एवमुक्त्वा नमस्कृत्य पादपेभ्यो नमः शुचिः ।

दुग्धतैलघृतैः सम्यक्‍ सन्तेज्य परशोर्मुखम् ॥९१॥

उपक्रामेत्तु तं छेत्तुं यथाकामं वनस्पतिम् ।

मूले हस्तं व्यपोह्योर्ध्वे त्रिश्छित्वा तत्र लक्षयेत्‌ ॥९२॥

वारिस्त्रावो विवृद्ध्यर्थः क्षीरं पुत्रविवर्धनम् ।

शोणितं स्वामिनं हन्याद्वर्जयेत्तं प्रयत्‍नतः ॥९३॥

पतने सिंहशार्दूलहस्तिशब्दाः सुशोभनाः ।

रुदितं हसितं कोशं कूजितं निन्दितं वरैः ॥९४॥

पातयेदुत्तराग्रं तु पूर्वाग्रं वा वनस्पतिम् ।

ते दिशौ शुभदे स्यातामन्याशासु विपर्यये ॥९५॥

सालाश्मर्यजकर्णीनामूर्ध्वे तु पतनं शुभम् ।

मूले पृष्ठागमे बन्धुप्रेष्ययोश्च विनाशनम्‍ ॥९६॥

निर्गमत्स्थितिमद्‍ भूत्वा वृक्षान्तरनिपातने ।

शिरःसङ्गेन नाशः स्यान्मूलसङ्गे श्रमो भवेत् ॥९७॥

शरीरभङ्गं कर्तृणां नाशमग्रेऽप्यपत्यह्रत्‌ ।

अन्योन्यपतनं पूज्यं छेद्यं चोभयतः समम् ॥९८॥

चतुरस्त्रमृजुं कृत्वा मुहूर्तस्तम्भसंग्रहे ।

सितपट्टेन सञ्छाद्य स्यन्दने न्यस्य वेशयेत् ॥९९॥

देवदिजमहीपानां विशां वै शकटेन तु ।

शूद्रस्य पुरुषस्कन्धेनानीयात्तु विचक्षणः ॥१००॥

पार्श्वयोः शाययित्वा तु शकटे न्यस्य वेशयेत् ।

प्रशस्ते द्वारि प्रग्राह्य स्थपत्यनुगतद्रुमम् ॥१०१॥

कर्ममण्डपके न्यस्य बालुकोपरि शाययेत् ।

प्रागग्रं चोत्तराग्रं वाप्याशुष्कं रक्षयेत्‍ पुनः ॥१०२॥

परावृत्तं न कर्तव्यमाषण्मासं तु स द्रुमः ।

सर्वेन्द्रकीला एवं स्युः प्रापणीयाः प्रयत्‍नतः ॥१०३॥

अन्येषामपि कुप्यानां वेशने त्वग्रमग्रतः ।

मुहूर्त्तस्तम्भः

मुहूर्त्तस्तम्भो देवानां द्विजातीनां यथाक्रमम् ॥१०४॥

कार्तमालश्च खदिरः खादिरश्च मधूककः ।

राजादनो यथासङ्ख्यं विस्तारायाममुच्यते ॥१०५॥

भानुरुद्रदशद्वारवितस्त्यायामसंयुताः ।

तत्सङ्ख्याङ्गुलिविस्तीर्णाः पङ्‍क्त्यंशोनाग्रविस्तराः ॥१०६॥

भूतसार्धचतुर्वेदगुणतालनिखातकाः ।

भूमिभूमिवशादुक्तं स्तम्भोच्चं विपुलं तु वा ॥१०७॥

झषालाङ्‍घ्रौ तु सर्वत्र निखातं परिवर्जयेत् ।

अश्वत्थोदुम्बरश्चैव प्लक्षश्च वटवृक्षकः ॥१०८॥

सप्तपर्णश्च बिल्वश्च पलाशः कुटजस्तथा ।

पीलुः श्‍लेष्मातकी लोध्रः कदम्बः पारिजातकः ॥१०९॥

शिरीषः कोविदारश्च तिन्त्रीणीको महाद्रुमः ।

शिलीन्ध्रः सर्पमारश्च शाल्मली सरलस्तथा ॥११०॥

किंशुकश्चारिमेदश्चाभयाक्षामलकद्रुमाः ।

कपित्थः कण्टकश्चैव पुत्रजीवश्च डुण्डुकः ॥१११॥

कारस्करः करञ्जश्च वरणश्चाश्वमारकः ।

बदरो वकुलः पिण्डी पद्मकस्तिलकस्तथा ॥११२॥

पाटल्यगरुकर्पूरा न ग्राह्या गृहकर्मणि ।

देवयोग्या इमे सर्वे मानुषाणामनर्थदाः ॥११३॥

तस्मात्‍ सर्वप्रयत्‍नेन गृह्णीयान्न नरालये ।

इष्टकासंग्रहणम्

ऊषरं पाण्डुरं कृष्णचिक्कणं ताम्रपुल्लकम् ॥११४॥

मृदश्चतस्त्रस्तास्वेव गृह्णीयात्ताम्रपुल्लकम् ।

अशर्कराश्ममूलास्थिलोष्टं सतनुवालुकम्‍ ॥११५॥

एकवर्णं सुखस्पर्शमिष्टं लोष्टेष्टकादिषु ।

मृत्खण्डं पूरयेदग्रे जानुदध्ने जले ततः ॥११६॥

आलोड्य मर्दयेत्पद्भ्यां चत्वारिंशत्पुनः पुनः ।

क्षीरद्रुमकदम्बाम्राभयाक्षत्वग्जलैरपि ॥११७॥

त्रिफलाम्बुभिरासिक्त्वा मर्दयेन्मासमात्रकम् ।

चतुष्पञ्चषडष्टाभिर्मात्रैस्तद्‍द्विगुणायताः ॥११८॥

व्यासार्धार्धत्रिभागैकतीव्रा मध्ये परेऽपरे ।

इष्टका बहुशः शोष्याः समदग्धाः पुनश्च ताः ॥११९॥

एकद्वित्रिचतुर्मासमतीत्यैव विचक्षणः ।

जले प्रक्षिप्य यत्‍नेन जलादुद्धृत्य तत्पुनः ।

निरार्द्रास्ताः प्रयोक्तव्या इष्टका इष्टकर्मणि ॥१२०॥

एवं द्रुमेष्टकशिला विधिना गृहीत्वा

कुर्वन्तु वस्तु विहिता हि वराः समृद्ध्यै ।

यन्निन्दितं त्वपरवस्त्ववशिष्टमाद्यै-

र्द्रव्यं विनष्टभवनप्रभवं विपत्त्यै ॥१२१॥

स्तम्भायामं तारमाकारभेदं

सालङ्कारं भूषणं च क्रमेण ।

युक्त्या युक्तं सम्पदामास्पदं तत्

प्रोक्तं नृणां तैतिलानां मयेह ॥१२२॥

इति मयमते वस्तुशास्त्रे पादप्रमाणद्रव्यपरिग्रहो नाम पञ्चदशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP