(लिङ्गलक्षणम् )
निष्कलादिलिङ्गभेदानि
निष्कलं सकलं मिश्रं लिङ्गं चेति त्रिधा मतम् ।
निष्कलं लिङ्गमित्युक्तं सकलं बेरमुच्यते ॥१॥
बिम्बमूर्तिः शरीराभा विश्वमूर्तिस्वरूपकैः ॥२॥
चिह्नदेहप्रतिच्छन्दप्रतिमाङ्कैस्तु नामभिः ।
दृश्यदेवः समाख्यातो निष्कलं वक्ष्यतेऽधुना ॥३॥
शिलालक्षणम्
श्वेता रक्ता च पीता च विप्रादीनां हितासिता ।
एकवर्णा घना स्निग्धा शिला भूमिनिमग्नका ॥४॥
व्यासायामवती ग्राह्या यौवनातिमनोरमा ।
वातातपानलालीढा मृद्वी क्षाराम्बुसंश्रिता ॥५॥
दुःस्थानस्थानरूक्षा च या कर्मान्तरयोजिता ।
रेखाबिन्दुकलङ्काढ्या वृद्धा वक्रा च या शिला ॥६॥
सशर्करा विवर्णा च सत्रासायतनस्थिता ।
निःस्वना सदरीभेदा सगर्भा निन्दिता वरैः ॥७॥
एकवर्णा घना स्निग्धा मूलाग्रादार्जवान्विता ।
गजघण्टारवा या सा पुंशिलेति प्रकीर्तिता ॥८॥
स्थूलमूला कृशाग्रा या कांस्यतालसमध्वनिः ।
स्त्रीशिला कृशमूलाग्रा स्थूला षण्डेति निःस्वना ॥९॥
सकलं निष्कलं मिश्रं कुर्यात् पुंशिलया सुधीः ।
युञ्जीयात् स्त्रीशिलां सम्यङ् नारीबेरं च पिण्डिकाम् ॥१०॥
षण्डोपलेन कर्तव्ये ब्रह्मकूर्मशिले तता ।
नन्द्यावर्तशिला वाऽपि कर्तव्या तेन वर्त्मना ॥११॥
प्रासादतलकुड्यादि कर्म दुर्याद विचक्षणः ।
सा शिला त्रिविधा बाला मध्यमा स्थविरेत्यपि ॥१२॥
टङ्कघातदिमृद्वी या मन्दपक्वेष्टकोपमा ।
शिला बाला मता तज्ज्ञैः सर्वकर्मसु निन्दिता ॥१३॥
स्निग्धा गम्भीरनिर्घोषा सुगन्धा शीतला मृदुः ।
निबिडावयवा तेजःसहिता यौवना शिला ॥१४॥
मध्यमा सर्वयोग्या स्यात् सर्वकर्मार्थसिद्धिदा ।
मत्स्यमण्डूकशकला रूक्षा वृद्धा शिलाशिवा ॥१५॥
रेखाबिन्दुकलङ्काढ्या सा त्याज्या सर्वयत्नतः ।
छेदने तक्षणे यत्र मण्डलं दृश्यते यदि ॥१६॥
सा शिला गर्भिणी विद्वांस्तां प्रयत्नेन वर्जयेत् ।
मुखमुद्धरणेऽधोंऽशमूर्ध्वभागं शिरो विदुः ॥१७॥
शिलामुलमवाक् प्रत्यगङ्गाग्रं प्रागुद्ग्दिशि ।
अग्रमूर्ध्वमधोमूलं पाषाणस्य स्थितस्य तु ॥१८॥
नैऋत्यैशानदेशाग्रा वह्न्यग्रा वह्निवायुगा ।
शिलासंग्रहणम्
उत्तरायणमासे तु शुक्लपक्षे शुभोदये ॥१९॥
प्रशस्तपक्षनक्षत्रे मुहूर्ते करणान्विते ।
गच्छेल्लिङ्गं समुद्दिश्य वनं चोपवनं गिरिम् ॥२०॥
अथवा शुद्धदेशं तु भूमग्नोपलसंयुतम् ।
ऐन्द्राशायां तु सौम्यायामैशान्यां वा विशेषतः ॥२१॥
निमित्तः शकुनैर्योग्यैः सह मङ्गलशब्दकैः ।
स्थापकः स्थपतिः कर्ता कृतकौतुकमङ्गलः ॥२२॥
स्थापकः स्थपतिश्चैव सितवस्त्रपरिच्छदौ ।
श्वेतगन्धानुलेपौ तौ सितवस्त्रोत्तरीयकौ ॥२३॥
सितपुष्पशिरोयुक्तौ प्राप्तपञ्चाङ्गभूषणौ ।
गन्धैः पुष्पैश्च धूपैश्च मांसेन रुधिरेण च ॥२४॥
पायसौदनमत्स्यैश्च भक्ष्यैश्चापि पृथग्विधैः ।
अर्चयेदीप्सितान् वृक्षानुपलान् वनदेवताः ॥२५॥
भूतक्रूरबलिं दत्त्वा कर्मयोग्यां वरेच्छिलाम् ।
स्थपतिर्वरवेषाढ्यो मन्त्रयेत् प्राङ्मुखो वरः ॥२६॥
ॐ अपक्रामन्तु भूतानि देवताश्च सगुह्यकाः ।
युष्मभ्यं तु बलिर्भूयात क्रूराश्च वनदेवताः ॥२७॥
कर्मैतत् साधयिष्यामि क्रियतां वस्तुपर्ययः ।
एवमुक्त्वा नमस्कृत्य शिलाश्छेत्तुं समारभेत् ॥२८॥
तत्रैव स्थापको युक्त्या जुहुयात तदुदग्दिशि ।
हेमसूच्यष्ठीलाभ्यां तु शोधयेत् प्रथमं पुनः ॥२९॥
तीक्ष्णशस्त्रेण महताप्यष्ठीलेन प्रहारयेत् ।
इष्टायामविशालाभ्यामधिकं ग्राह्य यत्नतः ॥३०॥
चतुरस्त्रसमं कृत्वा मुखभागं विचिन्त्य च ।
शुद्धिं कृत्वार्चयित्वा तु गन्धाद्यैर्विधिपूर्वकम् ॥३१॥
लिङ्गं वा पिण्डिकां बेरमौपलं वार्क्षमेव वा ।
वस्त्रैरावेष्टयित्वा तु रथे संस्थाप्य यत्नतः ॥३२॥
सर्वमङ्गलसंयुक्तमानीयात् कर्ममण्डपे ।
यथोक्तविधिना सम्यक् कुर्यादन्तरितेन च ॥३३॥
यथोक्तविधिना नैव लभ्यते यदि पण्डितः ।
गृहीत्वायत्र पूर्वोक्तविधिना तदुदग्दिशि ॥३४॥
नीत्वा तत्र खनित्वा तु शुभऋक्षमुहूर्तके ।
गृहीत्वा विधिवद्भुत्वा शुद्धिं कृत्वाम्भसा ततः ॥३५॥
गन्धाद्यैरर्चयित्वा तु सर्वमङ्गलघोषणैः ।
आनीयात्पूर्ववत्तत्र दिशां दोषैर्विमुच्यते ॥३६॥
लिङ्गप्रमाणम्
लिङ्गस्थानम्
लिङ्गमानाद् विमानं वा लिङ्गं वा हर्म्यमानतः ।
गर्भमध्ये तु सूत्रात्तु वामेऽर्चालिङ्गमेव वा ॥३७॥
स्थापयेत् किञ्चिदीशानमाश्रयित्वा विचक्षणः ।
त्रिः सप्तांशे कृते द्वारे ब्राह्येंऽशं मध्यमं भवेत् ॥३८॥
कृत्वा षडंशकं तच्च वामे द्व्यंशं व्यपोह्य च ।
तदंशमग्रं नीत्वा तु प्रागुदग्गतसूत्रकम् ॥३९॥
तद् ब्रह्मसूत्रमित्युक्तं तत्सूत्रं शिवमध्यमम् ।
नागरलिङ्गम्
गर्भार्धमध्यमं श्रेष्ठं पञ्चत्र्यंशं शिवायतम् ॥४०॥
भवन्ति नव लिङ्गानि तयोर्मध्येऽष्टभाजिते ।
श्रेष्ठमध्यकनिष्ठानि त्रित्रिभेदानि तानि हि ॥४१॥
नागरे नागरस्योक्तं मानं लिङ्गस्य मन्दिरे ।
विकारांशे तदायामे भूतगङ्गाग्निविस्तरम् ॥४२॥
जयदं पौष्टिकं सार्वकामिकं नागरे विदुः ।
द्राविडलिङ्गम्
गर्भे त्रिसप्तभागे तु दशांशं द्राविडेऽधमम् ॥४३॥
त्रयोदशांशकं श्रेष्ठं मध्येऽष्टांशे तु पूर्ववत् ।
त्रिः सप्तांशे निजायामे षट्पञ्चतुरंशकम् ॥४४॥
जयदादिविशालं तत् पूर्ववद् द्राविडे मतम् ।
वेसरलिङ्गम्
वेसरे पञ्चपञ्चांशे गर्भागारे विमानके ॥४५॥
त्रयोदशांशकं हीनं श्रेष्ठं स्यात् षोडशांशकम् ।
तयोर्मध्येऽष्टभागे तु नव लिङ्गानि पूर्ववत् ॥४६॥
पञ्चपञ्चांशके दैर्घ्ये वसुधातुरसांशकम् ।
वेसरस्योदितं व्यासं पूर्ववज्जयदादिकम् ॥४७॥
विकारपरिध भूतव्यासः सर्वत्र कीर्तितः ।
गर्भमानमिदं प्रोक्तं हस्तमानं तु वच्म्यहम् ॥४८॥
हस्ततो लिङ्गमानानि
आरभ्यैककरं नन्दहस्तान्तं षट्षडङ्गुलैः ।
वृद्ध्यायतास्त्रयस्त्रिंशत्संख्या लिङ्गस्य कीर्तिताः ॥४९॥
पञ्चारत्नि विमानाद्या द्वादशक्ष्माद्यसद्मनः ।
क्रमेणैव त्रयस्त्रिंशत्संख्या तासां विधीयते ॥५०॥
केचित् त्र्यङ्गुलवृद्ध्या तु वदन्त्येकादिहस्ततः ।
आयादिसम्पदामर्थं मानादेकाङ्गुलक्षयात् ॥५१॥
प्रवृद्ध्योत्तुङ्गमात्तव्यं तत्र दोषो न विद्यते ।
पञ्चपञ्चाङ्गुलं मूलाद् वृद्ध्याष्टककलाङ्गुलैः ॥५२॥
वृद्ध्या लिङ्गीयते शस्ते प्रत्येकं नवमानिकम् ।
क्षुद्राल्पमध्यमोत्कृष्टहर्म्यानामुदितं क्रमात् ॥५३॥
द्वारादितो मानानि
द्वारोदयसमं श्रेष्ठं त्रिभागोनं कनिष्ठकम् ।
स्तम्भोत्सेधे नवांशे तु मुनिभूतांशकोदयम् ॥५४॥
तत्तन्मध्येऽष्टधा भक्ते नवलिङ्गोदयाः स्मृताः ।
नागरादिषु सौधेषु प्रोक्तव्यासानि पूर्ववत् ॥५५॥
प्रासादशिखरग्रीवस्थूप्यधिष्ठानमानकैः ।
केचिद् वदन्ति मुनयः कुम्भयोन्यादयो वराः ॥५६॥
गृहीतोत्सेधमानं तु मानाङ्गुलैर्विभाजयेत् ।
वृद्ध्या हान्याङ्गुलिच्छेदं परिह्रत्य विचक्षणः ॥५७॥
उत्सेधेऽष्टगुणैः सप्तविंशद्भिर्हरणे ततः ।
शेषमश्वयुजाद्यं तु नक्षत्रं तु चतुर्गणे ॥५८॥
नवभिर्हरणे शिष्टमंशकं तस्करादिकम् ।
भुक्तिः शक्तिर्धन राजषण्डश्चाभयकं विपत् ॥५९॥
समृद्धिरिति विख्यातान्यंशकानि नव क्रमात् ।
तस्करं च विपत् षण्डं निन्दितं वस्तुपारगैः ॥६०॥
उत्तुङ्गुवसुनन्दाग्निगुणैरर्कदशाष्टभिः ।
शिष्टं धनमृणं चैव योनिकं स्याद्यथाक्रमम् ॥६१॥
धनाधिकमृणं क्षीणं मानं तत् सम्पदां पदम् ।
योनिषु ध्वजसिंहश्च वृषो हस्ती शुभावहाः ॥६२॥
तुङ्गं नवगुणं कृत्वा सप्तभिः क्षपयेत्ततः ।
शेषं सूर्यादिवारं स्यात् क्रूरास्तत्र विवर्जिताः ॥६३॥
ग्रामादीनां च कर्तुश्च नक्षत्रेणाविरोधि यत् ।
तल्लिङ्गं देशदेशेशदेहिनां शुभकारणम् ॥६४॥
लिङ्गतक्षणम्
इष्टायामविशालेन चतुरस्त्रीकृतं समम् ।
जातिरूपं तु तद् बिम्बं छेदनीयं यथोचितम् ॥६५॥
छन्दमष्टास्त्रकं षोडशास्त्रं नाम्ना विकल्पकम् ।
वृत्तमाभासकं लिङ्गं तच्छेद्यं स्यात्त्रयात्मकम् ॥६६॥
त्रिधा कृत्वायतं मूले ब्रह्मांशं चतुरस्त्रकम् ।
अष्टास्त्रं वैष्णवं मध्ये वृत्तमूर्ध्वांशमैशकम् ॥६७॥
इष्टविष्कम्भमानेन चतुरस्त्रीकृतं समम् ।
कर्णायतार्धकर्णाभ्यामिष्टमष्टास्त्रकं कृतम् ॥६८॥
चतुस्त्र्यंशकयोर्मध्यं मध्यपट्टमिति स्मृतम् ।
व्यासे सप्तांशके त्र्यंशं मध्यपट्टं त्रिधोदितम् ॥६९॥
कोणान्तात् पट्टसूत्रेऽङ्के तिर्यक्सङ्गतसूत्रकम् ।
पट्टार्धेनाङ्कितं यत्तु षोडशास्त्रं तदुच्यते ॥७०॥
एवस्त्रान्तरे धीमान् योजयेत्तु विचक्षणः ।
कोटिच्छेदेन वृत्तं स्यान्निम्नं नैवोन्नतं यथा ॥७१॥
सर्वतोभद्रादिलिङ्गप्रमाणम्
आद्यं तु सर्वतोभद्रं द्वितीयं वर्धमानकम् ।
शिवाधिक्म तृतीयं स्याच्चतुर्थं स्वस्तिकं भवेत् ॥७२॥
अथ जगदमराणां सर्वतोभद्रमिष्टं
सुखदमवनिपानां वृद्धिदं वर्धमानम् ।
धनदमिह विशां वै शम्भुभागाधिकं य-
च्छुभदमथ परेषां स्वस्तिकं तच्चतुर्णाम् ॥७३॥
त्रिंशद्भागे सर्वतोभद्रलिङ्गे मूले मध्येऽग्रे दशांशं क्रमेण ।
वृत्त्म तुल्यं सर्वतः शम्भुभागं विप्राणां तद् भूपतीनां प्रशस्तम् ॥७४॥
वेदभूतरसभागिकैरधो भूतषण्मुनिपदैरधः परम् ।
षट्कसप्तवसुभागया ततः सप्तनागनवभागया पुनः ॥७५
वर्धमानमुदितं चतुर्विधं ब्रह्माविष्णुशिवभागतः क्रमात् ।
सर्वसम्पदुदयं जयप्रदं पुत्रवृद्धिदमिदं महीभृताम् ॥७६॥
सप्तसप्तवसुभागया ततः पञ्चपञ्चकषडंशकैरपि ।
वेदवेदशरभागया ततो बन्धबन्धयुगभागया पुनः ॥७७॥
उक्तमत्र हि मया चतुर्विधं तच्छिवाधिकमजादिभागिके ।
सर्ववस्तुदमिदं विशामलं सर्ववर्णयमिनामुदीरितम् ॥७८॥
उक्तायामे स्वस्तिके नन्दभागे मूले द्व्यंशं मध्यभागे गुणांशम् ।
पूजाभागे चातुरंशं क्रमेण चोक्तं शूद्रे सर्वकामप्रदं तत् ॥७९॥
सुरार्चितादिलिङ्गभेदाः
लिङ्गं सुरार्चितं धारालिङ्गं साहस्त्रलिङ्गकम् ।
त्रैराशिकं तु सर्वेशां सर्वकामफलप्रदम् ॥८०॥
इष्टायामासमोपेतं स्वायामार्धार्धविस्तरम् ।
शेषं पूर्ववदुद्दिष्टं नाम्ना सुरगणार्चितम् ॥८१॥
धारालिङ्गं सर्वलिङ्गे मतं तन्मूलेऽष्टास्त्रं वा कलास्त्रं युगास्त्रम् ।
तस्मादूर्ध्वं द्वैगुणं स्यात् सधारं धारालिङ्गं सर्ववर्णे प्रशस्तम् ॥८२॥
पूजाभागे सर्वतोभद्रलिङ्गे धारा कार्या पञ्चपञ्चक्रमेण ।
एकैकस्यामष्टपञ्चोपरिष्टात् साहस्त्रं तद्रेखया लिङ्गमुक्तम् ॥८३॥
रसमुनिवसुभागे वृत्तकेऽष्टास्त्रकेऽन्ते
परिधिरथ नवांशे लिङ्गतुङ्गे तु भूयः ।
त्रिभिरथ गुनभागैश्च त्रिभिस्तुङ्गमानं
ह्यजहरिहरभागे तत्तु त्रैराशिकं स्यात् ॥८४॥
आर्षलिङ्गम्
सस्थूलमूललिङ्गं यवमध्यं वा पिपीलिकामध्यम् ।
लिङ्गं तु शिरः स्थूलं ह्यार्षं लिङ्गं चतुर्भेदम् ॥८५॥
निजविपुलाष्टांशघ्नं मूले मध्ये तथा तदग्रे च ।
विष्ण्वजभागो सम्यक् चतुरस्त्रं चार्षके लिङ्गे ॥८६॥
स्वयम्भुलिङ्गम्
लिङ्गं फलकाकारं द्व्यस्त्रं पञ्चास्त्रकं त्रिकोणं च ।
एकादशनवषट्सप्तास्त्रं च द्वादशास्त्रं च ॥८७॥
पूर्वोदितेतरास्त्रं शूलाग्रं श्रृङ्गसदृशशिरः ।
अन्यदपि भेदयुक्तं सशिरः सूत्रेतरं न मानयुतम् ॥८८॥
निम्नोन्नतझर्झरकं वैवर्ण्ययुतं च पूजानिम्नोन्नतं यथा ।
वक्रमवक्रयुतं वा वालुकरेकाकलङ्कबिन्दुयुतम् ॥८९॥
अथवैकरेकमेतान्युदितान्येव स्वयम्भुलिङ्गानि ।
नैवैतेषां मूलं लिङ्गानां शोधयेन्मतिमान् ॥९०॥
अज्ञानादपि मोहात् संशोध्य मूलमेव दोषकरम् ।
शिरोवर्तनम्
आस्थापनमथो लिङ्गं पूजाभागं तु पीठसमम् ॥९१॥
वृत्तं वाऽथ सधारं पूजाभागं तु मोक्षदं यमिनाम् ।
शिरसो वर्तनमधुना लिङ्गानां वक्ष्यते क्रमशः ॥९२॥
छत्राभा त्रपुषाभा कुक्कुटकाण्डार्धचन्द्रसदृशाभा ।
बुद्बुदसदृशा पञ्चैवोद्दिष्टा वर्तना मुनिभिः ॥९३॥
व्यासे षोडशभागे लिङ्गस्यैकद्विगुनयुगांशेषु ।
संलम्ब्याधोभागानुभयोरपि पार्श्वयो क्रमशः ॥९४॥
छत्राभानि शिरांसि च चत्वारीह प्रवर्तते विधिना ।
समलिङ्गे प्रथमे द्वे शैवाधिकलिङ्गके तृतीयं स्यात् ॥९५॥
चतुरंशेषु यदुक्तं तत् प्रोक्तं वर्धमानस्य ।
सङ्करमन्योन्यं वाप्यशुभं स्याद् वर्तनानां च ॥९६॥
त्रपुषाभानुषडंशे सार्धद्व्यंशेन कर्तव्या ।
उच्चार्धं कुक्कुटजं त्र्यंशैकांशेन्दुखण्डनिभम् ।
बुद्बुदसदृशं सार्धं त्र्यंशं व्यासेऽष्टभागे तु ॥९७॥
सर्वेषामपि चैता सामान्यास्तत्र लिङ्गानाम् ।
शिरसो वर्तनभागं त्र्यंशैकं चाधिरोप्य निजतुङ्गे ॥९८॥
लिङ्गायामे षट्षड्भागयुते तेन सार्धमतः ।
इन्द्वश्विनिगुणभागाः प्रोक्ताः सर्वेष्वपि क्रमशः ।
अवरे मध्यमलिङ्गे श्रेष्ठे लिङ्गे ततः शिरोमानम् ॥९९॥
लिङ्गानां शिरसीप्सितांशमुभयोः संलम्ब्य तत्पार्श्वयोः
कृत्वा मत्स्ययुगं तदास्यजघनान्निष्क्रान्तसूत्रद्वये ।
तस्माद्यत्र च संयुतिर्मतिमता बिन्दुत्रयाढ्यं यथा
कर्तव्यं बहुवर्तनास्वभिमतं सोपायमीशोदितम् ॥१००॥
लक्षणोद्धरणम्
वक्ष्येऽहं लिङ्गानां सर्वेषां लक्षणोद्धरणम् ।
शाणाभिस्तनुवालुकसहितैर्गोवालरज्ज्वाद्यैः ॥१०१॥
उद्धृष्ट्या सकृदेव हि युक्त्या चिह्नं परीक्ष्य यत्नेन ।
शुभतरमङ्कं दृष्ट्वा चारभेल्लक्षणोद्धरणम् ॥१०२॥
प्रासादस्य समीपे मण्डपके चित्रवस्त्रशोभाढ्ये ।
शाल्यादिभिरपि युक्ते तण्डुलके स्थण्डिले रम्ये ॥१०३॥
तल्पोपरि सितवस्त्रप्रस्तरशयने न्यसेल्लिङ्गम् ।
आचार्यः स्थपतिश्चाहतवस्त्रैर्हेमपुष्पाद्यैः ॥१०४॥
पञ्चाङ्गभूषणैरप्यलमतिशोभैरलंकृत्य ।
सितपुष्पालेपनसोष्णीषाद्यैः शोभनं कुर्यात् ॥१०५॥
नेत्रमन्त्रमनुस्मरन्नजसूत्रं पार्श्वसूत्रं च ।
हाटकनिर्मितसूच्या आचार्यः संलिखेद् रेखाम् ॥१०६॥
पश्चाद्धेममयेनैवारभ्यास्त्रेण च स्थपतिः ।
पुनरपि लघुतरशस्त्रैर्लघुहस्तैराज्यदुग्धमधुसहितम् ॥१०७॥
सम्यग् रेखा लिखिता निर्झरकमयं यथाशोभम् ।
सितवस्त्रेणाच्छाद्याखिलधान्यान् गोद्विजवत्साद्याः ॥१०८॥
दर्शयितव्या कन्या युक्त्या शेषं नयेन्मतिमान् ।
नागरलिङ्गलक्षणोद्धरणम्
प्रथमे नागरलिङ्गे षोडशभागीकृते शिवायामे ॥१०९॥
षड्भूतवेदभागान् त्यक्त्वोर्ध्वे कन्यसाद्युदयम् ।
एवं त्रिकमुत्सेधं बुद्ध्वाऽथ त्र्यंशकात्तु सर्वेषाम् ॥११०॥
विष्ण्वंशाभिमुखे द्वे सूत्रे संलेखयेत् पार्श्वे ।
पृष्ठे तयोर्युतिः स्याद्धीने वेदाग्निपक्षेषु ॥१११॥
मध्ये भूतवनानलपक्षेषु यतिस्तयोः पृष्ठे ।
श्रेष्ठे षड्भूतवनानलपक्षेषूदिता तु युतिः ॥११२॥
तेषु गृहीत्वैकांशं त्रिद्व्यंशं सूत्रविष्कम्भम् ।
यावदधः कृष्णांशं ह्युक्तोत्सेधे नयेत्तु समम् ॥११३॥
एवं नागरलिङ्गे सूत्रं सम्यङ् मयेनोक्तम् ।
द्राविडलिङ्गलक्षणोद्धरणम्
त्रिःपञ्चभागिकेऽस्मिन् द्राविडलिङ्गे शिवायामे ॥११४॥
नन्ददशरुद्रांशा हीनाद्युदयाः समुद्दिष्टाः ।
मुनिवसुनवभागे ह्यंशैः संलम्बयेत् सूत्रे ॥११५॥
युगगुणनयनेष्वन्त्ये मध्ये शरवेदवह्नियुगलेषु ।
रसशरयुगबन्धेषु प्रोक्ता श्रेष्ठे तयोस्तु युतिः ॥११६॥
द्राविडलिङ्गे सूत्रव्यासं स्वांशार्धतः प्रोक्तम् ।
वेसरलिङ्गलक्षणोद्धरणम्
वेसरलिङ्गे पूजाभागे त्रिःपञ्चभागे तु ॥११७॥
दशभागं सूत्रोच्चं वस्वंशात् सम्यगारभ्य ।
लम्बनमथ भूतवनानलपक्षांशेषु सूत्रयुतिः ॥११८॥
व्यासे द्विरष्टभागे विष्कम्भांशो वरः प्रोक्तः ।
आयामे वसुभागे वेदांशैरुच्छ्रितस्तु ततः ॥११९॥
गुणभागादारभ्य द्व्यंशे चैकांशके तयोस्तु युतिः ।
व्यासे गृहीतभागैकैकं विभजेत् त्रिधा द्व्यंशम् ॥१२०॥
एवं मध्यममिष्टं द्वादशभागीकृते तुङ्गे ।
शेषं पूर्ववदुद्दिष्टं विष्कम्भं भागयोः प्रोक्तम् ॥१२१॥
गदितं कन्यसमेवं वेसरलिङ्गे तु सूत्रं तत् ।
सूत्रव्यासगाम्भीर्ये
आत्तांशे नवभागे भागेन व्यासगम्भीराः ॥१२२॥
रेखाविकर्कशोक्ता सर्वेषामेव लिङ्गानाम् ।
अष्टौ यवान् गृहीत्वा नवधा विभजेत्समं दृढतरधीः ॥१२३॥
एकांशेनैककरोत्तुङ्गे लिङ्गे विधातव्या ।
एकैकभागवृद्ध्या नवहस्तान्ते तु लिङ्गे तु ॥१२४॥
अष्टयवान्तरगाढा सा रेखा सम्यगुद्दिष्टा ।
अर्धयवेनाप्युदिता रेखार्धयवेन पूर्ववद् वृद्धिः ॥१२५॥
सार्धचतुर्यवतारावनतिः श्रेष्ठे तु लिङ्गे तु ।
मध्यमसूत्रव्यासादर्धतातिः पक्षयोस्तु पृथक् ॥१२६॥
सर्वेषां रेखाणां व्यासावनतिः समा एव ।
सामान्यविधिः
अथ नागरादिकानां वक्ष्ये सामान्यलक्षणोद्धरणम् ॥१२७॥
षोडशभागे पूजाभागोच्चेऽधो विहाय नयनांशम् ।
उपरिष्टाच्चतुरंशं दशभागं साग्रकं सूत्रम् ॥१२८॥
मणिरेखा भ्रमणीयाधस्ताद् द्व्यंशं विहाय कं मुकुलात् ।
पृष्ठे तयोर्युतिः स्यान्मुकुलव्यासं तु भागेन ॥१२९॥
अथवा षोडशभागेऽधोंऽशं त्यक्त्वा दशाशके नालम् ।
शेषं पूर्ववदुक्तं सामान्यं सर्वलिङ्गानाम् ॥१३०॥
द्वादशभागे रौद्रे त्यक्त्वोर्ध्वेऽधो द्विभागमेकांशम्
नवभागे साग्रं तच्छेषं पूर्वोक्तवत् कार्यम् ॥१३१॥
द्विर्नवभागे शैवेऽधोर्ध्वे द्व्यंशं शरांशं च ।
रुद्रांशैरजसूत्रं मुकुलं भागेन पूर्ववच्छेषम् ॥१३२॥
शैवे द्विरष्टभागेऽधोर्ध्वे द्वांशं युगांशकं नीत्वा ।
दशभागं सूत्रोच्चं तदंशकस्त्वष्टांशकात् समारभ्य ॥१३३॥
शररसमुनिवसुभागेष्वेवं लम्बपक्षयोः सूत्रे ।
पृष्ठे तयोर्युतिः स्याद् भागं त्यक्त्वा पुरोक्तवच्छेषम् ॥१३४॥
सूत्रेण भस्मनैव प्रथमं सूत्रं प्रवर्त्य सूत्राग्रम् ।
घटिकाग्रेण विलिख्य तु पार्श्वे सूत्रेण लक्षणं कुर्यात् ॥१३५॥
सूत्राग्रलक्षणम्
सूत्राणां सर्वेषां कर्तव्या वर्तना तदग्रे तु ।
लिङ्गानां शिरसि यथा सामान्यं स्यात्तथा समुद्दिष्टम् ॥१३६॥
अश्वत्थपत्रसदृशं सामान्यं सर्वलिङ्गेषु ॥१३७॥
सूत्राग्रमात्तभागैकांशं व्यासोन्नतं हि मतम् ।
लिङ्गानामाहत्यं सूत्राग्रं वक्ष्यते विधिना ॥१३८॥
छत्राभाग्रे लिङ्गे कुञ्जरनयनोपमं तु सूत्राग्रम् ।
खण्डेन्दुनिभे लिङ्गे शूलाग्रं बुद्बुदाभे च ॥१३९॥
त्रपुषाभे लिङ्गाग्रे सूत्राग्रं कुक्कुटाण्डनिभम् ।
छत्राभं सूत्राग्रं लिङ्गे स्यात् कुक्कुटाण्डनिभे ॥१४०॥
नाहे सप्तदशांशेष्वेकं गृह्य त्रिधा द्व्यंशम् ।
मध्यमसूत्रव्यासं तस्यार्धे पक्षयोः सूत्रे ॥१४१॥
लिङ्गायामे योज्यं सामान्यं सर्वमेतत् स्यात् ॥१४२॥
लिङ्गायाम विस्तृतं स्वस्वभेदैर्नाम्नैवैषां सम्यगुष्णीशमानम् ।
छत्राभाद्युष्णीषसूत्रं मयेह प्रोक्तं युक्त्या नागरादिक्रमेण ॥१४३॥
स्फाटिकलिङ्गम्
वक्ष्येऽहं स्फाटिकं लिङ्गं नीचमध्योत्तमक्रमात् ।
एकाङ्गुलं समरभ्यैवाङ्गुल्यङ्गुलवर्धनात् ॥१४४॥
षडङ्गुलान्तमुत्सेधं पूजांशं कन्यसं मतम् ।
सप्ताङ्गुलं समारभ्य यावद् द्वादशमात्रकम् ॥१४५॥
पूजाभागोदयं लिङ्गे मध्यमे तु प्रकीर्तितम् ।
सैकार्काङ्गुलमारभ्य चाङ्गुलाङ्गुलवर्धनात् ॥१४६॥
अष्टादशाङ्गुलं यावत् पूजांशोच्चं षडुत्तमे ।
तद्धनादर्धमात्रेण वृद्ध्यैकादशसंख्यया ॥१४७॥
श्रेष्ठमध्यपरे लिङ्गे त्रयस्त्रिंशत् समुन्नतम् ।
पूजांशार्धत्रिभागैकं गाढं वा स्फाटिकं मतम् ॥१४८॥
समं त्रिपादमर्धं वा पूजांशोच्चस्य विस्तृतम् ।
साधारं वाऽथ वृत्तं वा स्फाटिकानामथाकृतिः ॥१४९॥
वर्तना शिरसस्तस्य नागरादिषु वै यथा ।
मध्ये वरे तु लिङ्गे तु ब्रह्मसूत्रं तु पूर्ववत् ॥१५०॥
ब्रह्मसूत्रं विना ह्येतत् तेजोद्रव्यं वरप्रदम् ।
स्वव्यासद्विगुणं सार्धं द्विगुणं त्रिगुणं तु वा ॥१५१॥
पीठस्य मण्डनं नालं युक्त्या तत्र प्रयोजयेत् ।
पूजांशोच्चसमं वाऽथ त्रिभागं पिण्डिकोदयम् ॥१५२॥
मृण्मयादिलिङ्गानि
मृद्वृक्षरत्नलोहैश्च कुर्यात् स्फाटिकवद् दृढम् ।
मृण्मयं युक्तितः पक्वमपक्वं वा यथेष्टतः ॥१५३॥
वृक्षजं दोषनिर्मुक्तं लोहजं घनमिष्यते ।
घनं साङ्गमनङ्गं वा लोहेन सकलं मतम् ॥१५४॥
लोहेन पूजितं कल्प्य भुक्तिमुक्तिफलप्रदम् ।
लिङ्गं शिलेतरं सर्वं मणिलिङ्गमिति स्मृतम् ॥१५५॥
स्वयोन्या वाऽथ लोहेन स्फाटिकादिषु पिण्डिका ।
स्वस्वयोग्यानि लोहानि स्फाटिकान्येषु पीठकम् ॥१५६॥
स्थाप्यते लोहपीठे तु रत्नजं तु स्थितिर्यथा ।
सङ्कल्पकवशादत्र ब्रह्मविष्णुमहेश्वराः ॥१५७॥
युक्त्या योज्यं बुधैर्लिङ्गं भुक्तिमुक्तिप्रसिद्ध्यये ।
बाणलिङ्गं यथालाभं तत्तत् सम्यङ् निधापयेत् ॥१५८॥
पञ्चत्रिभागमुच्चार्धं त्रिद्व्यंशं वार्चनार्हकम् ।
भागं शेषांशकं पीठबन्धं स्याद् बाणलिङ्गके ॥१५९॥
रेखाबिन्दुकलङ्काद्यैर्वैवर्ण्यैर्मक्षिकापदैः ।
त्रासैस्तु शर्कराभिस्ते मणयो वर्जिता भृशम् ॥१६०॥
लिङ्गस्थापनम्
लिङ्गं महत्त्वधिष्ठाने चार्धे स्थिते च मध्यमम् ।
समाप्ते च विमाने स्यात् कन्यसं स्थापयेद् बुधैः ॥१६१॥
लिङ्गस्थापनफलम्
एवं स्थाप्यं लिङ्गमुक्तप्रकारं श्रीसौभाग्यारोग्यभोग्यप्रदायि ।
उक्तादन्यद्यत्कृतं तद्विपत्त्यै पत्युर्नित्यं रोगशोकप्रदं स्यात् ॥१६२॥
इति मयमते वस्तुशास्त्रे लिङ्गलक्षणं नाम त्रयस्त्रिंशोऽध्यायः