संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ एकादशोऽध्यायः

मयमतम् - अथ एकादशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(भूलम्बविधानम्)

भूमिलम्बविधानं तु वक्ष्ये संक्षेपतः क्रमात् ।

चतुरस्त्रमायतास्त्रं वर्तुलं च तदायतम् ॥१॥

अष्टास्त्रं च षडस्त्रं च द्व्यस्त्रवृत्तं तथैव च ।

एअतद्विन्यासभेदं स्यात् क्षयवृद्धिविधानतः ॥२॥

भूमिलम्बमिति प्रोक्तं त्रिचतुर्हस्तमानतः ।

द्विद्विहस्तविवृद्ध्यैकं भुमेर्मानं चतुष्टयम् ॥३॥

पञ्चषड्ढस्तमारभ्य द्विद्विहस्तविवर्धनात् ।

द्वितले तु चतुर्मानं रुद्रभानुकरान्तकम् ॥४॥

सप्ताष्टहस्तमारभ्य द्विद्विहस्तविवर्धनात् ।

पञ्चदशविकारान्तं त्रितले पञ्चमानकम् ॥५॥

नवपङ्‌क्तिकराद्यावत् पक्षषोडशहस्तकम् ।

चतुष्पञ्चतलं प्रोक्तं चतुर्मानं सनातनम् ॥६॥

एकहस्तं द्विहस्तं वा क्षुद्रमेकतलं स्मृतम् ।

युग्मायुग्मकरैरामर्हस्तार्धोनस्मन्वितैः ॥७॥

केचिद्‌ वदन्ति देवानां मानुषाणां विमानके ।

विस्तारे सप्तषट्‌पञ्चचतुस्त्रंशेऽधिकं त्रिभिः ॥८॥

शान्तिकं पौष्टिकं जयदमद्भुतं सार्वकामिकम् ।

उच्छ्रायं द्विगुणं पादार्धाधिकं चापि सम्मतम् ॥९॥

पञ्चदशकरव्यासाद्धिनं क्षुद्रविमानकम् ।

सप्ताष्टाधिकपङ्‌क्त्यादिद्विद्विहह्तविवर्धनात् ॥१०॥

आसप्ततेश्चतुर्भूम्यादीनि त्रीणि मतानि च ।

सप्तविंशतिभेदानिः द्वादशान्तान्यनुक्रमात् ॥११॥

त्रिचतुर्विंशतिरत्नेर्यावच्छतकरान्तकम् ।

त्रित्रिहस्तविवृद्ध्या तु त्रिनवोत्सेधमिष्यते ॥१२॥

एवमुत्कृष्टमानेषु श्रेष्ठमध्याधमं भवेत् ।

त्रिचतुष्पङ्‌क्तिहस्तादिद्विद्विहस्तवर्धनात् ॥१३॥

पञ्चषट्‌षष्टिहस्तान्तं संख्यया पूर्वसंस्कृतिः ।

चतुस्तलविमानादि द्वादशान्तं विधीयते ॥१४॥

सप्ताष्टपङ्क्तेरारभ्य त्रित्रिहस्तविवर्धनात् ।

पञ्चषण्णवतिर्यावदुच्चं प्रागिव संख्यया ॥१५॥

श्रेष्ठमध्यकनिष्ठं स्यादेवं मध्यक्रमेषु च ।

नवपङ्क्तिकरात् पञ्चषट्‌पञ्चाशत्करान्तकम् ॥१६॥

द्विद्विहस्तविवृद्ध्या तु चतुर्विंशतिसंख्यया ।

पञ्चादिद्वादशान्तानां हर्म्याणां विपुलं क्रमात् ॥१७॥

सप्ताष्टनवभूमानां धाम्नामुक्तप्रमाणतः ।

युञ्ज्याद्‌ द्वादशभूम्यन्तं विमानं मानविद्वरः ॥१८॥

द्विःषट्‌त्रयोदशक्ष्मान्तषोडशक्ष्मं यथाक्रमम् ।

षट्‌षट् षट् सप्तपञ्चाशद्धस्तव्यासैः शिवोदितम् ॥१९॥

विस्तारं स्तम्भतो बाह्ये जन्मात् स्थूप्यन्तमुन्नतम् ।

केचिदाशिखरान्तं तु प्रवदन्ति तदुन्नतम् ॥२०॥

महतामुच्छ्रयो हस्तैरुद्देशः समुदाह्रतः ।

तत्तद्व्यासे तु सप्तांशे निर्देशोच्चं त्रियंशकैः ॥२१॥

विस्तारद्विगुणोत्सेधं युक्त्याल्पेषु प्रयोजयेत् ।

देवानां सार्वभौमानामाद्वादशतल विदुः ॥२२॥

रक्षोगन्धर्वयक्षाणामेकादशतलं मतम् ।

विप्राणां नवभौमं स्याद्‌ दशभौममथापि वा ॥२३॥

युवराजस्य राज्ञश्च पञ्चमस्यैव सप्तभूः ।

तदाद्येकादशतलं षण्णां वै चक्रवर्तिनाम् ॥२४॥

त्रिभुमं च चतुर्भूमं वणिजां शूद्रजन्मनाम् ।

राज्ञां पञ्चतलं वाऽपि मत्म पट्टभृतां तु तत् ॥२५॥

शतहस्तसमुत्सेधात्‌ सप्तत्यारत्‍निविस्तरात् ।

नेष्यतेऽधिकमानं तु सर्वथा तद्विचक्षणैः ॥२६॥

क्षुद्रल्पमध्यमवरादिविमानकानाम

व्यामिश्रहस्तकयुजां विपुलोच्चभेदम् ।

युक्त्या यथोदितमजाद्यमरेश्वराणां

नृणां तथैव कथितं हि मया पुराणैः ॥२७॥

इति मयमते वस्तुशास्त्रे भूलम्बविधानो नामैकादशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP