संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथावष्टाविंशोऽध्यायः

मयमतम्‌ - अथावष्टाविंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(गृहप्रवेशः)

अथ निश्पन्नगृहं प्रविश्य तं त्वरितं न प्रविशेदनिष्ठितम् ।

यदि निष्पन्नमवेशितं चिरं सुरभूतादिगणाश्चरन्त्यलम् ॥१॥

अथ कर्मान्तमुपेत्य तद् गृहं शुभनक्षत्रतिथौ च वारके ।

शुभहोरासुमुहूर्तकांशके करणे लग्नयुते विशेच्छुभम् ॥२॥

अधिवासः

पूर्वेद्युर्वासयित्वा द्विजपशुवृषभांस्तर्पयित्वा जलाद्यैः

स्वाध्यायैर्होमशान्तिद्विजवरमुदितैस्तद्गृहं स्वस्तिवाच्यैः ।

पूतं कल्कैर्हरिद्रागरुसरुषपकुष्ठादिकानां वचानां

कुड्ये संलेपितं तैः सह भुवि सलिलैश्चन्दनस्यानुसिक्तम् ॥३॥

भवनस्योत्तरपूर्वभागे त्वधिवासं निशि चारभेत् सुधीः ।

सवितानादि पताकलङ्घनैर्बहुवर्णाम्बरचित्रमण्डपे ॥४॥

सितवस्त्रधरः सुवर्णयज्ञः सितपुष्पश्च सितानुलेपनः ।

स्थपतिः सुमनाः सुवर्णतरनिर्विविधैर्निष्ठितभूषणान्वितः ॥५॥

कलशस्थापनम्

कलशान् पञ्चकपञ्चवार्युतान् नववस्त्रान् मणिहेमसंयुतान् ।

मतिमान् शालिगिरौ सतण्डुले ह्युपपीठे तु पदे न्यसेत्ततः ॥६॥

बल्यन्नं सितरक्तपीटकृष्णं मुद्गान्नं पयसान्नकं यवान्नम् ।

पिङ्गान्नं कृसरान्नकं गुलान्नं शुद्धान्नं कलशोत्तरे न्यसेत् ॥७॥

पर्यङ्कोपरितल्पबन्धने शयने दीपतुरीयसंयुते ।

निवसेदम्बरवेष्टिते शुभे स्थपतिः शम्बरमुच्यते सदा ॥८॥

बलिचरुसकलान्नं रत्नहेमप्रयुक्तं

दधिगुलमधुपुष्पाज्याक्षताभिस्तु लाजैः ।

रजनितगरुकुष्ठानां प्रयोगेऽच्छकल्कै-

र्युतमपि हि तदानीं निक्षिपेद्धेमपात्रे ॥९॥

भवनविहितदेवान् स्वस्वकोष्ठे निधाय

स्थपतिरमलकुम्भान् हस्तमात्रवलैश्च ।

सिततरकुसुमं वै यूपदीपं च गन्धं

दृढतरमतिमद्बिस्तक्षको धारयित्वा ॥१०॥

प्रणवादिनमोऽन्तकेन नाम्ना

विहितं स्वाम्बरमादरात् सुरेभ्यः ।

बलिविधानम्

प्रथमं विधिना त्वजाय नत्वा

बलिमात्रं विनिवेदयेत्तु तस्मै ॥११॥

स्वायम्भुवः स्वस्य चतुर्मुखेषु

चतुष्टयानां दिशि तैतिलानाम् ।

यथार्हकैः स्वर्बलिभिश्च पुष्पकैः

सगन्धधूपादिभिरत्र तर्पयेत् ॥१२॥

इन्द्राय पूर्वदिशि बन्धुभिरग्नयेऽग्नौ

याम्ये यमाय निऋतौ सहबन्धुवर्गैः ।

पित्रे प्रतीच्यपि बलिं वरुणाय दद्याद्

वायौ सबन्धुरनिलाय बलिं नयेद्धि ॥१३॥

सोमाय सोमपदके दिशि चोत्तरस्यां

मित्रैः सह स्वबलिमित्र निवेदयेत्तत् ।

पूर्वोत्तरे दिशि शिवाय सबन्धुवर्गै-

रेवं हि दिक्षु च विदिक्षु बलिं विदध्यात् ॥१४॥

ईशे चरक्यै ज्वलने विदार्यै स्यात् पूतनायै पितृबाह्यभागे ।

एवं पुनर्मारुतबाह्यभागे स्यात् पापराक्षस्यपि भोजनीया ॥१५॥

स्तम्भे वनाय च तृणाय दिवाचरेभ्यो

दिक्ष्वेव तत्र च विदिक्षु निशाचरेभ्यः ।

उर्व्यां क्षिपेद् बलिमथोरगदेवताभ्यो

धर्माय कीर्य हि दिवेऽखिलदेवताभ्यः ॥१६॥

द्वारस्य वामपदके मनवे परेभ्यो

दद्युः श्रियै च शयने विधिना बलिं तत् ।

शालासु मण्डपसभास्वथ मालिकायां

मध्येऽङ्गणे तु मुखमण्डपके विमाने ॥१७॥

धाम्न्यष्टकाष्टपदकेऽभ्यमरान्तरांस्ता-

नाहूय गन्धकुसुमादिभिरर्चयित्वा ।

दत्त्वोदके सुबलिमत्र निधाय पश्चाद्

देयं जलं स्थपतिना विहितं च धूपम् ॥१८॥

तुलसिसर्ज्जसार्जुनमञ्जरीघनवचाकपटोलसगुग्गुलः ।

त्रपुषहिङ्गुमहौषधिसर्षपाः कुरवकोऽत्र सदैव सधूपराट् ॥१९॥

ददति धान्यधनानि बहूमन्यहों हरति भूतपिशाचसराक्षसान् ।

दहति कीटभुजङ्गममक्षिकान् मशकमूषिकलूतिकलूतकान् ॥२०॥

पश्चाच्च पात्रान्तिकपश्चिमांशे

धान्यास्तरे तक्षकसाधनानि ।

सर्वाणि विन्यस्य बलिं च दत्त्वा

तेभ्यो वदेत् संग्रहमध्यमस्थः ॥२१॥

निरुजा मृदिता सधना प्रथिता यशसा महदद्भुतवीर्ययुता ।

सततं निरुपद्रवकर्मयुता पृथिवी पृथु जीवतु धर्मविधेः ॥२२॥

धारानिपातात् सलिलप्रकोपाद् दंष्ट्रानिपातात् पवनप्रकोपात् ।

अग्नेश्च दाहान्मुषिताच्च चोराद्रक्षन्त्विदं सद्म शिवं मेऽस्तु ॥२३॥

स्थपतिनिर्गमनम्

उक्त्वैवमेवमखिलान्यपि साधनानि

स्थित्वा प्रणम्य शिरसा स्थपतिः कराभ्याम् ।

आदाय तानि सकलानि तदीयबाहौ

सम्यङ्‌ निधाय विधिना स्वजनैः सभृत्यैः ॥२४॥

संग्राह्य बन्धुजनपुत्रसहायकाद्यै-

र्गच्छेत् स्वकीयभवनं प्रति तुष्टचेताः ।

सन्न्यस्य सर्वमथ तद्बलिशेषमन्नं

सम्यक्‌ क्षिपेत् सलिलके गृहदेवताभ्यः ॥२५॥

अथ सम्यग्‌ गृहमार्जने कृते सितकुष्ठागरुचन्दनाम्बुभिः ।

कलशौदैरपि गन्धसंयुतैर्मणिहेमाम्बुभिरत्र सेच्यते ॥२६॥

अथ सिद्धार्थकलाजशालिकान् भवनाभ्यन्तरतो विकीर्य पश्चात् ।

उपदंशैर्युतमष्टधान्ययुग्‌ धनरत्नं गृहवस्तु वेश्य सर्वम् ॥२७॥

गृहपतिगृहिणीप्रवेशः

गृहपतिर्गृहिणी च समङ्गलौ सुजनसुभृत्यसुतानुजाभिधौ ।

स्वभवनं गृहवस्तुसमग्रकं प्रविशतामनुचिन्त्य जगत्पतिम् ॥२८॥

प्रीत्या प्रविश्य गृहवस्तु निरीक्ष्य सर्वं

तौ दम्पती च शयनेऽप्युपविश्य पश्चात् ।

सव्यञ्जननोदनमथो गृहिणी गृहीत्वा

निर्वर्तयेद्‌ गृहबलिं बलिशेषमन्नम् ॥२९॥

स्वमूलदास्यै स्वकुलानुगायै दत्त्वाऽथ देवद्विजतक्षकादीन् ।

धनैश्च रत्नैः पशुभिश्च धान्यैः सन्तर्प्य वस्त्रादिभिरत्र नित्य‍म् ॥३०॥

स्वजनगुरुजनाद्यैर्मिरभृत्यादिवर्गै-

रनुगतजनवृन्दैरत्र भोक्तव्यमादौ ।

गृहपतिरपि पत्नी तत्र नत्वा गुरूंस्तत्

सुतजनमपि पौत्रैर्भोजयेत्तान् क्रमेण ॥३१॥

अम्भोभिः पूर्णकुम्भेः सफलकदलिकावञ्जुलैः पूगवृक्षै-

र्दीपैरश्वत्थपत्रैः सिततरकुसुमैः साङ्कुरैः पालिकाभिः ।

कन्याभिर्मङ्गलाभिर्युवतिभिरमलैर्विप्रमुख्यैरुपेतं

द्वारं तत्तोरणाढ्यं गृहमनघतरं वेशयेद् वेश्मनाथम् ॥३२॥

सितवस्त्रजलप्रदीपपूर्ण सितकुसुमाम्बरधारणं सुह्रष्टम् ।

गृहपतिपुरतो यथा विवाहे गृहिणिकरग्रहणं गृहप्रवेशे ॥३३॥

अदत्तबलिभोजनमनाच्चदमगर्भं

द्विजस्थपतिकादिभिरतर्पितमतल्पम् ।

विशत्यपि गृहं यदलमेव हि विपत्त्यै

विपत्पदविमेयमतिदुष्टह्रदयः सः ॥३४॥

अतिसन्तुष्टमना गृहेश्वरः सुतयोषित्स्वजनप्रियानुगः ।

स्वगृहं प्रविशेत्प्रविश्य चैवं शुभवाग्भिः परिपूर्णकर्णकः ॥३५॥

ग्रामाग्रहारपुरपत्तनकादिकानां

देयो बलिः कपदके च विदिक्षु दिक्षु ।

शस्तौ चतुष्कसहिते सुरमन्दिरे च

श्रेष्ठे कजायनिलयेऽखिलदेवताभ्यः ॥३६॥

इति मयमते वस्तुशास्त्रे गृहप्रवेशो

नामाष्टाविंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP