(यानाधिकारः)
यानशयनभेदाः
अथ वक्ष्ये यानानां शयनानां लक्षणं क्रमशः ।
शिबिका च रथं यानं पर्यङ्कादीनि शयनानि ॥१॥
अथ शयने तज्जातान्यपि पीठाद्यासनानि ततः ।
शिबिकाभेदाः
पीठेति च शिखरेति मौण्डीति मया त्रिधा मता शिबिका ॥२॥
व्यासायामसमस्ता भेदाः सत्र्यंशशिखरिभित्तिवशात् ।
व्यासायामोत्सेधान्यधुना वक्ष्ये पृथक् पृथक् तासाम् ॥३॥
पीठा
व्यासं त्रिवितस्तिः स्यादायामं पञ्चकैर्वितस्तिः स्यात् ।
अधम्म त्रिवितस्तिः स्यान्मध्यं तस्मादङ्गुलाधिक्यम् ॥४॥
तस्मात् त्र्यङ्गुलमधिकमुत्तममेतत्तु कथ्यते मुनिभिः ।
विपुलाध्यर्धायामं स्वस्वव्यासं च कर्णमात्रं वा ॥५॥
व्यासार्ध्म भित्त्युच्चं श्रेष्ठं तस्मात् त्र्यङ्गुलक्षयतः ।
मध्यममधमं तस्मात् त्र्यङ्गुलहीनं त्रिधोत्तुङ्गम् ॥६॥
व्यासायामोच्चवशात् त्रिविधोक्ता पैण्डिका शिबिका ।
सैकत्रिंशतिमात्रैः सप्तत्रिंशत् सपञ्चकं त्रिंशत् ॥७॥
मात्रैरथवा विपुलं दैर्घ्योच्चं पूर्वमेव तत्कार्यम् ।
उत्कृष्टमध्यमाधाविपुलं पञ्चार्धयुगलमिति मात्रैः ॥८॥
निजविपुलार्धोत्सेधं कर्तव्यं सम्यगीषिकायामम् ।
पञ्चचतुस्त्र्यङ्गुलिभिर्विपुलं सार्धं तु तत्तीव्रम् ॥९॥
सक्षुद्रपट्टिकाथ वाजननिम्नाब्जकं प्रयुतम् ।
द्वयर्धं द्विमात्रसार्धेकाङ्गुलविपुलं च हस्तं स्यात् ॥१०॥
व्यासं त्रिपादमर्धं तयोस्तु मध्यं च तत्तुङ्गम् ।
गोलार्धाकृतिकं वा छत्राभं वाऽथ वेत्रभेदनिभम् ॥११॥
हस्तेषिकयोर्मध्ये षड्भागैः कम्पकानि चत्वारि ।
सार्धद्वयङ्गुलविपुलं द्व्यङ्गुलमध्यार्धमात्रविस्तारम् ॥१२॥
अर्धं त्रिपादाङ्गुलकमुत्सेधं ह्येव कम्पकानाण तु
अधरोर्ध्वे चैकांशाङ्गुलिकं फलकाभिरपि युक्तम् ॥१३॥
मध्यमकम्पं त्यक्त्वा युक्तिवशान्मध्यभित्तिमाने तु ।
मध्ये द्व्यंशे फलका नरनारीचक्रवाकशोभयुतम् ॥१४॥
वल्लीचतुष्पदाद्यैः संयुक्ता नाटकादिकैरपि च ।
हस्ताधिकयोर्मध्ये व्यालस्थानं विधीयतेऽग्रे तु ॥१५॥
स्वव्यासकर्णमात्रमुदितं निर्गमनमुष्टिबन्धं स्यात् ।
तदधो वाङ्घ्रियुतं तदधोभागेन तुङ्गमेव स्यात् ॥१६॥
तत्समनिर्गमयुक्तं स्वव्यासार्धं तु कम्पकं पुरतः ।
नक्रमुखेन तु युक्तं लोहेनैवाथवेभदन्तेन ॥१७॥
भक्त्या विपुला दैर्घ्यशरसप्तकनन्दकाख्यदशरुद्राः ।
कम्पव्यासघनाभ्यां स्तम्भव्यासं तु बाहल्यम् ॥१८॥
दैर्घ्याधिकाग्रमूले कर्तव्या युक्तिबलवशात्तु शिखा ।
आत्तविशालं ह्रस्वैधितयोर्मूले तदग्रे च ॥१९॥
पञ्च चतुष्टयमात्रं निर्गमनं पद्मचित्रयुतम् ।
तत्कमलाग्रहस्तं च तन्मानं वा समानकर्णं वा ॥२०॥
ह्रस्वैधितोपरिष्टाद् विपुलं कम्पं च वा फलकम् ।
एकांशेन समोच्चं शोभार्थं वा फलार्थं स्यात् ॥२१॥
तत्रैव ह्रस्वपादैर्गुलिकाभिः शोभितं तदुक्त्यापि ।
अथवा मुखतो द्वारं पञ्चैवांशं गुणांशकं वा तु ॥२२॥
त्रिचतुर्मात्रविशालं षट्सप्ताष्टाङ्गुलोत्सेधम् ।
पादं यत्कुम्भं तदवलग्नं हीरकं सुवृत्तं च ॥२३॥
गुल्फायामसुपट्टैर्मतिभिः पट्टैस्तु कीलकं कुर्यात् ।
एवं प्रोक्ता शिबिका पैठिका नाम चित्राङ्गा ॥२४॥
अन्याः शिबिकाः
स्वव्याससमेन तूत्सेधः स्वव्यासार्धं त्रिभागभित्तिश्च ।
पादसमेता शिखरोपेता सा शेकरीति सम्प्रोक्ता ॥२५॥
मौण्डी मुण्डाकारा शिखराभैरव भित्तिभिर्युक्ता ।
व्याससमोत्सेधयुता मण्डपमिव मण्डपोदिताभिमता ॥२६॥
पान्मध्यतस्तु मानं तासां सम्यक् प्रयोक्तव्यम् ।
शाकः कालस्तिमिशः पनसो निम्बार्जुनौ मधूकश्च ॥२७॥
याने शयने चैते प्रोक्ताः वृक्षाः पुराणैस्तु ॥
श्रीनतसुखमधिरुह्य यानं श्रीमत्तत्प्रकटनिजात्मा स्यात् ।
तद्यानं तदपि शिबिकालक्षणयुक्तं तत्सम्पदे सहर्ध्या ॥२८॥
इति शिबिकाध्यायविधिः
रथः
द्विचक्रबाह्ये विस्तारं षट्सप्ताष्टवितस्तियुक् ।
चक्रनाभिद्वयान्ताभिगतमक्षोत्तरस्य तु ॥२९॥
हारबाह्यं च तावत् स्याद् विस्तारार्धाधिकायतम् ।
चतुस्त्रिद्वयङ्गुलोत्सेधं बाहल्यं पञ्चभारकम् ॥३०॥
त्रिसप्तनवधा तत्र व्यासोत्सेधाश्च पूर्ववत् ।
आयामानुगतं तिर्यक् तुल्यकम्पं दृढीकृतम् ॥३१॥
मध्यभारोपरि तुलामध्यनिर्गमनाग्रतः ।
ललाटात्तु त्रिहस्तादि तदग्रं कुटिलाकृतिः ॥३२॥
मध्यभार इति प्रोक्तं कूर्परो युगभागभाक् ।
भारोपर्यङ्गुलघनफलकाप्रस्तरो भवेत् ॥३३॥
अक्षमक्षोत्तरं चक्रपट्टं भारोपधानकम् ।
उत्सेधं पञ्चषट्सप्तबाहल्यं द्वित्रिमात्रकम् ॥३४॥
अष्टादशाङ्गुलं दैर्घ्यं पार्श्वे भारोपधानकम् ।
पोतिकाकारसंयुक्तमयःपट्टैर्दृढीकृतम् ॥३५॥
अक्षोर्ध्वोत्तरबाहल्यतुल्यच्छिद्रात्ममध्यमम् ।
तदधस्त्वक्षरक्षार्थं पार्श्वयोर्बन्धनं भवेत् ॥३६॥
उपधानविधानं तु तुल्यव्यासार्धतीव्रकम् ।
अक्षस्यावधि दैर्घ्यं स्याद् दारु चेच्चतुरस्त्रकम् ॥३७॥
अयःपट्टैश्च कीलैश्च स्वशिखाभिर्दृढीकृतम् ।
अक्षान्तेऽक्षोत्तर बन्धं दारुकीलैः प्रयोजयेत् ॥३८॥
अक्षोत्तरसम्म चक्रं विस्तारं परिकीर्तितम् ।
नाभिर्दशाङ्गुलोत्सेधा वितस्त्यायामविस्तृता ॥३९॥
तत्पट्टनाभिमध्ये तु द्वात्रीशद्वा त्रिरष्टकम् ।
अष्टाष्टक्म तु वा तत्र युक्त्या संख्यासमन्वितम् ॥४०॥
अरारकर्णमूलाग्रं त्र्यङ्गुलं सार्धमात्रकम् ।
मूले क्षीणं यवाकारं मूलेऽग्रे शिखयान्वितम् ॥४१॥
रोहारोहघने चैव अक्षान्तरं तथाम्बकम् ।
भारस्योदयं पट्टैश्च कीलकैः पट्टबन्धकैः ॥४२॥
योग्यं च द्व्यंशपादांशैरयःपट्टैश्च बन्धयेत् ।
तत्स्थाने चोपपीठे च गुह्यं युक्तिवशान्नयेत् ॥४३॥
सार्धबद्धकरं पादोत्सेधं चक्रार्धमिष्यते ।
पादोत्सेधद्विभागैकं भागं स्याच्चूलिकोच्छ्रयम्॥४४॥
अग्रे पार्श्वे तले वा तु गुलिका पट्टिकान्तरे ।
पृष्ठे पञ्चाङ्गुलोत्सेधं मुखपट्टिकयावृतम् ॥४५॥
अन्तरे कर्णपादस्य मुकुलाग्रोत्तरान्तिका ।
भारो भारोपधानं च अक्षमक्षोत्तरं तथा ॥४६॥
कूबरः कूबरस्याग्रो द्वयपट्टैश्च कीलाइः ।
तत्तद्योगेश्च तत्स्थाने बन्धनाच्च भवेदपि ॥४७॥
अक्षमक्षोत्तरं मध्ये दारुकीलं प्रयोजयेत् ।
सर्वराजाधिपत्ये च राजयुद्धे महोत्सवे ॥४८॥
मङ्गले देवपूजायां सोमयागे तथैव च ।
इत्येवं कर्मणादिष्टं रथारोहणमिष्यते ॥४९॥
वासद्वित्रिगुणायामं चक्रं तारसमन्वितम् ।
सप्ततालं तु वा दैर्घ्यं त्रिचतुर्मात्रविस्तृतम् ॥५०॥
स्वस्वपादवशात् तत्र पूर्ववच्चोत्तरादिकम् ।
हारोपर्यन्तरोपेतं ह्रस्वपादान्तरान्वितम् ॥५१॥
चतुष्षष्टिकसंख्याभिः सतम्भयुक्तसमन्वितम् ।
षट्सार्धपञ्चपञ्चैव तालेन चरणोदयम् ॥५२॥
एकद्वित्रितलोपेतमेकं वाऽथ चतुर्मुखम् ।
मण्डपाकारसंयुक्तं शालाकारशिरःक्रियम् ॥५३॥
त्रिचतुष्पञ्चषट्सप्तहस्तं चक्रान्तमिष्यते ।
चक्रोत्सेधं चतुष्पञ्चषट्सप्ताष्टेष्टतीव्रकम् ॥५४॥
अक्षमक्षोत्तरं चैव भारोपधानकं यथा ।
इष्टेष्टविपुलोत्तुङ्गेर्दारुकीलैर्दृढीकृतम् ॥५५॥
एकद्वित्रितलोपेतं प्रासादवदलङ्कृतम् ।
षोडशस्तम्भसंयुक्तं दिग्दिक्षु मुखभद्रकम् ॥५६॥
सर्वालङ्कारसंयुक्तं रङ्गं तद्योजयेद् दृढम् ।
तथैव शिल्पिमानीय योजनीयं विचक्षणैः ॥५७॥
पादुकं मिथुनांशकपद्मकं लेखिते चरणांशकमूर्तिकम् ।
तुर्यकादिकृतपट्टिककल्पितं पञ्चबोधिरसकुड्मलमेव च ॥५८॥
द्वित्रिपादकरनन्दवर्गकैर्विप्रभागमिति गण्यमिष्यते ॥५९॥
पद्मं तु पट्टीसहकर्णप्रस्तरं व्यालं तु नक्रक्रममेव शोभितम् ।
कर्णांशपद्मं जगति प्रतिष्ठां नराप्रवेशं कुमुदं तु भागम् ॥६०॥
वस्वंशकर्णं गुणभागपट्टी शिवांशवेदी सकलं धरातलम ।
शरण्यपद्मं च तु कर्णवेदिका कर्णेन वेदी गलपक्षमंशम् ।
प्रस्तरांशुमुनिदेवसानकं नाट्यताल उपधानकल्पितम् ॥६१॥
इति मयमते वस्तुशास्त्रे यानाधिकारो नामैकत्रिंशोऽध्यायः