(चतुर्भूम्यादिबहुभूमिविधानम्)
पञ्चमानं चतुर्भौमं वक्ष्ये संक्षेपतः क्रमात् ।
त्रिचतुष्पङ्क्तिहस्तादिद्विहस्तविवर्धनात् ॥१॥
एकद्वाविंशदन्तं तु व्यासं तुङ्गं तु पूर्ववत् ।
सुभद्रकम्
विस्तारोत्सेधमानाभ्यां भागान् वक्ष्यामि हर्म्यके ॥२॥
त्रयोदशकरव्यासमष्टधा विभजेत् समम् ।
एकांशं कूटविस्तारं शालायामं द्विभागिकम् ॥३॥
भागेन पञ्जरव्यासमूर्ध्वे तु पुनरष्टधा ।
प्राग्वदेव सभाशालापञ्जराणामुपर्यपि ॥४॥
ऊर्ध्वे षड्भागिके भागमेकं कूटस्य विस्तृतम् ।
द्विभागं कोष्ठकायामं नीडं भागार्धमिष्यते ॥५॥
तदूर्ध्वे गुणाभागेंऽशं मधे दण्डेन निर्गमम् ।
उत्सेधं विभजेद् विद्वान् नवत्रिंशतिसंख्यया ॥६॥
सार्धद्व्यंशमधिष्ठानं पञ्चांशं पाददैर्घ्यकम् ।
तदर्धं प्रस्तरोत्सेधं सत्रिपादयुगांशकम् ॥७॥
ऊर्ध्वभूम्यङ्घ्रिकोत्सेधं सपादद्व्यंशमञ्चकम् ।
जङ्घा तद्द्विगुणा चोर्ध्वे द्व्यंशेन प्रस्तरोदयम् ॥८॥
पादाधिकचतुर्भागमुपरिस्तम्भतुङ्गकम् ।
स्यात् सत्रिभागपादेन प्रस्तरं वेदिकांशकम् ॥९॥
गलोच्चमश्विनीभागं सार्धवेदैस्तु मूर्धनि ।
शेषभाग शिखामानमाहोमं चतुरस्त्रकम् ॥१०॥
रविसंख्या भवेत् सौष्ठी कोष्ठं तावत्तु पञ्जरम् ।
शिखरे वेदनास्यः स्युश्चाल्पनास्या विभूषितम् ॥११॥
स्वस्तिकाकारसंयुक्तं नासिकाभिरलङ्कृतम् ।
प्राग्वदेव तलं चाधः स्तम्भालङ्कारतोरणम् ॥१२॥
सर्वालङ्कारसंयुक्तमेतद्धर्म्यं सुभद्रकम् ।
श्रीविशालम्
सर्वं प्राग्वत्कूटकोष्ठादियुक्त्या मध्ये मध्ये मस्तकं मण्डलाभम् ।
वृत्ताकारं स्यात् सभानां शिरस्तद्विस्तारार्धेनान्वितं गर्भगेहम् ॥१३॥
शेषं त्र्यंशेनावृतावासपिण्डिस्तत्तुल्यं तद्बाह्यतोऽन्धारहारम् ।
नानाधिष्ठानाङ्घ्रिवेद्यादियोगं नाम्नेदं स्याच्छ्रीविशालं सुह्रष्टम् ॥१४॥
भद्रकोष्ठम्
पञ्चदशकरव्यासं नवधा विभजेत् क्रमात् ॥१५॥
गर्भगेहं त्रिभागैकं गृहपिण्ड्यस्तदंशकम् ।
अंशेन परितोऽलिन्द्रं खण्डहर्म्यं तथांशकम् ॥१६॥
सभा शाला तथा नीडं भागेनैकेन विस्तरात् ।
विस्तारत्रिगुणायामा स्वव्याससमनिर्गमा ॥१७॥
शालामध्ये महानासी भागतत्या विनिर्गता ।
सभाकोष्ठकनीदानामन्तरेऽर्धेन हारकम् ॥१८॥
तदुपर्यष्टभागेन विभजेत् कूटमंशकम् ।
कोष्ठकस्य तु विस्तारं तदेव द्विगुणायतम् ॥१९॥
कूटशालान्तरे नीडमंशेन परिकल्पयेत् ।
तदूर्ध्वे रसभागे तु कूटमंशेन कोष्ठकम् ॥२०॥
विस्तारद्विगुणायाममन्तरेऽर्धेन पञ्जरम् ।
ऊर्ध्वभूमे चतुर्भागे मध्ये दण्डेन निर्गमम् ॥२१॥
अष्टास्त्रं कर्णकूटं स्यात् कोष्ठकं क्रकरीकृतम् ।
महाशिखरमष्टास्त्रमष्टनास्या विभूषितम् ॥२२॥
कूटकोष्ठकनीडानां संख्यायां पूर्ववत् ततिः ।
अस्याप्युत्सेधभागं च पूर्ववत् परिकल्पयेत् ॥२३॥
भद्रकोष्ठमिदं नाम्ना वेदभौमं दिवौकसाम् ।
जयावहम्
सप्तदशकरव्यासं दशभागैर्विभाजयेत् ॥२४॥
नालीगृहं चतुर्भागमंशेनान्धारिका भवेत्
अलिन्द्रमंशमंशेन परितः खण्डहर्म्यकम् ॥२५॥
कूट कोष्ठं च नीडं च भागेन परिकल्पयेत् ।
कोष्ठायामं द्विभागं स्याच्छेषं हारा सपञ्जरम् ॥२६॥
जलस्थलं विहायोर्ध्वे वसुभागैर्विभाजिते ।
भागेन कूटविस्तार कोष्ठकं द्विगुणायतम् ॥२७॥
हारान्तरे तथांशेन लम्बपञ्जरमीरितम् ।
तदुर्ध्वे रसभागे तु भागं सौष्ठिकविस्तृतम् ॥२८॥
द्विभागं कोष्ठकायामं हारायां क्षुद्रपञ्जरम् ।
तदूर्ध्वे तु त्रिभागेन मध्ये दण्डेन निर्गमम् ॥२९॥
चतुरस्त्रमधिष्ठानमष्टास्त्रं गलमस्तकम् ।
त्रिचतुष्कोष्ठकं तावत् सौष्ठिकं चाष्टपञ्जरम् ॥३०॥
लम्बपञ्जरमष्टौ हि क्षुद्रनीडं द्विरष्टकम् ।
गलनास्यष्टसंयुक्तं कोष्ठकं किञ्चिदुन्नतम् ॥३१॥
नानामसूरकस्तम्भवेदीजालकतोरणम् ।
नानालङ्कारसंयुक्तं नानाचित्रैर्विचित्रितम् ॥३२॥
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ।
स्वस्तिकाकारसंयुक्तं नासिकाभिरलङ्कृतम् ॥३३॥
पूर्ववत् तुङ्गभागं स्यादेतन्नाम्ना जयावहम् ।
नवपङ्क्तिकरव्यासे दशभागविभाजिते ॥३४॥
गर्भगेहं चतुर्भागं गृहपिण्डस्तदंशके ।
अन्धारमंशमंशेन परितः खण्डहर्म्यकम् ॥३५॥
कूटकोष्ठकनीडानां तारमंशेन योजयेत् ।
कोष्ठकं द्विगुणायामं हारा भागसमन्विता ॥३६॥
कपोतपञ्जरम्
पञ्चांशे सौष्ठिकव्यासे मध्ये द्व्यंशेन विस्तरम् ।
एकभागविनिष्क्रान्तयुग्मस्तम्भसमन्वितम् ॥३७॥
सोपपीठमधिष्ठानं समञ्चं सवितर्दिकम् ।
सकन्धरशिरोयुक्तं सर्वालङ्कारसंयुतम् ॥३८॥
पादुकोत्तरयोर्मध्ये नवांशेनोपपीठकम् ।
मसूरकं द्विभागोच्चं द्विगुणं स्तम्भदैर्घ्यकम् ॥३९॥
सार्धांशं प्रस्तरोत्सेधमर्धांशं वेदिकोदयम् ।
उत्तरादिकपोतान्तं गलोदयमितीरितम् ॥४०॥
पञ्जराकृतिसंयुक्तं कपोत्तात्तु विनिर्गतम् ।
यथाशोभं यथायुक्ति तथा शक्तिध्वजान्वितम् ॥४१॥
'कपोतपञ्जरं ह्येतत् प्रासादे सार्वदेशिके ।
हारायां वाऽथ शालायां मध्ये मध्ये तु योजयेत् ॥४२॥
पुनः भद्रकूटम्
कूटकोष्ठकनीडं चैवान्तरप्रस्तरान्वितम् ।
जलस्थल विहायोर्ध्वभूमावष्टांशसौष्ठिकम् ॥४३॥
द्विगुणं कोष्ठकायामं तयोर्मध्ये तु पञ्जरम् ।
तदुर्ध्वे रसभागे तु सौष्ठिकोष्ठं तु पूर्ववत् ॥४४॥
विजयस्य यथा प्रोक्तं शेषमुर्ध्वे तु योजयेत् ।
कूटकोष्ठादि सर्वाङ्गं पूर्ववत् संख्यया विदुः ॥४५॥
महानीडं द्विरष्टौ स्यान्नाम्नेदं भद्रकूटम् ।
मनोहरम्
तदेवान्यदलङ्कारं शालामध्ये सभद्रकम् ॥४६॥
वृत्तग्रीवाशिरोयुक्तमेतन्नाम्ना मनोहरम् ।
आवन्तिकम्
तदेवान्यदलङ्कारं वेदास्त्रं कन्धरं शिरः ॥४७॥
नानाम्सूरकस्तम्भवेदिकाद्यैरलङ्कृतम् ।
नाम्नावन्तिकमित्युक्तं शम्भोर्मनिरमुत्तमम् ॥४८॥
सुखावहम्
त्रिःसप्तहस्तविपुले चतुरंशनाली
धर्मांशकेंऽशमभितो गृहपिण्डिमानम् ।
अन्धारमंशमभितोंऽशकमङ्गहारं
कूटं च नीडमथ कोष्ठकमंशतारम् ॥४९॥
शालायतं द्विगुणमंशकतारहारं
वातायनैर्मकरतोरणकैर्विचित्रम् ।
त्यक्त्वा जलस्थलमुपर्यपि चाष्टभागे
कूटं च नीडमथ कोष्ठकमंशतत्या ॥५०॥
शालायतं द्विगुणमूर्ध्वतले षडंशे
सौष्ठ्यंशमंशविपुलं द्विगुणायतं स्यात् ।
कोष्ठं च नीडविपुलं हि तदर्धभागं
चोर्ध्वं युगांशिनयनांशकमध्यभद्रम् ॥५१॥
दण्डे निर्गममुपर्यपि भद्रनीडं
सार्धं द्विदण्डविपुलं गलनासिकं च ।
वृत्ताभकन्धरवितर्दिकमस्तकं स्या-
दष्टार्धनासिकमदभ्रमथाल्पमष्टौ ॥५२॥
कूटं च नीडमथ कोष्ठकमुन्नतंस्या-
दादौ तले तदपि मध्यममञ्चयुक्तम् ।
शालोन्नतं ह्युपरि चोन्नतमूर्ध्वकूटं
वृत्ताभमत्र वसुपट्टशिरस्तु मध्ये ॥५३॥
वेदास्त्रकूटशिखरं ह्यथ मूलभूमौ
नासाल्पकं ह्युपरि वेधविहीनबन्धम् ।
नानामसूरकसहाङ्घ्रिकशोभिताङ्गं
नाम्ना सुखावहमिदं सुरमन्दिरं स्यात् ॥५४॥
पञ्चभूमिविधानम् ।
सत्रिपादयुगलार्धपञ्चकैद्वर्यर्धसाङ्घ्रिशरसार्धनेत्रकैः ।
पञ्चभागिकसभागनेत्रकैस्त्र्यङ्घ्रिवेदनयनार्धवेदकैः ॥५५॥
त्र्यङ्घ्रिकांशकशिवाद्विपादगङ्गाश्विनीभिरुदये षडष्टके ।
कुट्टिमं चरणमञ्चपादकं प्रस्तरं तलिपमञ्चमङ्घ्रिकम् ॥५६॥
प्रस्तरं तलिमपञ्चवेदिकं कन्धरं शिखरकुम्भकं क्रमात् ।
पञ्चभौममुदितं विशालके नन्दपङ्क्तिभिरथेन्द्रियांशकैः ॥५७॥
षडाद्यैकादशभूम्यन्तविधानम्
उच्छ्रये तदधः षड्भिर्गुणांशैरङ्घ्रिकं तलम् ।
षड्भौममेवमुद्दिष्टं ताराभागं तथा भवेत् ॥५८॥
तदधः सार्धषड्भागैः सपादगुणभागकैः ।
स्तम्भं मसूरकं कुर्यात्तारे रुद्रार्कभागतः ॥५९॥
सप्तभौममिदं प्रोक्तं विमानं सार्वदेशिकम् ।
तदधो मुनिभिः सार्धगुणांशैः स्तम्भकुट्टिमम् ॥६०॥
धर्मरुद्रार्कभागैस्तु सत्रयोदशभागिकैः ।
अष्टभौमं वदन्यस्मिन्नेवं प्राज्ञा मुनीश्वराः ॥६१॥
तदधः सार्धसप्तांशैः सत्रिपादगुणांशकैः ।
स्तम्भं च तलकं कुर्यात्तारेंऽशं तत्र पूर्ववत् ॥६२॥
एवं नवतलं प्रोक्तं दशभौममथोच्यते ।
तदधोऽष्टयुगांशैस्तु पादं मसूरकं भवेत् ॥६३॥
तारे पूर्वोक्तभागैस्तु मनुभागैरथापि वा ।
तदधः सार्धवस्वंशै सपादयुगभागिकैः ॥६४॥
स्तम्भं मसूरकं कुर्यात्तारे तद्वच्च पक्षकैः ।
तथा द्विरष्टभागैस्तु सप्तदशांशकैस्तु वा ॥६५॥
एकादशतलं प्रोक्तं द्वादशं क्षममुच्यते ।
द्वादशतलविधानम्
तदधो नन्दनन्दार्धभागैः स्तम्भं मसूरकम् ॥६६॥
तारे द्विरष्टभागादि यावर्दकद्वयांशकम् ।
गृहपिण्ड्यलिन्द्रहारा गर्भागाराद्बहिः क्रमात् ॥६७॥
हर्म्यस्यावधिकं यावन्नीयते तावदंशकैः ।
द्वित्रिवेदेषु षड्भागैः प्रागुक्तांशैस्तु वा गृहम् ॥६८॥
एकार्धेनाथवलिन्द्र शेषं कुड्येषु योजयेत् ।
केचित् त्रिर्नवभिर्भागैर्वदन्ति द्वादशावनौ ॥६९॥
षट्कुड्यं पञ्चसालिन्द्रं बहिः कूटादिशोभितम् ।
कूटं कोष्ठं च नीडं च क्षुद्रशालेभतुण्डकम् ॥७०॥
यथाशोभमलङ्कारं तथा युञ्जीत बुद्धिमान् ।
युग्महस्तैरयुग्मैर्वा योजयेदेवमिच्छया ॥७१॥
युग्मांशे द्व्यंशकं वाऽपि कूटव्यासं द्विरायतम् ।
शालायाश्चतुरंशैर्वा युग्मे युग्मांशकैर्विदुः ॥७२॥
नानाभागैरलङ्कारैरन्यैरुक्तं मुनीश्वरैः ।
तथा वा तत्र युञ्जीयात्प्राज्ञः शिल्पिषु बुद्धिमान् ॥७३॥
खण्डहर्म्यम्
तलमेकं भवेद् ग्रासं खण्डहर्म्यं चतुःस्थले ।
द्वितलं पञ्चषट्सप्तभूमावेव विधीयते ॥७४॥
त्रितलं चाष्टभूमे तु नन्दपङ्क्तितले तथा ।
पञ्चभौमं चतुर्भौमं द्वादशैकादशे तले ॥७५॥
कूटकोष्ठादि
मूलतः कूटकोष्ठादीन् यः कर्तुं सम्यगीहते ।
तले तले विभागांश्च यथायुक्त्या प्रयोजयेत् ॥७६॥
कूटकोष्ठादिसर्वाङ्गमुपर्युपरि पूर्ववत् ।
कूटकोष्ठकनीडाद्यैर्भेदैराख्या यथोदिता ॥७७॥
पूर्वं तैर्भेअकैर्युक्तस्याख्या धाम्नस्तथा भवेत् ।
आद्वादशतलादेवं युञ्जीयाद् द्वितलादितः ॥७८॥
कर्णे मध्ये तर्योमध्ये कूटं कोष्ठं च पञ्जरम् ।
कर्तव्यं मानसूत्रात्तु तेषां निर्गममुच्यते ॥७९॥
स्वव्यासार्धं तथार्धार्धं दण्डं वा द्वित्रिदण्डकम् ।
अन्तर्विन्यासदेशं तु मानसूत्रं न योजयेत् ॥८०॥
ऋजुसूत्रप्रमाणान्तं तद्भङ्गे विपदां पदम् ।
तस्मात् कूटादिसर्वाङ्गं मानसूत्राद् बहिर्नयेत् ॥८१॥
चतुरस्त्रं तु वस्वस्त्रं षोडशास्त्रं तु वर्तुलम् ।
मस्तकं स्तूपिकोपेतं कूटं कर्णयुतं मतम् ॥८२॥
मध्यनासिसमोपेतमर्धकोटिसमन्वितम् ।
मुखपट्टिकयोपेतं शक्तिध्वजसमायुतम् ॥८३॥
अनेकस्थूपिकोपेतं कोष्ठकं मध्यमे भवेत् ।
हस्तिपृष्ठनिभं पृष्ठे शालाकारं मुखं मुखे ॥८४॥
पञ्जरं विहितं कूटकोष्ठयोरन्तरे बुधैः ।
पार्श्ववक्त्रं तदेवेष्टं हस्तितुण्डं समण्डितम् ॥८५॥
एष जातिक्रमः प्रोक्तः कर्णकोष्ठसमन्वितम् ।
मध्ये कूटं तयोर्मध्ये क्षुद्रकोष्ठादिशोभितम् ॥८६॥
छन्दमेतत् समुद्दिष्टं कूटं वा कोष्ठकं तु वा ।
अन्तरप्रस्तरोपेतनिम्नं वोन्नतमेव वा ॥८७॥
विकल्पमिति निर्दिष्टमाभासं तद्विमिश्रितम् ।
क्षुद्राल्पमध्यमोत्कृष्टं हर्म्याणामेवमीरितम् ॥८८॥
जात्यादिभेदकैर्युक्तं विमानं सम्पदां पदम् ।
विपरीते विनाशाय भवेदेवेति निश्चयः ॥८९॥
षडष्टास्त्रे च वृत्ते च द्व्यस्त्रवृत्ते च तत् क्रमत् ।
पञ्चाष्टनवपङ्क्त्यंशे व्यासैकांशेन बाह्यतः ॥९०॥
वर्तयेत्तु तदाकृत्या कोटिच्छेदार्थमीरितम् ।
चतुरस्त्रस्य नाहेन योजयेत्तु समं यथा ॥९१॥
तया वर्तनया तेषां मानं सम्पूर्णमिष्यते ।
मानं धाम्नस्तु सम्पूर्णं जगत्सम्पूर्णता भवेत् ॥९२॥
तस्मात् सर्वप्रयत्नेन कुर्यात् संलक्ष्य बुद्धिमान् ।
एवं संक्षेपतः प्रोक्तं प्रासादानां तु लक्षणम् ॥९३॥
एकादिद्विदशान्तं ह्युदयविपुलभागं करैस्तारमानं
चोत्सेधं कूटकोष्ठाद्यवयवकरणं नाहभेदं क्रमेण ।
प्रोक्तं संक्षिप्य सम्यङ् मुनिभिरवितथैर्ब्रह्मपूर्वैर्यथोक्तं
नानाभेदैर्विमानं प्रियतरमनघं तैतलानां मयेन ॥९४॥
इति मयमते वस्तुशास्त्रे चतुर्भूम्यादिबहुभूमि विधानो नाम द्वाविंशोऽध्यायः