(शालाविधानम्)
तैतलानां द्विजादीनां वर्णानां वासयोग्यकाः ।
एकद्वित्रिचतुस्सप्तदशशालाश्च षड्विधाः ॥१॥
त्यक्ताजांशाः पुरोऽलिन्द्रसंयुक्ताः पिण्डभिन्नकाः ।
तासां हस्तैरयुग्मैश्च युग्मैर्विस्तारमायतम् ॥२॥
उत्सेधं चाप्यलङ्कारं संक्षेपाद् वक्श्यतेऽधुना ।
शालाविस्तारः
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥३॥
त्रयोविंशच्चतुर्विंशद्धस्तान्ता रुद्रसंख्यया ।
एकशाला विशालाश्च ते सर्वे परिकीर्तिताः ॥४॥
सप्ताष्टहस्तादारभ्य द्वौ द्वौ हस्तौ प्रवर्धयेत् ।
एकोनविंशद्धस्तान्तं विंशद्धस्तं तु सप्तधाः ॥५॥
द्विशालायास्त्रिशालाया वैपुल्याः परिकीर्तिताः ।
शालायामः
विस्तारात् पादमाधिक्यमर्धाधिकमथापि वा ॥६॥
त्रिपादं द्विगुणायामं तस्मात् पादार्धकं त्रिपात् ।
त्रिगुणान्तप्रमाणं चैवायामाश्चाष्टधा स्मृताः ॥७॥
सर्वे दैर्घ्या सुराणां तु द्विगुणं तु नृणां मतम् ।
द्विगुणाद्यायताः सर्वे विहाराश्रमवासिनाम् ॥८॥
सर्वेषां सङ्गमोपेते द्विगुणाद्यायतं मतम् ।
शालोत्सेधः
विस्तारसममुत्सेधं सपादं सार्धमेव वा ॥९॥
त्रिपादं द्विगुणं चैव उत्सेधं पञ्चधा मतम् ।
शान्तिकं पौष्टिकं नैव जयदं धनमद्भुतम् ॥१०॥
एकशालासामान्यलक्षणम्
तैतलानां द्विजादीनां पाषण्ड्याश्रमिणामपि ।
हस्त्यश्वरथयौधानां यागहोमादिशिल्पिनाम् ॥११॥
एकशाला प्रशस्ता स्यात् स्त्रीणां रूपोपजीविनाम् ।
दण्डकं मौलिकं चैव स्वस्तिकं च चतुर्मुखम् ॥१२॥
सामान्यं तैतलादीनां पूर्वोक्तानां चतुष्टयम् ।
एकादिबहुभूम्यन्तं खण्डहर्म्यादिमण्डितम् ॥१३॥
अर्पितानर्पितं चैव प्रासादवदलंकृतम् ।
पुरतः पार्श्वयोः पृष्ठेऽलिन्द्रं कुर्यात् समन्ततः ॥१४॥
नराणां च सुराणां च पाषण्याश्रमिणां तथा ।
पुरतो मण्डपोपेतं पृष्ठे पार्श्वे तु भद्रकम् ॥१५॥
मध्ये वासं तु देवानां पार्श्वे वासो भवेन्नृणाम् ।
प्रागवागपरोदीच्यां पृथक्शाला प्रधानिका ॥१६॥
सर्वेषामपि जातीनां सामान्यमिति विद्यते ।
दक्षिणे पश्चिमे चैव शाला वैशेषिका नृणाम् ॥१७॥
प्रागुदक्प्रागवाक्प्रत्यगुदग्गेहे तु लाङ्गले ।
स्वामिनो मरण स्याद्धि श्रियै याम्ये प्रतीच्यपि ॥१८॥
अवाक्प्रत्यगुदक् सम्पत् प्रागवागपरो जयः ।
दक्षिणे पश्चिमे हीनास्त्रिशालाः सर्वदोषकाः ॥१९॥
लाङ्गलं गणिकादीनां श्र्पमुग्रोपजीविनाम् ।
लाङ्गले चैव शूर्पे च पृथक्शालासु सर्वथा ॥२०॥
शालाविरहितस्थाने कुड्यद्वारं प्रयोजयेत् ।
एकसन्धि द्विशालायां त्रिशालायां द्विसन्धिकम् ॥२१॥
उक्तानां दण्डकादीनां विन्यासं च वदाम्यहम् ।
प्रथमदण्डकम्
विस्तारं तु त्रिधा कृत्वा चतुर्भागं तदायतम् ॥२२॥
द्विभागं गृहविस्तारं वारमेकांशमग्रतः ।
आस्यं तत्खण्डदण्डाभं वासं सर्वजनार्हकम् ॥२३॥
एतद् दण्डकमित्युक्तं शालानां क्षुद्ररूपकम् ।
द्वितीयदण्डकम्
विस्तारे चतुर्म्शे तु षडंशाधिकमायतम् ॥२४॥
द्विभागं गृहविस्तारं द्व्यंशं चङ्क्रमणं भवेत् ।
शेषं पूर्ववदुद्दिष्टं दण्डकं तदुदीरितम् ॥२५॥
गृहायते नन्दविभागभाजिते शरंशकैर्दक्षिणभागमाधिकम् ।
अदक्षिणे बन्धपदं तदन्तरे विधीयतां द्वारमथैकशालके ॥२६॥
केचिद् द्वारं मध्यसूत्रस्य वामे
चाहुः शिष्टं मानुषाणां निवासे ।
सर्वास्वेतास्वत्र शालासु शाला-
भागे कुर्यादायते द्वारमेकम् ॥२७॥
तृतीयदण्डकम्
त्रिभागं गृहविस्तारं द्विगुणं तस्य दीर्घकम् ।
भागं चङ्क्रमणोपेतं मध्यमे सकभित्तिकम् ॥२८॥
कुल्याभद्वारसंयुक्तं शेषं पूर्ववदाचरेत् ।
वंशमूले तु वासं स्याद्वंशाग्रे रङ्गमीरितम् ॥२९॥
सर्वतः परितः कुड्यं रङ्गं पादसमन्वितम् ।
भागेन पुरतोऽलिन्द्रं पार्श्वयोः पृष्ठतस्तु वा ॥३०॥
प्रासादवदलङ्कुर्याद् दण्डकं तदुदीरितम् ।
चतुर्थदण्डकम्
तदेव मध्यमे रङ्गं वासौ वंशाग्रमूलयोः ॥३१॥
युक्त्यान्तः स्तम्भसंयुक्तं वंशद्वारं न योजयेत् ।
शेषं पूर्ववदुद्दिष्टं दण्डकं तदुदीरितम् ॥३२॥
पञ्चमदण्डकम्
षडंशं विस्तृतं चैव द्वादशांशं तदायतम् ।
भागेन परितोऽलिन्द्रं शालाभागं द्विभागतः ॥३३॥
तत्समं पुरतोऽलिन्द्रं युक्त्यान्तःस्तम्भसंयुतम् ।
पार्श्ययोर्द्वित्रिभागेन शालायामे द्विवासकौ ॥३४॥
द्विचतुर्भागविस्तारायामं मध्ये तु रङ्गकम् ।
दण्डकं तदपि प्रोक्तं शेषं पूर्ववदाचरेत् ॥३५॥
व्यासेऽग्निभूतपातालनन्दांशेऽशद्विकत्रिभिः ।
चतुर्भिः पुरतोऽलिन्द्रं स्यादेकद्वित्रिशालके ॥३६॥
एतत् सर्वं दण्डकं जातिरूपं
देवानां भूतैतलानां नृपाणाम् ।
पाषण्डादीनां विशां शूद्रकाणां
योधानां रूपाङ्गनानां प्रशस्तम् ॥३७॥
मौलिकम्
एतदेव सभाकारशिरोयुक्तं तु मौलिकम् ।
तदेव काननोपेतं मौलिकं तदुदीरितम् ॥३८॥
छन्दं पूर्वोदितानां तु सम्मतं नैव योषिताम् ।
स्वस्तिकम्
तदेव पुरतोभद्रं चतुर्द्व्यंशेन निर्गमम् ॥३९॥
वासं नेत्रत्रयोपेतं स्वस्तिकं तद् विकल्पकम् ।
देवभूसुरभूपेषु योग्यं नैवान्त्यजन्मनाम् ॥४०॥
चतुर्मुखम्
तदेव मुखभद्रं तु यथा तत पृष्ठतो भवेत ।
क्रकरीवंशमूलाग्रं चतुर्नेत्रसमन्वितम् ॥४१॥
अधिष्ठानादिवर्गाढ्यं प्रासादवदलङ्कृतम् ।
नासिकातोरणाद्यङ्गैर्युक्तं वातायनादिभिः ॥४२॥
चतुर्मुखमिदं नाम्ना आभासमिति कल्पितम् ।
देवद्विजनृपाणां च सम्मतं सम्पदां पदम् ॥४३॥
दण्डकादिसामान्यलक्षणम्
एकादिपञ्चभूम्यन्तं दण्डकादिचतुष्टयम् ।
स्वामिचित्तवशान्न्यस्तस्थानविन्याससंयुतम् ॥४४॥
हस्त्यश्ववृषभादीनां प्रत्येकं वासपङ्क्तिकम् ।
सद्विचूलित्रिचूल्यङ्गं सप्रग्रीवं सतल्पकम् ॥४५॥
सपादं सार्धमुत्सेधं तत्समं वाऽभिधीयते ।
दण्डकं मौलिकं चैव यथेष्टदिशि वारणम् ॥४६॥
द्विशालविधानम्
चतुर्मुखम्
चतुरस्त्रे द्विशाले तु धर्मभागविभाजिते ।
भागेन बाह्यता वारं द्व्यंशं गेहविशालकम् ॥४७॥
प्रमुखे वारमेकांशं मण्डपं नवभागिकम् ।
तदावृत्त्यैकतोऽलिन्द्रं शेषं चङ्क्रमणं भवेत् ॥४८॥
मुखगेहं बहिर्वारं लाङ्गलाभं यथा तथा ।
मुखचङ्क्रमणाद्यन्तर्विन्यासं चतुरस्त्रकम् ॥४९॥
मध्यरङ्गसमायुक्तं मुख्यगेहं द्विवासकम् ।
बाह्यचङ्क्रमणाद् बाह्ये मुखभद्रं द्विभागतः ॥५०॥
चतुर्मुखसमायुक्तं द्विशालं तच्चतुर्मुखम् ।
स्वस्तिकम्
तदेव पञ्चभागान्तमेकशालामुखायतम् ॥५१॥
द्वारं पूर्ववदुद्दिष्टं सर्वालङ्कारशोभितम् ।
मण्डपं बाह्यतोऽलिन्द्रं सायतं प्रविधीयते ॥५२॥
नेत्रत्रयसमायुक्त दीर्घ्यां सायतभद्रकम् ।
एतत् स्वस्तिकमित्युक्तं शेषं पूर्ववदाचरेत् ॥५३॥
दण्डवक्त्रम्
तदेव द्विमुखोपेत्म दण्डवक्त्रमिति स्मृतम् ।
सावकाशाङ्गणोपेतं मण्डपेन विना यदि ॥५४॥
शालाविरहितस्थाने कुड्यद्वारं प्रयोजयेत् ।
एकानेकतलोपेतं कुर्याद् रूपोपजीविनाम् ॥५५॥
त्रिशालाविधानम्
मेरुकान्तम्
व्यासायामेऽष्टर्धामांशे त्रिशाले द्व्यंशमङ्गणम् ।
त्रिपार्श्वेऽलिन्द्रमेकांशं द्व्यंशं शालाविशालकम् ॥५६॥
त्यक्तमध्यमपादं तु द्व्यंशं तन्मुखभद्रकम् ।
षडाननतलोपेतं सप्रच्छन्नमजाङ्कणम् ॥५७॥
एकानेकतलोपेतं प्रासादवदलङ्कृतम् ।
द्वारादि पूर्ववन्मेरुकान्तं नामोग्रजीविनाम् ॥५८॥
मौलिभद्रम्
व्यासे पङ्यर्कभागे तु पार्श्वयोः पृष्ठतस्तु वा ।
वारमेकांशतः कुर्याद् द्व्यंशं गेहविशालकम् ॥५९॥
प्रमुखे वारमेकांशं द्व्यंशं तन्मध्यमाङ्गणम् ।
परितो वारमेकांशं सप्रच्छन्नमथापि वा ॥६०॥
तारद्व्यंशाधिकायामं चतुराननमण्डितम् ।
प्रमुखे तु चतुर्द्व्यंशं निर्गतद्वारभद्रकम् ॥६१॥
पार्श्वयोर्वापरे मुख्यवासं स्याद् द्विललाटकम् ।
मौलिभद्रमिदं नाम्ना शेषं पूर्ववदाचरेत् ॥६२॥
त्रिशालकप्रमाणम्
त्रिपञ्चषोडशारत्नितारा द्वौ द्वौ प्रवर्धयेत् ।
आचतुर्विंशतेर्व्यासः पञ्चधोक्तस्त्रिशालके ॥६३॥
चतुःशालाविधानम्
चतुःशालाप्रमाणभेदानि
नवपङ्क्तिकरादेवं द्विद्विहस्तविवर्धनात् ।
आपञ्चोत्तरषष्ट्यन्तं षट्षष्ट्यन्तं तु विस्तृतम् ॥६४॥
चतुःशालाविशालाः स्युर्नवविम्शतिसंख्यया ।
आद्यद्विसप्तमानं तु संवृताङ्गणकान्वितम् ॥६५॥
विवृताङ्गणकं शेषं कुर्याद् यत्र यथोचितम् ।
आद्यं तु सर्वतोभद्रं द्वितीयं वर्धमानकम् ॥६६॥
तृतीयं स्वस्तिकं चैव नन्द्यावर्तं चतुर्थकम् ।
पञ्चमं रुचकं विद्याच्छालानामभिधानकम् ॥६७॥
चतुःशालादैर्घ्यगणनम्
तत्तदात्तविशालेन बीजं स्याच्चतुरस्त्रकम् ।
आत्तव्यासाद् द्विहस्तेनाधिक्यजात्यायतं मतम् ॥६८॥
चतुर्हस्ताधिकं छन्दं विकल्पं षट्कराधिकम् ।
आभासमष्टहस्तेनाधिक्यं दैर्घ्यमिति स्मृतम् ॥६९॥
अथ वैशेषिकायाममात्तांशेन विधीयते ।
आत्तव्यासांशके जातिर्द्विभागेनाधिकायतम् ॥७०॥
चतुरंशाधिकं बीजाद् दीर्घं छन्दमिति स्मृतम् ।
षडंशदीर्घं विपुलाद् विकल्पमिति कथ्यते ॥७१॥
अष्टभागाधिकं व्यासादाभासं स्यात्तदायतम् ।
षडंशेन विशाले तु नेष्टमाभासदैर्घ्यकम् ॥७२॥
प्रथमसर्वतोभद्रम्
सर्वतोभद्रविन्यासं संक्षेपाद् वक्ष्यतेऽधुना ।
वासव्यासेऽष्टभागे तु द्विभागं मध्यमाङ्गणम् ॥७३॥
तदर्धं परितो मार्गं द्विभागं गेहविस्तृतम् ।
चतुष्कर्णे सभास्थानं सभामध्ये तु वारकम् ॥७४॥
पूर्वापरगृहे वाऽपि स्वाम्यावासं प्रशस्यते ।
सर्वतः कुड्यसंयुक्तं कुल्याभद्वारसंयुतम् ॥७५॥
बहिर्जालककुड्यं स्यादन्तर्निर्वृत्तपादकम् ।
पक्षशालांशके द्वारं मुखं पूर्वेऽपरत्र वा ॥७६॥
जालकं च कवाटं च बाह्येऽबाह्ये तथैव च ।
क्रकरीव्म्शशालाग्रमष्टास्यं भद्रसंयुतम् ॥७७॥
चतुर्दिग्भद्रसंयुक्तमेकैकार्धसभामुखम् ।
अन्तर्भद्रसभा कर्णे शङ्खसङ्गलुपान्वितम् ॥७८॥
मुखपट्टिकयोपेतमर्धकोटिसमन्वितम् ।
परितो दण्डिकावारं शिखरे नीव्रपट्टिका ॥७९॥
प्रस्तरं नासिकायुक्तमन्तरप्रस्तरान्वितम् ।
समकायं समद्वारं समवंशं तु कारयेत् ॥८०॥
विपरीतमनर्थाय भवेदेव न संशयः ।
मुक्तमुक्ततलं तत्र मण्डपक्रिययान्वितम् ॥८१॥
एकानेकतलोपेतं प्रासादवदलंकृतम् ।
देवद्विजनृपाणां च वासयोग्यं सनातनम् ॥८२॥
सर्वासामपि शालानामेतत् सामान्यमीरितम् ।
हस्तच्छेदप्रवृद्ध्या वा हान्या पूर्णं यथा कुरु ॥८३॥
क्रकरीकर्णवक्त्रान्ता शालावासचतुष्टया ।
अष्टास्योर्ध्वतलग्रीवा सस्थुपिसमवंशका ॥८४॥
भद्रोर्ध्वमुखकूटं स्यादन्तर्द्वारं बहिर्मुखम् ।
एअतत्तु सर्वतोभद्रं राज्ञामावासयोग्यकम् ॥८५॥
द्वितीयसर्वतोभद्र
वासव्यासेऽर्कभागे तु द्विभागं मध्यमाङ्गणम् ।
परितो मार्गमेकांशमन्तर्वारमथांशकम् ॥८६॥
शालाव्यासं द्विभागेन बाह्यवारं तदर्धकम् ।
एतत्तु सर्वतोभद्रमलङ्कारादि पूर्ववत् ॥८७॥
तृतीयसर्वतोभद्रम्
व्यासे द्विसप्तभागे तु द्विभाग मध्यमाङ्गणम् ।
परितो मार्गमेकांशं द्व्यंशं शालाविशालकम् ॥८८॥
तदर्धं बाह्यवारं तु पृथुवारं द्विभागतः ।
चतुष्टयानां शालानां शिखरं तु सभाकृति ॥८९॥
मध्ये नासिसमायुक्तं भद्रप्रभृति पूर्ववत् ।
सर्वासामपि शालानां त्यजेन्मध्यस्थपादकम् ॥९०॥
त्रितलादितलोपेतं खण्डहर्म्यादिमण्डितम् ।
एतत्तु सर्वतोभद्रं देवद्विजमहीभृताम् ॥९१॥
व्यासे द्विरष्टभागे तु चतुरंशमथाङ्गणम् ।
पूर्ववद् योजयेच्छेषं प्रहीणशिखराकृति ॥९२॥
नासिकातोरणाद्यङ्गैर्जालकैस्च समन्वितम् ।
त्रितलादितलोपेतं प्रासादवदलङ्कृतम् ॥९३॥
तले तले तु सोपानं मध्ये मध्ये तु मण्डपम् ।
विवृतं वाङ्गणं सर्वं युक्त्यानुक्तं प्रयोजयेत् ॥९४॥
एतत्तु सर्वतोभद्रं नृपानामधिवासकम् ।
पञ्चमसर्वतोभद्रम्
अष्टादशांशके व्यासे द्विभागं मध्यमाङ्गणम् ॥९५॥
परितो मार्गमेकांशमन्तर्वारमथांशकम्
शालाव्यासं द्विभागेन बाह्यवारं तदर्धकम् ॥९६॥
द्विभागं पृथुवारं स्याद् बाह्यवारमथांशकम् ।
शालाकारं सभाकारं यथा वा शिखरं तु तत्त ॥९७॥
त्रितलादितलोपेतं खण्डहर्म्यादिमण्डितम् ।
पूर्ववद् योजयेच्छेषं यथायुक्ति यथारुचि ॥९८॥
स्वामिचित्तवशान्न्यस्तस्थानविन्यास्संयुतम् ।
अन्यत् प्रासादवत् सर्वमलङ्कुर्याद् विचक्षणः ।
एतत्तु सर्वतोभद्रं नृपेशभवनं स्मृतम् ॥९९॥
विमानादिलक्षणम्
शालाजातिस्तच्छिरोयुग्विमानं
मुण्डाकारं शीर्षकं हर्म्यमेतत् ।
नानाकाराङ्गन्वितानेकभूमा
मालाबद्धा स्यात्तु सा मालिकाख्या ॥१००॥
व्यासे षड्वस्वंशकेऽष्टाभिरंशा-
र्कैर्मन्वंशैर्दैर्घ्यकं तद्वदंशे ।
एकद्व्यंशं मुख्यवासस्य वारं
दैर्घ्याष्टांशैर्वारमेकञ्च सार्धम् ॥१०१॥
प्रथमवर्धमानम्
वर्धमानस्य विन्यासं वक्ष्ये संक्षेपतः क्रमात् ॥१०२॥
व्यासे षडंशके तत्र द्व्यंशं शालाविशालकम् ।
द्विभागमङ्गणं बाह्ये सर्वतः कुड्यसंयुतम् ॥१०३॥
प्रमुखे मुख्यवासस्य भागं चङ्क्रमणं भवेत् ।
मध्यभित्तिसमायुक्तं कुल्याभद्वारसंयुतम् ॥१०४॥
अपरे दीर्घशाला स्याद् द्विनेत्रोत्तुङ्गसंयुता ।
ईषन्निम्नोन्नता प्राचीशाला दीर्घाननान्विता ॥१०५॥
पक्षके द्वे तु शाले तु वंशनिम्ने विवक्त्रके ।
एकैकदिशि निष्क्रान्तं द्विभागं मध्यवारणम् ॥१०६॥
ह्रस्वपादसमायुक्तं यथालङ्कारकं तु यत् ।
शङ्खावर्तं तु सोपानं कर्णे द्व्यंशेन योजयेत् ॥१०७॥
नासिकातोरणस्तम्भजालकादिविराजितम् ।
प्रासादवदलङ्कुर्यादनुक्तं चात्र पूर्ववत् ॥१०८॥
एकद्वित्रितलोपेतं नोदग्द्वारं महीभृताम् ।
द्वितीयवर्धमानम्
तदेवांशेन वारं तु विवृतस्तम्भभित्तिकम् ॥१०९॥
मुख्यगेहार्धदाक्षिण्ये मूलवंशान्ततोन्नतम् ।
यथेष्टदिशि भद्राङ्गं यथेष्टदिशि वासकम् ॥११०॥
दण्डिकावारसंयुक्तं प्रासादवदलङ्कृतम् ।
द्वारतोरणनासिभिस्तथा वेदिकजालकैः ॥१११॥
यथारुचि यथाशोभं तथा कुर्याद् विचक्षणः ।
एतत्तु वर्धमानं स्याच्चतुर्णामपि शंसितम् ॥११२॥
तृतीयवर्धमानम्
व्यासे दशांशके तत्र द्विभागमङ्गणं भवेत् ।
तद्वहिर्वारमेकांशं शालाव्यासं द्विभागिकम् ॥११३॥
तदर्धं तु बहिर्वारं द्वारं भद्रसमन्वितम् ।
कूटकोश्ठादिसर्वाङ्गं यथायुक्ति यथारुचि ॥११४॥
एतत्तु वर्धमानं स्याच्चतुर्णामपि शंसितम् ।
चतुर्थवर्धमानम्
अथवा तद्बहिर्वारं द्व्यंशं व्यासे दशांशके ॥११५॥
मुक्तमुक्ततलं तत्र मण्डपक्रिययान्वितम् ।
यथोचितमलङ्कारमुपर्युपरि तत्क्रमात् ॥११६॥
मुखभद्रं विना तत्र शेषं प्रागुक्तवन्नयेत् ।
समं त्रिपादमर्धं वा मुखमण्डपमिष्यते ॥११७॥
शेषं प्रागुक्तवन्नेयं विप्रादीनां प्रशंसितम् ।
त्रिचतुष्पञ्चभौमं स्याद् वर्धमानं मनोहरम् ॥११८॥
पञ्चवर्धमानम्
द्वादशांशे विशाले तु द्विभागं मध्यमाङ्गणम् ।
शालाव्यासं द्विभागं तद्वाह्यालिन्द्रं द्विभागतः ॥११९॥
तद्वहिर्वारमेकांश्म स्तम्भं कुड्यं यथोचितम् ।
पार्ह्स्वयोस्तद्वहिर्द्व्यंशैकांशविस्तारनिर्गमा ॥१२०॥
सवारमुखपट्ट्यङ्गनेत्रशालाविनिर्गता ।
पुरतः पार्श्वयोर्नेत्रशालेऽलिन्द्रात्तु पूर्ववत् ॥१२१॥
तयोर्मध्ये चतुर्द्व्यंशे द्वितले वाःस्थलान्वितम् ।
वारं स्यात् त्रितले तत्र तत्र शाला चतुःस्थले ॥१२२॥
अपरे कर्णकूटे द्वे कर्तव्ये पञ्चभूमिके ।
तयोर्मध्ये चतुर्द्व्यंशे षट्तलेऽर्धसभामुखम् ॥१२३॥
पार्श्वयोर्नेत्रकूटे द्वे मुख्यधाम्नस्तु षट्तले ।
पुरतः कर्णकूटे द्वे सोपानं स्यात्तदन्तरे ॥१२४॥
तत्पुरः कर्णकूटे द्वे कर्तव्ये तु चतुःस्थले ।
शाला पञ्चतले कार्या दैर्घ्ये तत्रेव पञ्जरे ॥१२५॥
द्विभागविपुलायामे कर्तव्ये पार्श्ययोस्तुते ।
अङ्गणं मण्डपं चोर्ध्वे तदूर्ध्वे स्थलपादयुक् ॥१२६॥
द्वारनेत्रसमायुक्तं वामे सोपानसंयुतम् ।
मुखचंक्रमणे गुह्यसोपानं स्यात् तले तले ॥१२७॥
पृष्ठेऽष्टद्व्यंशविस्तारनिर्गमं भद्रशोभितम् ।
तदंशे पार्श्वयोर्वक्त्रे वारं स्यात् त्रितलान्वितम् ॥१२८॥
द्व्यंशैकांशैकविस्तारनिर्गमा पञ्चभूमिके ।
सवारमुखपट्ट्यङ्गपृष्ठशालाविनिर्गता ॥१२९॥
पार्श्वयोर्द्विद्विभागेन कूटौ द्वौ तु चतुःस्थले ।
परितो मण्डपं तत्र वासव्याससमन्वितम् ॥१३०॥
द्वितलोपरि भद्राङ्गी शाला नेत्रसमन्विता ।
वास्तूनां तु चतुर्मध्ये चतुःसूत्रं प्रसारयेत् ।
तत्तत्सूत्रस्य वामे तु द्वारं विधिवदाचरेत् ॥१३१॥
मध्ये स्तम्भं तु संस्थाप्य पार्श्वे द्वारयुतं तु तत् ।
कर्तव्यं विधिना तज्ज्ञैः कम्पद्वारं तदुच्यते ॥१३२॥
प्रासादवदलङ्कुर्यात् स्तम्भाद्यङ्गं तले तले ।
सप्तभौमं नृपेशस्य मन्दिरं वर्धमानकम् ॥१३३॥
षष्ठवर्धमानम्
चतुर्दशांशके व्यासे द्विभागं मध्यमाङ्गणम् ।
परितो वारमेकांशं शालाव्यासं द्विभागिकम् ॥१३४॥
द्विभागं पृथुवारं स्याद् बाह्यवारं तदर्धकम् ।
परितो दण्डिकावारं मुष्टिबन्धादिशोभितम् ॥१३५॥
चूलहर्म्यादिकं कुड्यं महावारमुपर्यपि ।
कूटकोष्ठादिसर्वाङ्गं युक्त्या तत्र प्रयोजयेत् ॥१३६॥
एतत्तु वर्धमानं स्यान्नोदग्द्वारं महीभृताम् ।
सप्तमवर्धमानम्
व्यासे द्विरष्टभागे तु द्विभागं मध्यमाङ्गणम् ॥१३७॥
तावत् स्याद् गृहविस्तारं परितः कुड्यसंयुतम् ।
द्विभागं पृथुवारं स्यादन्तः स्तम्भं यथोचितम् ॥१३८॥
तद्बहिर्वारमेकांशं पृथुवारं द्विभागतः ।
स्तम्भं कुड्यं यथायुक्ति यथाशोभं तथाचरेत् ॥१३९॥
दण्डिकावारसंयुक्तं पार्श्वे पृष्ठे सभद्रकम् ।
पार्ह्स्वयोर्नेत्रशाले द्वे द्वे महावारसंयुते ॥१४०॥
द्विद्विभागविनिष्क्रान्ते स्यातां ते मुखपट्टिके ।
पृष्ठवासं यथाशोभं यथाचित्रं विभागतः ॥१४१॥
यथारुचि यथाशोभं कूटकोष्ठं तले तले ।
द्वितले द्वितले वाऽपि गोपानारूढमञ्चकम् ॥१४२॥
शङ्खावर्तं तु सोपानं प्रमुखे कर्णकूटयोः ।
तले तले तु सोपानं मुखे चङ्क्रमणो भवेत् ॥१४३॥
पादं पादाश्रयं पादं यथाशोभं यथाबलम् ।
किञ्चिदाश्रयमेवं वानाश्रयं विपदो पदम् ॥१४४॥
वर्षस्थलं चूलहर्म्यं कर्तव्यं स्यात्तले तले ।
गोपानं च लुपाश्चैव वक्त्रस्तम्भं च नाटकम् ॥१४५॥
मुष्टिबन्धं च निर्यूहवलभी च कचग्रहम् ।
यत्र यत्रोचितं तत्र योजयेत्तद् विचक्षणः ॥१४६॥
सभा वा मण्डपाकारं मालिकाकारमेव वा ।
एतासामपि शालानामङ्गणं कारयेद् बुधः ॥१४७॥
मण्डपस्य तु मध्ये तु स्तम्भं नैव प्रयोजयेत् ।
मन्डपं पुरतस्तस्य वासव्याससमं तु वा ॥१४८॥
त्रिअपदं वा तदर्धं वा युक्त्यान्तःस्तम्भसंयुतम् ।
एकद्वित्रितलोपेतं मालिकाबं यथा तथा ॥१४९॥
विवृतस्तम्भसंयुक्तं वासालिन्द्रान्वितं तु वा ।
अन्तःसोपानसंयुक्तमनुक्तं चात्र पूर्ववत् ॥१५०॥
त्रितलाद्यानवतलमेकादशतल तु वा ।
एतत्तु वर्धमानं स्याद् भूपेन्द्राणां विशेषतः ॥१५१॥
प्रथमनन्द्यावर्तम्
नन्द्यावर्तस्य विन्यासमलङ्कारमथोच्यते ।
व्यासे षडंशके तत्र द्विभागं मध्यमाङ्गणम् ॥१५२॥
शालाव्यासं द्विभागं स्यात्तन्मानं तु चतुष्टयम् ।
बाह्यवारं च कुड्यं च नन्द्यावर्तसमाकृति ॥१५३॥
दिश्यथैका न तद्द्वाशाला वाथ चतुष्टयम् ।
जालकं च कवाटं च बाह्येऽबाह्ये तथैव च ॥१५४॥
सर्वतः कुड्यसंयुक्तं मुख्यगेह्म कभित्तिभाक् ।
कुल्याभद्वारसंयुक्तं मुखचङ्क्रमणं भवेत् ॥१५५॥
अन्तर्विवृतपादं स्याद् बाह्ये कुड्यावृतं तु तत् ।
चतुर्दिक्षु विनिष्क्रान्तमर्धकुटसमाकृतिः ।
दण्डिकावारसंयुक्तं प्रासादवदलङ्कृतम् ॥१५६॥
चतुर्णामुदितं वैश्यशूद्रयोः प्राग्दिगाननम् ।
तदेवांशावृतालिन्द्रं बहिर्द्वारं प्रशोभितम् ॥१५७॥
अधिष्ठानाङ्घ्रिकादीनि पूर्ववद् योजयेद् बुधः ।
एकद्वित्रितलोपेतः मुण्डप्रासादसंज्ञिकम् ॥१५८॥
चतुर्णामपि वर्णानां योजयेत्तद्विचक्षणः ।
द्वितीयनन्द्यावर्तम्
व्यासे दशांशके तत्र द्विभागं मध्यमाङ्गणम् ॥१५९॥
परितो मार्गमेकांशं शालाव्यासं द्विभागतः ।
बाह्यतोऽलिन्द्रमेकांशं भद्रप्रभृति पूर्ववत् ॥१६०॥
यथायुक्ति यथाशोभं तथा हर्म्याङ्गमण्डितम् ।
तृतीयनन्द्यावर्तम्
द्विषडंशे विशाले तु द्विभागं मध्यमाङणम् ॥१६१॥
द्व्यंशं शालाविशालं स्यान्मुखगेहं कभित्तिभाक् ।
पृथुवारं द्विभागेन तद्वाह्ये तु समन्ततः ॥१६२॥
परितोऽलिन्द्रमेकांशं स्तम्भं कुड्यं यथेष्टतः ।
सालिन्द्रं चूलहर्म्याङ्गं यथायुक्ति यथारुचि ॥१६३॥
द्वारं च मुखभद्रं चाप्यधिष्ठानादि पूर्ववत् ।
चतुष्टयानां शालानां मध्यवंशोर्ध्वमस्तकम् ॥१६४॥
पुरे पुरे भवेत् कूटं पक्षशालाननान्वितम् ।
नन्द्यावर्ताकृतिश्चाथ यथायुक्तं चतुर्मुखम् ॥१६५॥
ऊर्ध्वोर्ध्वमङ्गणं कुर्यात् पक्षशालासमोपरि ।
सभा वा मण्डपं वाऽपि मालिका चाङ्गणक्रिया ॥१६६॥
त्रितलादितलोपेतमूहप्रत्यूहसंयुतम् ।
द्विजानाञ्च महीपानामेतत्प्रासादकं हि तत् ॥१६७॥
चतुर्थनन्द्यावर्तम्
चतुर्दशांशके व्यासे द्विभागं मध्यमाङ्गणम् ।
परितो मार्गमेकांशं द्विभाग गेहविस्तृतम् ॥१६८॥
पृथुवारं द्विभागं स्याद् युक्त्यान्तःस्तम्भसंयुतम् ।
तद्बहिर्वारमेकांशं कुड्यस्तम्भादिमण्डितम् ॥१६९॥
चतुर्दिशाननोपेतं नन्द्यावर्तसमाकृति ।
ऊर्ध्वशालास्तथाष्टास्याश्चतुरास्या व्यवस्थिताः ॥१७०॥
द्वादशास्यसमायुक्तमूर्ध्वाधस्ताद् विशेषतः ।
चतुर्दिक्षु सभद्राङ्गद्वारशालाकशोभितम् ॥१७१॥
अनुक्तं हि यथा सर्वं पूर्ववत् कारयेद् बुधः ।
पञ्चमनन्द्यावर्तम्
व्यासे द्विरष्टभागे तु द्विभागं मध्यमाङ्गणम् ॥१७२॥
शालाव्यासं द्विभागेन पृथुवारं तु तत्समम् ।
तद् बहिर्वारमेकांशं तद्बहिर्वारमेकतः ॥१७३॥
सालिन्द्रं चूलहर्म्याङ्गं यथायुक्ति यथारुचि ।
तस्योपरि गता शाला चतुष्कशिरसा सह ॥१७४॥
त्रितलाद्यानवतलं भूपभूसुरयोग्यकम् ।
द्वाराणि भित्तयः सर्वे ह्युत्तराद्या ह्यनुक्रमात् ॥१७५॥
प्रासादवलङ्कुर्यान्नन्द्यावर्तं तु जालकम् ।
यथायुक्ति यथाशोभं तथा कुर्याद् विचक्षणः ॥१७६॥
ऊहप्रत्यूहसर्वाङ्गैर्गेहालङ्कारमिष्यते ।
स्वस्तिकम्
व्यासे षडंशके तत्र स्वस्तिके द्व्यंशमङ्गणम् ॥१७७॥
तावच्छालाविशालं स्यात् कुल्याभद्वारसंयुतम् ।
पृष्ठे तु दीर्घकोष्ठं स्यात् पुरतः कोष्ठकं तथा ॥१७८॥
पक्षके कर्करीशाला मुखपट्टिकयान्विता ।
विना पट्टिकया पृष्ठे कोष्ठकं पृष्ठसंयुतम् ॥१७९॥
दण्डिकावारसंयुक्तं षण्नेत्रं भद्रसंयुतम् ।
अन्यत् प्रासादवत् सर्वमलङ्कुर्याद् विचक्षणः ॥१८०॥
प्राङ्मुखं स्वस्तिकं वैश्यशूद्रयोः सम्मतं बुधैः ।
स्वस्तिकान्तरम्
तदेवांशावृतालिन्द्रं खण्डहर्म्याभिमण्डितम् ॥१८१॥
पूर्ववद् भद्रसंयुक्तमलङ्कारादि पूर्ववत् ।
द्विःषडंशेऽथ मन्वंशे षोडशांशे यथेष्टतः ॥१८२॥
अङ्गणं च बहिर्वारं पृथुवारमलिन्द्रकम् ।
शालाव्यासं द्विभागेन सर्वतः परिकल्पयेत् ॥१८३॥
द्वारं च स्तम्भकुड्यं च भद्रं युक्त्या प्रयोजयेत् ।
यथायुक्ति यथाशोभं तथा हर्म्याङ्गसंयुतम् ॥१८४॥
शालाकारं सभाकारं हर्म्याङ्गं वाऽथ शीर्षकम् ।
एतत् स्वस्तिकमित्युक्तमनुक्तं चात्र पूर्ववत् ॥१८५॥
रुचकम्
निर्विष्टाः कोटिसंयुक्ताः कर्णे सोपानसंयुताः ।
रुचकाख्या विचित्राङ्गा नोदग्द्वाराः प्रकीर्तिताः ॥१८६॥
पाषाण्डिनां द्विजादीनां सुराणां वासयोग्यकाः ।
चतुर्णामुदितं राज्ञां सर्वमुर्वीदिवौकसाम् ।
वैश्यानामुदितं सर्वं शूद्राणां सम्मतं बुधैः ॥१८७॥
चतुःशालसामान्यविधिः
उक्तव्यासेनान्वित दीर्घहीना
वेदास्त्राभास्ताः सुराणां द्विजानाम् ।
दानादीनां सर्वपाषण्डिकानां
चतुःशालाः सम्मताः सद्भिरेव ॥१८८॥
एतद्वदन्ति मुनयो विपुले नवांशे
वस्वंशके मुनिपदे रसभागिके तु ।
द्व्यंशं गृहस्य विपुलं त्वथ पञ्चभागे
शालाविशालमिह भागमिति क्रमेण ॥१८९॥
सप्तशालादि
अष्टाष्टहस्तविसृतं द्विगुणायुतं च
द्विद्वारि पङ्क्तिवदनं द्वयमङ्गणं च ।
षट्सन्धिकं भवनवत् परिमण्डनीयं
तत् सप्तवासमवनीसुरमन्दिरं स्यात् ॥१९०॥
व्यासे पञ्चांशे नवांशायतं स्यात्
षड्भागे रुद्रांशकैः सप्तभागे ।
द्विःषड्भागैरष्टभागे नवांशे ।
द्विःसप्तांशैः षोडशांशैस्तु दैर्घ्यम् ॥१९१॥
एवं पञ्चैवायतं सप्तशाले पूर्वोक्तव्यासांशके पङ्क्तिशाले ।
दैर्घ्यं सैकार्कैर्विकारैः ससप्तधर्मांशैर्विंशत्त्रयोविंशदंशैः ॥१९२॥
राज्ञामुदीरितमशीतिकरैर्विशाले
दैर्घ्यं तु तत्त्रिगुणमर्कललाटयुक्तम् ।
त्रिद्वारि चाङ्गनगुनान्वितमष्टसन्धि
द्विःपञ्चशालमथ हर्म्यमिव प्रयोज्यम् ॥१९३॥
वासत्र्यंशं सार्धभागं ह्यलिन्द्रं
त्र्यंशैकांशं वा तदर्धं प्रवेशम् ।
बाह्येऽबाह्ये नालनीप्रं तदर्धं
शालानां स्यादत्र सामान्यमेतत् ॥१९४॥
निरङ्गणं कर्णगतान्वितं बहुबहु-
प्रवेशं बहु चाननान्वितम् ।
अन्तर्बहिर्वक्त्रयुतं ह्यसीमकं वासं
न सामान्यगताङ्गनान्वितम् ॥१९५॥
हस्तस्तम्भतुलादिकान् नरगृहे युञ्ज्यादयुगं यथा
युग्मायुग्मकसंख्यया सुरगृहे युञ्जीत हस्तादिकम् ।
मध्यद्वारमनिन्दितं सुरमहीदेवक्षितीशालये
शेषाणामुपमध्यमेव विहितं तत्सम्पदामास्पदम् ॥१९६॥
गर्भस्थानम्
गर्भं कुर्यान्नेत्रके भित्तिभागे
पादाधाराच्छ्वभ्रकाधः क्रमेण ।
मध्यस्य स्याद् वामभागे गृहे वा
शालायां स्यान्मुख्यधामन्यवश्यम् ॥१९७॥
भित्तिव्यासेऽष्टांशके चातुरंशं
बाह्येऽबाह्ये तत्त्रिभागं विहाय ।
मध्ये गर्भं योजनीयं सुराणां
विप्रादीनां मन्दिरे निन्दितं तत् ॥१९८॥
वंशद्वारम्
वंशद्वारं नैव विप्रादिकानां
वर्णानामावासके योजनीयम् ।
पाषण्ड्यादीनां मुनीनां गृहेतद्
वंशद्वारं योजनीयं न दूष्यम् ॥१९९॥
विहारशालम्
आद्यमथात्तविशालं त्रिगुनायामं ततः प्रवृद्धिः स्यात् ।
व्यासद्विगुणैस्त्रयोविंशति यावत्तावत्तु सैकदशसंख्या ॥२००॥
पुरतो भद्रसमेतं कर्णसभाकोष्ठनीडमण्डितकम् ।
पृष्ठे वारयुतं वा द्विललाटं गर्भकूटसमम् ॥२०१॥
एकद्वित्रितलाढ्यं पुरतोऽपरतो विचित्रनास्यङ्गम् ।
एतद् विहारशालं प्रासादवदेव करणीयम् ॥२०२॥
शालापादप्रमाणम्
सर्वासामपि वक्ष्ये पादायामं तु तस्य विष्कम्भम् ।
सार्धद्विहस्तमादि त्रिभिरथ षड्भिः कराग्रजर्द्ध्या तु ॥२०३॥
सार्धत्रिचतुर्हस्तावधिकं यावन्नवाङ्घ्रिकायामम् ।
व्यासं षडङ्गुलं स्यात् तस्मादर्धैकमात्रवृद्ध्या तु ॥२०४॥
दश वा चतुर्दशमात्रं यावन्नवधा विशालं स्यात् ।
पूर्वोदितमानं वा योज्यं युक्तिक्रमेण विद्वद्भिः ॥२०५॥
आयादिलक्षणम्
स्वव्यासकरं त्रिगुणं कृत्वा वसुभिर्हरत्तु तच्छेषम् ।
ध्वजधूमसिंहश्वावृषखरगजवायसाश्च योनिगणाः ॥२०६॥
एषु ध्वजमृगवृषभेभाः शुभयुक्ता न शोभनास्त्वन्ये ।
दैर्घ्यं वसुगुणितं यत्तत्त्रिर्नवभिर्हरेत्तु तच्छेषम् ॥२०७॥
अश्वयुजादिकमृक्षं तद्वशतस्त्वेव राशयः प्रोक्ताः ।
आयामे वसुनवर्भिर्गुणितं यत्त्वर्कपङ्क्तिभिर्ह्रासम् ॥२०८॥
नाहं नवगुणितं यत्त्रिशतिभिर्भाजनं तु तच्छेषम् ॥२०९॥
तिथिरपि सूर्यप्रमुखो वारः स्यात् तदृक्षसंयोगम् ।
अमृतवरसिद्धयोगैर्योज्यं नैवान्ययोगमेव स्यात् ॥२१०॥
यजमानजन्मनामर्क्षयुतं यद्वस्तु तादृशं तु शुभम् ।
एवं नृणामुदितममराणां चेच्छुभं यथा कर्तुम् ॥२११॥
खलूरी
सैकत्रिंशद्धस्तविस्तारकाद्यां
द्वाभ्यां द्वाभ्यां वर्धयेत्तत्कराभ्याम् ।
शालाबाह्ये सैकषष्ट्यन्तमाना-
भीष्टायामा सम्मता स्यात् खलूरी ॥२१२॥
बहिरबहिरभीष्टा कुड्यपादाङ्गशोभा
शिखरमपि लुपारूढान्वितं मण्डपं वा ।
अमरनरविमानाद्यावृता सा खलूरी ।
भवनतलविहीनैकद्वीभूमिप्रयुक्ता ॥२१३॥
प्रथमावरणे द्वितीयके वा परभागे सदनं तु योषिताम् ।
निऋता सूतिगृहं च वर्चसः पवनादीन्दुषु वाङ्गणागृहम् ॥२१४॥
यमदिशि भोजनशाला सोमे धनसञ्चयावासम् ।
अग्नौ धान्यागारं के पक्तिर्व्यञ्जनानि तत्रैव ॥२१५॥
आराधनगृहमीसेह कूपं तत्रोदितौ स्नानम् ।
यस्मिन्यस्मिन्नुदितान्यन्यानि हि तत्र सम्प्रयोज्यानि ॥२१६॥
द्वाराणि च कुड्यानि च युक्त्या तु स्वामिवाञ्छवशात् ।
अन्यच्छेषं सर्वं कुर्यादुक्तिक्रमेण दृढतरधीः ॥२१७॥
अपि च शिखिनि गोष्ठं नैऋतेऽजाविकानां
पवनदिशि निवासं माहिषं चैशकोणे ।
भवति तुरगशाला नागशाला च तस्मिन्
दिशि च दिशि च सर्वे वाहना द्वारवामे ॥२१८॥
सामान्यं स्यादेतदुक्तं चतुर्णां
वासे राज्ञां योजनीयं विशेषम् ।
त्रिप्राकारं च त्रिपङ्क्तिस्त्रिभोगं
शेषाणां चाप्युक्तनीत्या त्रयाणाम् ॥२१९॥
एकद्वित्रीण्यत्र सालानि नृणां
पञ्चत्रीन्येकादि देवालयेषु ।
यत्तत् प्रोक्तं धाममानेन पूर्वं
तत्रैवायोज्यं विधिज्ञैर्नराणाम् ॥२२०॥
इति मयमते वस्तुशास्त्रे शालाविधानं नाम षड्विंशोऽध्यायः