अथ तृतीयोऽध्यायः
(भूपरीक्षा)
अनिन्द्या भूः
देवानां तु द्विजातीनां चतुरस्त्रायताः श्रुताः ।
वस्त्वाकृतिरनिन्द्या सावाक्प्रत्यग्दिक्समुन्नता ॥१॥
हयेभवेणुवीणाब्धिदुन्दुभिध्वनिसंयुता ।
पुनागजातिपुष्पाब्जधान्यपाटलगन्धकैः ॥२॥
पशुगन्धसमा श्रेष्ठा सर्वबीजप्ररोहिणी ।
एकवर्णा घना स्निग्धा सुखसंस्पर्शनान्विता ॥३॥
बिल्वो निम्बश्च निर्गुण्डी पिण्डितः सप्तपर्णकः ।
सहकारश्च षड्वृक्षैरारूढा या समस्थला ॥४॥
श्वेता रक्ता च पीता च कृष्णा कापोतसन्निभा ।
तिक्ता च कटुका चैव कषायलवणाम्लका ॥५॥
मधुरा षड्रसोपेता सर्वसम्पत्करी धरा ।
प्रदक्षिणोदकवती वर्णगन्धरसैः शुभा ॥६॥
पुरुषाञलिमात्रे तु दृष्टतोया मनोरमा ।
निष्कपाला निरुपला कृमिवल्मीकवर्जिता ॥७॥
अस्थिवर्ज्या नसुषिरा तनुवालुकसंयुता ।
अङ्गारैर्वृक्षमूलैश्च शूलैश्चापि पृथग्विधैः ॥८॥
पङ्कसङ्करकूपैश्च दारुभिर्लोष्टकैरपि ।
शर्कराभिरयुक्ता या भस्माद्यैस्तु तुषैरपि ॥९॥
निन्द्या भूः
सा शुभा सर्ववर्णानां सर्वसम्पत्करी धरा ।
दध्याज्यमधुगन्धा च तैलासृग्गन्धिका च या ॥१०॥
शवमीनपक्षिगन्धा सा धरा निन्दिता वरैः ।
सभाचैत्यसमीपस्था नृपमन्दिरसंश्रिता ॥११॥
देवालयसमीपस्था कण्टकिद्रुमसंयुता ।
वृत्तत्रिकोणविषमा वज्राभा कच्छपोन्नता ॥१२॥
चण्डालावासगच्छाया चर्मकारालयाश्रिता ।
एकद्वित्रिचतुर्मार्गा तरिताव्यक्तमार्गका ॥१३॥
निम्नं यत् पणवाकारं पक्षीव मुरजोपमम् ।
मस्त्याभं तु चतुष्कोणे महावृक्षसमायुतम् ॥१४॥
चैत्यवृक्षयुतं सालचतुष्कोणसमाश्रितम् ।
भुजङ्गनिलयं चैव सङ्कराराममेव च ॥१५॥
श्मशानं चाश्रमस्थानं कपिसूकरसन्निभम् ।
वनोरगनिभं टङ्क शूर्पोलूखलसन्निभम् ॥१६॥
शङ्खाभं शङ्कुनाभं च बिडालकृकलासवत् ।
ऊषरं कृमिभिर्जुष्टं गृहगौलिसमाकृति ॥१७॥
अन्यदेवंविधं वस्तु निन्दितं वस्तुपाठकैः ।
बहुप्रवेशमार्गं च मार्गविद्धं च गर्हितम् ॥१८॥
यत् कर्म विहितं मोहादेवम्भूते तु वस्तुनि ।
तन्महादोषहेतुः स्यात्सर्वथा तद्विवर्जयेत् ॥१९॥
सर्वोत्कृष्टा भूः
श्वेतासृक्पीतकृष्णा हयगजनिनदा षड्रसा चैकवर्णा
गोधान्याम्भोजगन्धोपलतुषरहितावाक्प्रतीच्युन्नता या ।
पूर्वोदग्वारिसारा वरसुरभिसमा शूलहीनास्थिवर्ज्या
सा भूमिः सर्वयोग्या कणदररहिता सम्मताद्यैर्मुनीन्द्रैः ॥२०॥
इति मयमते वस्तुशास्त्रे भूपरीक्षा नाम तृतीयोऽध्यायः