संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ सप्तदशोऽध्यायः

मयमतम् - अथ सप्तदशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(सन्धिकर्मविधानम्)

पार्श्वगस्थितशयितद्रव्याणां सन्धिरुच्यते ।

एकस्मिन् वस्तुनि द्रव्यैर्बहुभिश्च निघट्टनात् ॥१॥

दुर्बलत्वाद् द्रुमाग्राणामबले बलवर्धनात् ।

सन्धिकर्म प्रशस्तं स्यात् सजातीयैर्वरद्रुमैः ॥२॥

सन्धिभेदाः

मल्ललीलं तथा ब्रह्मराजं वै वेणुपर्वकम् ।

पूकपर्वं देवसन्धिर्दण्डिका षड्‌विधाः स्मृता ॥३॥

सन्धिविधिः

चतुर्दिक्षु बहिं स्थित्वा निरीक्ष्य स्थपतिर्गृहम् ।

दक्षिणादक्षिणे दीर्घादीर्घाभ्यां सन्धयेत् क्रमात् ॥४॥

मध्ये च दक्षिणे चैव यः सन्धिं कर्तुमीहते ।

मध्येऽतिदीर्घं युञ्जीयाद् दीर्घमल्पं च पूर्ववत् ॥५॥

वामेऽवामे समद्रव्यं मध्ये दीर्घमथापि वा ।

मध्यद्रव्यं विना वामेऽवामे द्रव्यं समं तथा ॥६॥

एतत्सन्धिं बहिः कुर्यात् तथैवाभ्यन्तरे विदुः ।

स्थपतिर्ह्रदयस्थाने स्थित्या प्रेक्ष्य चतुर्दिशि ॥७॥

दीर्घमल्पं समद्रव्यं पूर्ववत् परिकल्पयेत् ।

आधाराधेयनीत्यैव द्रव्यसन्धानमूह्यताम् ॥८॥

मूले मूलं न युञ्जीयादग्रे चाग्रं तथैव च ।

मूलाग्रद्रव्ययोगेन सन्धिकर्म सुखप्रदम् ॥९॥

मूलं हि शयितञ्चाधश्चाग्रमूर्ध्वे तु योजयेत् ।

मल्ललीलादिसन्धयः

द्विद्रव्यमेकसन्धिः स्यान्मल्ललीलामिति स्मृतम् ॥१०॥

त्रिद्रव्यैस्तु द्विसन्धिः स्याद् ब्रह्मराजमितीरितम् ।

चतुर्भिः पच्चद्रव्यैस्त्रिचतुः सन्धयः क्रमात् ॥११॥

वेणुपर्वमिति प्रोक्तं तैतलानां नृणां गृहे ।

षड्‍भिस्तु सप्तभिर्द्रव्यैः सन्धयः पञ्च षट् क्रमात् ॥१२॥

पूकपर्वेति तत् प्रोक्तं धनधान्यकरं स्मृतम् ।

अष्टाभिर्नवभिर्द्रव्यैः सन्धयः सप्त वाऽष्टधा ॥१३॥

देवसन्धिरिति प्रोक्तः सर्ववासेषु योग्यतः ।

बहुसन्धिर्बहुद्रव्यैर्दीर्घमल्पं च पुर्ववत् ॥१४॥

दण्डिकेति समाख्याता धनधान्यसुखप्रदा ।

सर्वतोभद्रसन्धिः

दक्षिणापरभागे तु द्रव्यमूलं प्रशस्यते ॥१५॥

अग्रमग्रं तथैशान्ये तेषां बन्धनमुच्यते ।

आधारं प्रथमं प्राच्यां मूलाग्रच्छेदनान्वितम् ॥१६॥

दक्षिणोत्तरयोरग्रं तस्योपरि निधापयेत् ।

दक्षिणोत्तरयोर्मूलमुर्ध्वच्छेदनसंयुतम् ॥१७॥

पश्चिमस्थमधश्छेद्यं क्षेप्यमाधेययोगतः ।

एतत्तु सर्वतोभद्रमवागादि तथा विदुः ॥१८॥

नन्द्यावर्तसन्धिः

नन्द्यावर्तविधानेन नन्द्यावर्तं प्रकल्पयेत् ।

दक्षिणोत्तरगं दीर्घं दक्षिणे तु सकर्णकम् ॥१९॥

प्राक्प्रत्यग्गतमायामं पश्चिमे तु सकर्णकम् ।

दक्षिणोत्तरगं दीर्घमुत्तरे तु सकर्णकम् ॥२०॥

पूर्वपश्चिमगं दीर्घं पूर्वायां तु सकर्णकम् ।

आधाराधेयनीत्यैव पूर्वादीनि च विन्यसेत् ॥२१॥

नन्द्यावर्तमिदं तद्वदवागादीनि च क्रमात् ।

स्वस्तिबन्धसन्धिः

पक्षयोर्बहुभिर्द्रव्यैर्दीर्घं प्रागुदगग्रकम् ॥२२॥

सशिखैश्च बहुद्रव्यैर्द्वाभ्यां वा तिर्यगग्रकम् ।

स्वस्त्याकृतिसमायुक्तं स्वस्तिबन्धनमिष्यते ॥२३॥

वर्धमानसन्धिः

परितो बहुभिर्द्रव्यैर्युक्तं तद्वत्तदन्तरे ।

मध्येऽङ्कणसमायुक्तं बाह्ये युक्त्या सभद्रकम् ॥२४॥

पूर्वद्रव्य्म परद्रव्यं भद्रकं दक्षिणोत्तरम् ।

शालानां भित्तिमाश्रित्य युक्त्या साधु समाचरेत् ॥२५॥

एवं युञ्ज्यादिदं बन्धं वर्धमानमितीरितम् ।

अधोभूमिक्रियायुक्त्या स्यादूर्ध्वोर्ध्वतलं प्रति ॥२६॥

विपरीतं विपत्त्यै स्यादिति शास्त्रविनिश्चयः ।

दीर्घादीर्घेषु संयोगद्रव्यसन्धानतर्पणम् ॥२७॥

यथाबलं यथायोगंतथा योज्यं विचक्षणैः ।

एवं विधिविशिष्टं स्यात्स्मपत्त्यै द्रव्यबन्धनम् ॥२८॥

सन्धिभेदाः

मेषयुद्धं त्रिखण्डं च सौभद्रं चार्धपाणिकम् ।

महावृत्तं च पञ्चैते स्तम्बानां सन्धयः स्मृताः ॥२९॥

षट्‌शिखा झषदन्तं च सूकरघ्राणमेव च ।

सङ्कीर्णकीलं वज्राभं पञ्चैव शयितेष्वपि ॥३०॥

स्तम्भसन्धयः

स्वव्यासकर्णमध्यर्धद्विगुणं वा तदायतम् ।

त्र्यंशैकं मध्यमशिखं मेषयुद्धं प्रकीर्तितम् ॥३१॥

स्वस्त्याकारं त्रिखण्डं स्यात्सत्रिचूलि त्रिखण्डकम् ।

पार्श्वे चतुःशिखोपेतं सौभद्रमिति संज्ञितम् ॥३२॥

अर्धं छित्त्वा तु मूलेऽग्रे चान्योन्याभिनिवेशनात् ।

अर्धपाणिरिति प्रोक्तो गृहीतघनमानतः ॥३३॥

अर्धवृत्तशिखं मध्ये तन्महावृतमुच्यते ।

वृत्ताकृतिषु पादेषु प्रयुञ्जीत विचक्षणः ॥३४॥

स्तम्भानां स्तम्भदैर्घ्यार्धादधः सन्धानमाचरेत् ।

स्तम्भमध्योर्ध्वसन्धिश्चेद् विपदामास्पदं सदा ॥३५॥

कुम्भमण्ड्यादिसंयुक्तं सन्धानं सम्पदां पदम् ।

सालङ्कारे शिलास्तम्भे यथा योगं तथाचरेत् ॥३६॥

स्थितस्य पादपस्याङ्गप्रवृत्तिवशतो विदुः ।

ऊर्ध्वमूलमधश्चाग्रं सर्वसम्पद्विनाशनम् ॥३७॥

शयितसन्धयः

अर्धपाणिद्विललाटे लाङ्गलाकारषट्‍शिखा ।

घनमध्यस्थकीला या सा मता षट्‍शिखाह्वया ॥३८॥

स्वायामतिर्यग्बाहुस्थशिखं तु झषदन्तकम् ।

ऊर्ध्वाधस्ताद् यथायोग्यं यथाबलशिखान्वितम् ॥३९॥

सूकरघ्राणमित्युक्तं सूकरघ्राणसन्निभम् ।

यथाबलं यथायुक्ति नानाबलशिखान्वितम् ॥४०॥

नानाकीलैस्तु सङ्कीर्ण स्यात्तु सङ्कीर्णकीलकम् ।

वज्राकृतिशिखं नाम्ना वज्रसन्निभमेव तत् ॥४१॥

एतस्मिन् पङ्‌क्तिसन्धाने सन्धिरेकाकृतिर्भवेत् ।

उपर्युपरि चैवं स्याद् विपरीते विपत्करम् ॥४२॥

अन्तर्मूलं बहिश्चाग्रं पार्श्वद्रव्येषु योजयेत् ।

अन्त्रग्रं बहिर्मूलं स्वामिनश्च विनाशनम् ॥४३॥

विद्धं कीलं च

शिखा दन्तं च शूलं च विद्धं पर्यायमीरितम् ।

शल्यं च शङ्कराणिश्च कीलं पर्यायमुच्यते ॥४४॥

अष्टसप्तकषड्शकेऽङ्‌घ्रिके भागतारमथ शूलकीलयोः ।

सन्धिदोषाः

कीलपार्श्वमथ पादमध्यमं योजयेत् सममुदग्रबुद्धिमान् ॥४५॥

स्तम्भान्तं दन्तान्तकं चेद्विनाशं

दन्तान्तं चेत् स्तम्भमध्यं तदेव ।

स्तम्भान्तं चेत् सन्धिमध्यं सरोगं

सन्धेर्मध्यं पादमध्यं क्षयं स्यात् ॥४६॥

दिग्विदिग्द्वारदेवांशं सर्वं त्यक्त्वा प्रयोजयेत् ।

अर्कार्किवरुणेन्दूनां स्थानं दिगिति कीर्तितम् ॥४७॥

अग्निराक्षसवाय्वीशस्थानं विदिगिति स्मृतम् ।

गृहक्षतश्च पुष्पाख्यो भल्लाटश्च महेन्द्रकः ॥४८॥

एतेषामंशकद्वारं तत्र सन्धिं न सन्धयेत् ।

शल्यञ्च दन्तं त्यक्त्वैव पूर्वोक्तानाञ्च सम्मतम् ॥४९॥

मध्यार्धमध्यमध्य्म च त्यक्त्वा युञ्जीत बुद्धिमान ।

द्रव्यमध्यस्थसूत्रस्य वामेऽवामे तु दन्तकम् ॥५०॥

द्रव्यविस्तारमध्यस्था शिखा शीघ्रविनाशिनी ।

अन्योन्यसन्धिविद्धं च शिखा कीलस्य वेधनम् ॥५१॥

धर्मार्थकामसौख्यानां विपत्तिं नित्यमादिशेत् ।

वामदक्षिणयोगेन प्रतिसन्धिं परित्यजेत् ॥५२॥

तारतीव्रान्तरस्थं यत् कल्प्यशल्यमिति स्मृतम् ।

पूर्ववद् विधिना सन्ध्यायाममध्ये तु योजयेत् ॥५३॥

अज्ञानात त्वरयानुक्तस्थाने वा योजयेद् यदि ।

सर्वेषामपि वर्णानां सर्वसम्पत्क्षयो भवेत् ॥५४॥

पुराणैर्न नवद्रव्यैर्न पुराणैर्नवैरपि ।

नवैर्नवानां द्रव्याणां योगो जीर्णैश्च जीर्णनाम् ॥५५॥

युक्त्यैव द्रव्यसन्धानं सम्पदामास्पदं सदा ।

विपरीते विनाशाय भवेदेवेति निश्चयः ॥५६॥

ऊर्ध्वद्रव्याणि सर्वाणि वाजनादीनि यान्यपि ।

सशिखान्यशिखान्येतान्युक्त्या योज्यानि पूर्ववत् ॥५७॥

पादोपरि भवेत् सन्धिरन्तरे नैव कारयेत् ।

ब्रह्मस्थलोर्ध्वगद्रव्यसन्धानं विपदां पदम् ॥५८॥

ब्रह्मस्थानस्थितः स्तम्भः स्वामिनश्च विनाशनम् ।

तुलादीन्युपरिद्रव्याणामत्र दोषो न विद्यते ॥५९॥

पुंस्त्रीनंपुसकमहीरुहसन्धिकार्ये

पुंसा च पुंविहितमेव तथैव पुंस्त्री ।

नैवोभयेन च नपुंसकसङ्गमः स्या-

ज्जात्यैकया शुभद उक्तविधिक्रमं वा ॥६०॥

एवं युक्त्या द्रव्यसन्धानयोगं प्रोक्तं नृणां तैतिलानां निवासे ।

युक्त्या युक्तं सम्पदामास्पदं तद्युक्त्यायुक्तं सर्वसम्पत्क्षयं स्यात् ॥६१॥

छिद्रं स्वल्पतरं विधेयमधुना दीर्घान्वितच्छेदनं

स्थूलं काष्ठशिलेभदन्तुमुदितं निम्नं हि पक्वेष्टकम् ।

पक्वं निर्गमनं सुधाभिरनिशं कुर्यात्तनुत्वं यथा

पूर्वं मानसमुन्नयेत्तदपरं शिल्प्युत्तमः शातधीः ॥६२॥

इति मयमते वस्तुशास्त्रे सन्धिकर्मविधानो नाम सप्तदशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP