ग्रामविन्यासः
ग्रामादीनां मानं विन्यासं चापि वक्ष्यते विधिना ।
पुनर्मानोपकरण
दण्डानां पञ्चशतं क्रोशं तद्द्विगुणमर्धगव्यूतम् ॥१॥
गव्यूतं तद्द्विगुणं ह्याष्टसहस्त्रं तु योजनं विद्यात् ।
अष्टधनुश्चतुरस्त्रा काकणिका तच्चतुर्गुणं माषम् ॥२॥
माषचतुर्वर्तनकं तत्पञ्चगुणं हि वाटिका कथिता ।
वाटिकया युगगुणिता ग्रामकुटुम्बावनिः श्रेष्ठाः ॥३॥
एवं भुगतमानं दण्डैस्तेषां तु वक्ष्यते मानम् ।
ग्रामादिमानम्
ग्रामस्य शतसहस्त्रैर्दण्डेः पर्यन्तमानमिदमुक्तम् ॥४॥
विंशतिसहस्त्रदण्डात्तत्समवृद्ध्या तु पञ्चमानं स्यात् ।
ग्रामे विंशतिभागे कुटुम्बभूमिस्तदेकभागेन ॥५॥
दण्डैः पञ्चशतैर्यद्धीनं ग्रामस्य मानमिदम् ।
तस्मात् पञ्चशतर्द्ध्या यावद्विंशत्सहस्त्रदण्डान्तम् ॥६॥
प्रोक्तं चत्वारिंशद्भेदं ग्रामस्य मानमिदम् ।
द्विसहस्त्रदण्डमानं सार्धसहस्त्रं सहस्त्रदण्डं च ॥७॥
नवशतमथ सप्तशतं पञ्चशतं त्रिशतमिति च विस्तारम् ।
नगरस्य सहस्त्रादिद्विसहस्त्रान्तं च दण्डमानं स्यात् ॥८॥
नगरस्याष्टसहस्त्रैर्दण्डेः पर्यन्तमानमिदम् ।
द्विद्विसहस्त्रक्षयतो द्विसहस्त्रान्तं चतुर्विधं मानम् ॥९॥
ग्रामः खेटः खर्वटमथ दुर्गं नगरमिति च पञ्चविधम् ।
द्ण्डैस्तेषां मानं वक्ष्येऽहं त्रित्रिभेदाभिन्नानाम् ॥१०॥
चतुराधिकषष्टिदण्डो ग्रामः स्याद्धीनहीनमिति कथितः ।
ग्रामस्य मध्यमस्य द्विगुणं त्रिगुणं तथोत्तमं प्रोक्तम् ॥११॥
षट्पञ्चाशद्दिशतं हीनं खेटं सविंशति त्रिशतम् ।
मध्यममुत्तममेवं सचतुरशीति त्रिशतदण्डम् ॥१२॥
अष्टौ चत्वारिंशच्चतुःसह्तं द्वादशं च पञ्चशतम् ।
षट्सप्ततिपञ्चशतं हीनं मधोत्तमं च खर्वटकम् ॥१३॥
चत्वारिंशत्षट्शतमधमं दुर्गं चतुःसप्तशतदण्डम् ।
मध्यममुत्तमदुर्गं सप्तशतं षष्टिरष्टौ हि ॥१४॥
द्वात्रिंसदष्टशतकं नगरं षण्णवत्यष्टशतदण्डम् ।
षष्टिर्नवशतमधमं मध्यममुत्कृष्टमिति यथासंख्यम् ॥१५॥
षोडशदण्डविवृद्ध्या प्रत्येकं नवविधं भवति ।
द्विगुणं त्रिपादमर्धं पादं तेषां मुखायतं विपुलात् ॥१६॥
व्यासषडष्टांशैकं चतुरस्त्रं वा यथेष्टं स्यात् ।
तस्मिन् विपुलायामे दण्डैरोजैः प्रमाणमात्तव्यम् ॥१७॥
शेषं वाटधरार्थं ग्रामादिषु सर्ववस्तुषु च ।
आयादि
आयादिसम्पदर्थं वृद्धिं हानिं च यष्टिभिः कुर्यात् ॥१८॥
आयव्ययर्क्षयोन्यायुभिरथ तिथिभिश्च वारैश्च ।
यजमानवस्तुनामजन्मर्क्षेणाविरोधिकं यत्तु ॥१९॥
तन्मानेन समेत गृह्णीयात् सर्वसम्पत्यै ।
व्यासायामसमूहे वसुनिधिगुणिते दिनेशधर्मह्रते ॥२०॥
आयव्ययमवशिष्टं रामघ्नेऽष्टापह्रच्छेषम् ।
ध्वजधूमसिंहश्वावृषखरगजकाकाश्च योनिगणाः ॥२१॥
अष्टौ योनय उदिता ध्वजरिवृषहस्तिनः शुभदाः ।
पुनरपिवसुभिर्गुणिते त्रिनवाहत्या फलं वयः शिष्टम् ॥२२॥
नक्षत्रं परिणाहे त्रिंशद्व्याप्ते तिथिर्यमीशह्रते ।
वारं सूर्यमुखं स्याद् बुद्धैवं सर्ववस्तु करणीयम् ॥२३॥
आयाधिकमथ सुखदं व्ययमधिकं सर्वनाशं स्यात् ।
विपरीते तु विपत्त्यै तस्मात् सम्यक् परीक्ष्य कर्तव्यम् ॥२४॥
विप्रसंख्या
द्वादशसहस्त्रविप्रैर्यन्निष्ठितमुत्तमोत्तमं ग्रामम् ।
दशसाहस्त्रैर्मध्यममधमं स्यादष्टसाहस्त्रैः ॥२५॥
सप्तसहस्त्रैर्विप्रैर्मध्यमोत्तममित्यभीष्टं स्यात् ।
षट्साहस्त्रैर्मध्यममधमं तु पञ्चसाहस्त्रैः ॥२६॥
अधमोत्तमं तु चातुःसाहस्त्रैस्तु त्रिसाहस्त्रैः ।
अधमसमं द्विसहस्त्रैरधमाधममेव निर्दिष्टम् ॥२७॥
साहस्त्रैर्द्विजसङ्घैर्नीचोत्तममाहुराचार्याः ।
सप्तशतैरधममध्यममिह पञ्चशतैस्तु नीचाल्पम ॥२८॥
साष्टशतं तु द्विगुणं त्रिगुणं वेदाधिकं तथाशीतिः ।
अष्टाष्टकपञ्चाशद् द्वात्रिंशच्च त्रिरष्टौ हि ॥२९॥
द्वादशषोडशविप्रैर्दशभेदं क्षुद्रकं ग्रामम् ।
अन्यदशक्तानां चेद् दानं दशभूसुरान्तमेकादि ॥३०॥
एककुटुम्बिसमेतं कुटिकं स्योदेक भोगमिति कथितम् ।
तस्य सुखालयमिष्टं शेषाणां दण्डकादीनि ॥३१॥
युग्मायुग्मविभागैर्द्विविधं स्यात् सर्ववस्तुविन्यासम् ।
युग्मे सूत्रपथं स्यादसमे पदमध्यमे च वीथी स्यात् ॥३२॥
अन्योन्यसङ्करश्चेदशुभं स्यात् सर्वजन्तूनाम् ।
ग्रामनामानि
दण्डकमपरं स्वस्तिकमित ऊर्ध्वं प्रस्तरं चैव ॥३३॥
पश्चात् प्रकीर्णकं स्यान्नन्द्यावर्तं परागमथ पद्मम् ।
स्याच्छ्रीप्रतिष्ठितेनैवाष्टविधं ग्राममुद्दिष्टम् ॥३४॥
वीथिविधानम्
सर्वेषां ग्रामाणां मङ्गलवीथ्यावृता बहिस्त्वबहिः ।
ब्रह्मस्थानं ह्युदितं तस्मिन् देवालयं तु वा पीठम् ॥३५॥
एकद्वित्रिचतुर्भिः पञ्चभिरपि कामुकैश्च मार्गतीतः ।
प्राक्प्रत्यग्गतमार्गा ऋतुदण्डमहापथाख्यास्ते ॥३६॥
मध्यमयुक्ता वीथी ब्रह्माख्या सैव नाभिः स्यात् ।
द्वारसमेता वीथी राजाख्या च द्विपार्श्वतः क्षुद्र ॥३७॥
सर्वाः कुट्टिमकाख्या मङ्गलवीथी तथैव रथमार्गम् ।
तिर्यग्द्वारसमेता नाराचपथा इति ख्याता ।
उत्तरदिङ्मुखमार्गाः क्षुद्रार्गलवामनाख्यपथाः ॥३८॥
ग्रामावृता मङ्गलवीथिकाख्या पुरावृता या जनवीथिका स्यात् ।
तयोस्तु रथ्याभिहिताभिधा स्यात् पुरातनैरन्यतमेष्वथैवम् ॥३९॥
ग्रामभेदाः
द्विजकुलपरिपूर्ण वस्तु यन्मङ्गलाख्यं
नृपवणिगभियुक्तं वस्तु यत्तत् पुरं स्यात् ।
तदितरजनवासं ग्राममित्युच्यतेऽस्मिन्
मठमिति पठितं यत्तापसानां निवासम् ॥४०॥
प्रागुदगग्रं मार्गं ककनीकृतदण्डवत्तु तन्मध्ये ॥४१॥
द्वारचतुष्टययुक्तं दण्डकमिति भण्यते मुनिभिः ।
द्ण्डवदेका वीथी साप्येवं दण्डकं प्रोक्तम् ॥४२॥
नवपदयुक्ते ग्रामे परितो मार्गं पदस्य तस्य बहिः ।
तस्मात् प्रागुदगग्रात् प्राग्वीथी दक्षिणाग्रा सा ॥४३॥
तस्मात् प्राग्दक्षिणतो दक्षिणवीथी प्रतीचिमुखा ।
तस्मादवागपरतः पश्चिमवीथ्यग्रमुत्तरतः ॥४४॥
अपरोत्तरतस्तस्मादुत्तरवीथ्यां मुखं प्राच्याम् ।
एतत् स्वस्तिकमुदितं स्वस्त्याकृत्या चतुर्मार्गम् ॥४५॥
प्राक्प्रत्यग्गतमार्गैस्त्रिभिरुदगग्रैस्त्रिभिश्चतुर्भिरथो
पञ्चाभिरपि षट्सप्तभिरपि युक्तं प्रस्तरं पञ्च ॥४६॥
प्रागग्रैस्तु चतुर्भिर्द्वादशशिवप~द्क्तिनन्दवसुमार्गैः ।
उदगग्रैरभियुक्तं ह्येतत् प्रोक्तं प्रकीर्णकं पञ्च ॥४७॥
प्राक्प्रत्यग्गतमार्गैः पञ्चभिरुदगग्रैस्त्रयोदशभिः ।
त्रिःसप्तभिरथ तिथिभिः षोडशभिः सप्तदशभिरपि मार्गैः ॥४८॥
युक्तं नन्द्यावर्तं दिक्षु चतुर्द्वारसंयुक्तम् ।
नन्द्यावर्ताकृत्या बाह्ये द्वारैरबाह्यतो मार्गैः ॥४९॥
युक्तानेकैर्युक्तं नन्द्यावर्ताभमिदमुदितम् ।
आद्यैरष्टादशभिर्द्वाविंशत्यङ्गकैरुदग्वक्त्रैः ॥५०॥
षड्भिः प्राङ्मुखमार्गैर्युक्तं ह्येतत् परागमिति कथितम् ।
प्राक्प्रत्यग्गतमार्गैः सप्तभिरुदगग्रैस्त्रिवेदशरैः ॥५१॥
षट्सप्तभिरपि युकैर्विंशतिभिः पञ्चधा पद्मम् ।
अष्टभिरथ पूर्वाग्रैरुदगग्रैः साष्टविंशतिभिः ॥५२॥
आद्यैर्द्विः षोडशभिर्मार्गैरन्त्यैर्युतं यत्तु ।
तच्छ्रीप्रतिष्ठितं स्यादष्टविधं ग्राममुद्दीष्टम् ॥५३॥
अथवा श्रीवत्सादिकमुपनेतव्यं तु विन्यासम् ।
सर्वेषां ग्रामाणां नाभिं न प्रोतयेन्मतिमान् ॥५४॥
ग्रामे वाऽथ गृहे वा दण्डच्छेदोऽपि नैब कर्तव्यः ।
सकलाद्यासनकान्तं विन्यासार्थं पदं बुधैर्ग्राह्यम् ॥५५॥
क्षुद्रग्रामे मार्गाश्चत्वारश्चाष्ट मध्यमे ग्रामे ।
द्वादश षोडश मार्गा ग्रामेषूत्कृष्टकेषु मताः ॥५६॥
द्वाराणि
भल्लाटे च महेन्द्रे राक्षसपादे तु पुष्पदन्तपदे ।
द्वारायतनस्थानं जलमार्गाश्चापि चत्वारः ॥५७॥
वितथपदेऽथ जयन्ते सुग्रीवांशे च मुख्यदेवपदे ।
भृशपूषभृङ्गराजा दौवारिकशोषनागादितिजलदाः ॥५८॥
स्थानमुपद्वाराणामष्टौ देवा इमे कथिताः ।
त्रिकरं पञ्चकरं तत् सप्तकरं द्वारविस्तरम् ॥५९॥
तारद्विगुणोत्सेधं चाध्यर्ध्यं वाङ्घ्रिहीनं तत् ।
सर्वेषां ग्रामाणां परितः परिखा बहिश्च वप्राश्च ॥६०॥
ग्रामादयोऽपि नद्या दक्षिणतीरे तदन्वितायामाः ।
नवनववसुवसुभागे मध्ये ब्राह्मं ततः परं दैवम् ॥६१॥
मानुषमथ पैशाचं क्रमशः सङ्कल्प्य युक्त्या तु ।
दैविकमानुषभागे विप्राणां स्याद् गृहश्रेणी ॥६२॥
कर्मोपजीविनां स्यात्पैशाचे तत्र वा द्विजावासम् ।
तस्मिन् सुरगणभवनं क्रमशः प्रागादिषु स्थाप्यम् ॥६३॥
प्रासादस्थानम्
एतस्याभ्यन्तरे विप्रदेवतास्थापनं भवेत् ।
शिवहर्म्यं च ग्रामाणां समं बाह्येऽथवा भवेत् ॥६४॥
भृङ्गराजांशके वाऽपि पावके तु विनायकम् ।
ऐशांशे शिवहर्म्यं स्यात् सौम्ये वानान्तरेषु वा ॥६५॥
बाह्येऽस्य तु गृहश्रेणी मानेन विधिना कुरु ।
शैवानां परिवाराणां प्रोक्तं स्थानमिहोच्यते ॥६६॥
सूर्यपदे सौरं स्यादग्निपदे कालिकावेश्म ।
भृशभागे विष्णुगृहं याम्यायां षण्मुखस्थानम् ॥६७॥
भृशभागे मृगांशे तु नैऋत्यां केशवालयम् ।
सुग्रीवांशे गणाध्यक्षः पुष्पदन्तपदेऽपि वा ॥६८॥
आर्यकभवनं निऋते वरुणे विष्णोर्विमानं स्यात् ।
स्थानकमासनशयनं धाम्न्येतस्मिन् क्रमेण चोर्ध्वतलात् ॥६९॥
अथवा मूलतलं घनमुपरितले स्थानकं प्रोक्तम् ।
सुगतालयमथ सुगले भृङ्गनृपे चैव जिनधाम ॥७०॥
मदिरालयमथ वायौ मुख्ये कात्यायनीवासः ।
सोमे धनदगृहं वा मातृणामालयं तत्र ॥७१॥
ईशे शङ्करभवनं पर्जन्यांशे जयन्ते वा ।
सोमे धनदगृहं वा शोषपदे वा विधातव्यम् ॥७२॥
तत्र गजाननभवनं ह्रदितौ वा मातृकोष्ठं स्यात् ।
मध्ये विष्णोर्धिष्ण्यं तत्र सभामण्डपं प्रोक्तम् ॥७३॥
ब्रह्मस्थानैशाने वाग्नेय्यां वा सभास्थानम् ।
तदुदक्पश्चिमभागे हरिसदनं दक्षिणे परतः ॥७४॥
क्रूरसमेतं कर्म प्रत्ययमथ पञ्च मध्ये तु ।
युग्मायुग्मपदे च ब्रह्मस्थानेऽष्टनवभागे ॥७५॥
व्यपनीयाजं भागं प्रागादिषु दिक्षु च क्रमशः ।
नलिनकभवनं स्वस्तिकनन्द्यावर्तौ प्रलीनकं चैव ॥७६॥
यच्छ्रीप्रतिष्ठिताख्यं चतुर्मुखहर्म्यं तु पद्मसमम् ।
विष्णुच्छन्दविमानं त्रितलादिद्वादशतलान्तम् ॥७७॥
बहिरप्येवं सौधं ग्रामादिषु तत्र विज्ञेयम् ।
स्थितमासीनं शयनं यत्र यदिष्टं तु तत्र तत्स्थाप्यम् ॥७८॥
उत्कृष्टमध्यमाधमनीचादिकं क्रमेणैवम् ।
भवनं ग्रामेषूदितमिति नीचं चोत्तमे न स्यात् ॥७९॥
क्षुद्रे क्षुद्रविमानं यद्यत्रैवोचितं विधातव्यम् ।
त्रिचतुष्पञ्चतलं तद्धीने हीने च सामान्यम् ॥८०॥
ग्रामे वा नगरे वोत्कृष्टे देवालयं तु नीचं चेत् ।
नीचा भवन्ति पुरुषाः स्त्रियोऽपि दुःशीलतां यान्ति ॥८१॥
तस्मात् सममधिकं वा तत्सङ्ख्येव प्रयोक्तव्या ।
हरिहरसदनं वास्तुकमन्यत् सर्वं यथेष्टं स्यात् ॥८२॥
दौवारिकाः
चण्डेश्वरः कुमारो धनदः काली च पूतना चैव ।
कालीसुतश्च खड्गी चैते दौवारिकाः प्रोक्ताः ॥८३॥
प्राक्प्रत्यङ्मुखमैशं ग्रामादिषु तत्पराङ्मुखं शुभदम् ।
विष्णुगृहं सर्वमुखं ग्रामस्यान्तर्मुखं शुभदम् ॥८४॥
शेषं पूर्वाभिमुखं मातृणामुत्तराभिमुखम् ।
प्रत्यग्द्वारं सौरं गेहारम्भात् पुरामरावासम् ॥८५॥
वर्ज्यस्थानानि
ह्रदये वंशस्थाने शूले सूत्रे च सन्धौ च ।
कर्णसिरायां षट्के नोक्तान्यमरालयादीनि ॥८६॥
श्रेणिस्थानम्
गोशाला दक्षिणतश्चोत्तरदेशे तु पुष्पवाटी स्यात् ।
पूर्वद्वारोपान्ते पश्चिमतस्तासावासम् ॥८७॥
सर्वत्रैव जलाशयमिष्टं वापी च कूपञ्च ।
वैश्यानां दक्षिणत परितः सदनं तु शूद्राणाम् ॥८८॥
प्राच्यां वाऽप्युत्तरतो गेहं कुर्यात् कुलालानाम् ।
तत्रैव नापितानामन्यत्कर्मोपयुक्तानाम् ॥८९॥
मत्स्योपजीविनां स्याद्वासं वायव्यदेशे तु ।
पश्चिमदेशे मांसैरुपवृत्तीनां निवासः स्यात् ॥९०॥
तैल्पजीविनां चैवोत्तरदेशे गृहश्रेणिः ।
गृहलक्षणम्
धनुभिस्त्रिपञ्चसप्तभिरथ नवभिर्गृहावधिः प्रोक्तः ॥९१॥
दण्डाभ्यामथ तस्मादायामं वर्धयेत् क्रमशः ।
व्यासद्विगुणावधिकं यावद् दैर्घ्यं गृहीतव्यम् ॥९२॥
तत्रैव हस्तमानैर्गेहं कुर्याद् यथाविधिना ।
रुचकः स्वस्तिकमथवा नन्द्यावर्तञ्च सर्वतोभद्रम् ॥९३॥
स्याद् वर्धमानमेषामाकृत्या तच्चतुर्गृहं प्रोक्तम् ।
दण्डकशालालाङ्गलमथवा शूर्पं यथेष्टं स्यात् ॥९४॥
ग्रामात् किञ्चिद्दूरे पावकदेशेऽथवा वायौ ।
वासः स्यात्स्थपतीनां शेषाणां तत्र कर्तव्यम् ॥९५॥
तस्मात् किञ्चिद्दूरे रजकादीनां निवासः स्यात् ।
चण्डालकुटीराणि पूर्वायां क्रोशमात्रे तु ॥९६॥
चण्डालयोषितस्तास्ताम्रायःसीसभूषणाः सर्वाः ।
पूर्वाह्णे मलमोक्षक्रियोचिता ग्राममावेश्य ॥९७॥
प्रागुत्तरदिशिदण्डैः पञ्चशतैः स्याच्छवावासम् ।
शेषाणामपि तत्तद्दूरे देशे श्मशानं स्यात् ॥९८॥
विन्यासदोषाः
चण्डालचर्मकारश्मशानतोयाशयापयानञ्च ।
देवगृहविश्वकोष्ठग्रामावृतदेशमार्गपरिवृत्तिः ॥९९॥
व्यसनं ग्रामविनाशो नृपभङ्गो भवति मरणं च ।
देवालयान्तरापणशून्यत्वं शोध्यसञ्चयं चापि ॥१००॥
मार्गेऽशुद्धक्षेपणमीदृग् ग्रामस्य शून्यतादायि ।
गर्भविन्यासः
ग्रामादीनां च सर्वेषां गर्भविन्यासमुच्यते ॥१०१॥
सगर्भं सर्वसम्पत्त्यै विगर्भं सर्वनाशनम् ।
तस्मात्सर्वप्रयत्नेन गर्भं सम्यग्विनिक्षिपेत् ॥१०२॥
मृत्कन्दधान्यसल्लोहधातुरत्नेन्द्रनीलाद्यैः ।
पणेन गर्भद्रव्याणि निर्दोषाण्येव संगृहेत् ॥१०३॥
सलिलापूरिते श्वभ्रे मृदादीनि न्यसेद् बुधः ।
धान्योपरि निधातव्यं ताम्रभाजनमभ्रमम् ॥१०४॥
ताम्रभाजनविस्तारं पञ्चधा परिकीर्तितम्
रत६निद्वादशपङ्कत्यष्टचतुरङ्गुलमानतः ॥१०५॥
उन्नतं तावदेवं स्याद्वृत्तं स्याच्चतुरस्त्रकम् ।
सपञ्चपञ्चकोष्ठं वा नवकोष्ठकमेव वा ॥१०६॥
उपपीठपदे देवास्तस्मिन् पात्रे तु सम्मताः ।
रजतेन वृषः सूर्ये वज्री हाटकनिर्मितः ॥१०७॥
यमे तु यमराजश्च शुल्बेनायसवारणः ।
हैमः सिंहस्तु रूप्येण वरुणे सजलाधिपः ॥१०८॥
वाजी श्वेतमयः सोमे राजतो द्विजराजकः ।
ईशे वैकृन्तमनले त्रपु सीसं तु नैऋते ॥१०९॥
स्वर्णं समीरणे जातिहिङ्गुल्यं तु जयन्तके ।
हरितालं भृशे भागे वितथे तु मनःशिला ॥११०॥
माक्षिकं भृङ्गराजे स्याद् राजावर्तं सुकन्धरे ।
गैरिकं शोषभागे तु गणमुख्येऽञ्जनं भवेत् ॥१११॥
अदितौ दरदं विद्यादेवमेव न्यसेत् क्रमात् ।
चतुष्पदे च लोकेशाः स्थाप्याश्चाभ्यन्तराननाः ॥११२॥
षड्भिः पञ्चचतुस्त्रिद्विमात्रे बिम्बोदयं भवेत् ।
तदर्धं वाहनोत्सेधं स्थानकासनमेव वा ॥११३॥
मुक्तापवत्से मरिचौ विद्रुमं सवितर्यथ ।
पुष्परागं च वैडूर्यं विवस्वति विनिक्षिपेत् ॥११४॥
वज्रमिन्द्रजये विद्यादिन्द्रनीलं तु मित्रके ।
रुद्रराजे महानीलं मरकतं तु महीधरे ॥११५॥
मध्यमे पद्मरागं तु विन्यसेद् गर्भभाजने ।
रत्नानि धातवश्चैव स्वस्वविस्तारभाजने ॥११६॥
तद्देवस्थानभावज्ञैरानीतानि निधापयेत् ।
हेमायस्ताम्ररूप्यैश्च स्वस्तिकानि चतुर्दिशि ॥११७॥
ब्रह्मस्थानाद् बहिष्ठानि पूर्वादौ स्थापयेत्क्रमात् ।
स्वर्णेन शालिं रूप्येण व्रीहिं चायसक्रोद्रवम् ॥११८॥
ब्रह्मस्थानाद् बहिष्ठानि पूर्वादौ स्थापयेत्क्रमात् ।
स्वर्णेन शालिं र्प्येण व्रीहिं चायसकोद्रवम् ॥११८॥
त्रपुकङ्कुं सीसमाषं तिलं वैकृन्तकल्पितम् ।
मुद्गं चायोमयं ताम्रं कुलत्थमिति लोहजान् ॥११९॥
भाजनाय बलिं दत्त्वा पश्चात् सर्वं निधापयेत् ।
अङ्गुलाधिकविस्तीर्णमायामं द्वादशाङ्गुलम् ॥१२०॥
पञ्चाङ्गुलेन वृद्धिः स्यादाद्वात्रिंशत्प्रमाणतः ।
खादिरं चेन्द्रकीलं स्यात्तस्याग्रं चित्रवृत्तकम् ॥१२१॥
भाजनोपरि तत्स्थाप्यं गर्भन्यासविचक्षणैः ।
स्थानीये द्रोणमुखे खार्वटे प्रतिनागरे ॥१२२॥
ग्रामे च निगमे खेटे पत्तने कोत्मकोलके ।
ब्रह्मण्यार्यार्कभागेऽपि विवस्वति यमे तथा ॥१२३॥
मित्रे च वरुणे चैव सोमे च पृथिवीधरे ।
द्वारदक्षिणदेशे वा ह्येतेषां गर्भ इष्यते ॥१२४॥
पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ।
विष्णुस्थाने श्रियः स्थाने स्कन्दस्थानेऽथवा पुनः ॥१२५॥
स्थापयेद् ग्रामरक्षार्थं सर्वकामाभिवृद्धये ।
गर्भमादौ विनिक्षिप्य बिम्बं तदुपरि न्यसेत् ॥१२६॥
शिलेष्टकचिते खाते पुरुषाञ्जलिमात्रके ।
अनुक्तानां च सर्वेषामजभागादिषु न्यसेत् ॥१२७॥
सुरक्षं तु यथागर्भं स्थपतिः स्थापयेत् स्थिरम ।
अत्रानुक्तं तु तत्सर्वं द्रष्टव्यं गर्भलक्षणे ॥१२८॥
एवं प्रोक्त भूमितिर्देवतानां
वर्णानाञ्चाप्यत्र जात्यन्तराणाम् ।
ग्रामादीनां मानविन्यासमार्गं
सालङ्कारं चारु संक्षिप्य तन्त्रात् ॥१२९॥
दद्यान्नृपः स्थपतिकादिचतुष्टयेभ्यो
मानादिकर्मनिपुणेभ्य इडाञ्च गाञ्च ।
नित्यं यथा जगति वित्तमनेकवस्तून्याचन्द्रतारमधिवासभुवं मुदा सः ॥१३०॥
इति मयमते वस्तुशास्त्रे ग्रामविन्यासो नाम नवमोऽध्यायः