(मानोपकरणम्)
सर्वेषामपि वास्तूनां मानेनैव विनिश्चयः ।
तस्मान्मानोपकरणं वक्ष्ये संक्षेपतः क्रमात् ॥१॥
परमाणुक्रमाद् वृद्धं मानाङ्गुलमिति स्मृतम् ।
परमाणुरिति प्रोक्तं योगिनां दृष्टिगोचरम् ॥२॥
परमाणुभिरष्टाभी रथरेणुरुदाह्रतः ।
रथरेणुश्च वालाग्रं लिक्षायूकायवास्तथा ॥३॥
क्रमशोऽष्टगुणैः प्रोक्तो यवाष्टगुणितोऽङ्गुलम् ।
अङ्गुलं तु भवेन्मात्रं वितस्तिर्द्वादशाङ्गुलम् ॥४॥
तद्द्वयं हस्तमुद्दिष्टं तत् किष्क्विति मतं वरैः ।
पञ्चविंशतिमात्रं त प्राजापत्यमिति स्मृतम् ॥५॥
षड्विंशतिर्धनुर्मुष्टिः सप्तविंशद्धनुर्ग्रहः ।
याने च शयने किष्कुः प्राजापत्यं विमानके ॥६॥
वास्तूनां तु धर्नुर्मुष्टिर्ग्रामादीनां धनुर्ग्रहः ।
सर्वेषामपि वास्तूनां किष्कुरे वाथवा मतः ॥७॥
रत्निश्चैवमरत्निश्च भुजो बाहुः करः स्मृतः ।
हस्ताश्चतुर्धनुर्दण्डो यष्टिश्चैव प्रकीर्तितः ॥८॥
दण्डेनाष्टगुणा रज्जुर्दण्डैर्ग्रामं च पत्तनम् ।
नगरं निगमं खेटं वेश्मादीन्यपि मानयेत् ॥९॥
गृहादीनां तु हस्तेन याने च शयने बुधैः ।
वितस्तिना विधातव्यं क्षुद्राणामङ्गुलेन तु ॥१०॥
यवेनाल्पीयसां मानमेवं मानक्रमं विदुः ।
मध्यमाङ्गुलिमध्यस्थपर्वमात्रायतं तु यत् ॥११॥
कर्तुर्मात्राङ्गुलं प्रोक्तं यागादीनां प्रशस्यते ।
देहलब्धाङ्गुलं यत्तदुपरिष्टाद् विधीयते ॥१२॥
एवमेवं विदित्वा तु स्थपतिर्मानयेद् दृढम् ।
शिल्पिलक्षणम्
भवन्ति शिल्पिनो लोके चतुर्धा स्वस्वकर्मभिः ॥१३॥
स्थपतिः सूत्रग्राही च वर्धकिस्तक्षकस्तथा ।
प्रसिद्धदेशसङ्कीर्णजातिजोऽभीष्टलक्षणः ॥१४॥
स्थप्तिः
स्थप्तिः स्थापनार्हः स्यात् सर्वशास्त्रविशारदः ।
न हीनाङ्गोऽतिरिक्ताङ्गो धार्मिकस्तु दयापरः ॥१५॥
अमात्सर्योऽनसूयश्चातन्द्रितस्त्वभिजातवान् ।
गणितज्ञः पुराणज्ञः सत्यवादी जितेन्द्रियः ॥१६॥
चित्रज्ञः सर्वदेशज्ञश्चान्नदश्चाप्यलुब्धकः ।
अरोगी चाप्रमादी च सप्तव्यसनवर्जितः ॥१७॥
सुनामा दृढबुद्धिश्च वास्त्विद्याब्धिपारगः ।
स्थपतेस्तस्य शिष्यो वा सूत्रग्राही सुतोऽथवा ॥१८॥
स्थपत्याज्ञानुसारी च सर्वकर्मविशारदः ।
सूत्रदण्डप्रपातज्ञो मानोन्मानप्रमाणवित् ॥१९॥
तक्षकः
शैलदार्विष्टकादीनां सूत्रग्राहिवशानुगः ।
तक्षणात् स्थूलसूक्ष्माणां तक्षकः स तु कीर्तितः ॥२०॥
वर्धकिः
मृत्कर्मज्ञो गुणी शक्तः सर्वकर्मस्वतन्त्रकः ।
तक्षितानां तक्षकानामुपर्युपरि युक्तितः ॥२१॥
वृद्धिकृद् वर्धकिः प्रोक्तः सूत्रग्राह्यनुगः सदा ।
कर्मिणो निपुणाः शुद्धा बलवन्तो दयापराः ॥२२॥
गुरुभक्ताः सदा ह्रष्टाः स्थपत्याज्ञानुगाः सदा ।
तेषामेव स्थपत्याख्यो विश्वकर्मेति संस्मृतः ॥२३॥
एभिर्विना हि सर्वेषां कर्म कर्तुं न शक्यते ।
तस्मादेतत् सदा पूज्यं स्थपत्यादिचतुष्टयम् ॥२४॥
एभिः स्थपत्यादिभिरत्र लोके विना ग्रहीतुं सुकृतं न शक्यम् ।
तैरेव सार्धं गुरुणाऽथ तस्माद् भजन्ति मोक्षं भवतस्तु मर्त्याः ॥२५॥
इति मयमते मानोपकरणं नाम पञ्चमोऽध्यायः