(एकभूमिविधानम्)
एकभौमं चतुर्मानं वक्ष्ये संक्षिप्य शास्त्रतः ।
त्रिचतुर्हस्तमारभ्य नव पङ्क्त्यन्तविस्तृतम् ॥१॥
तारे सप्तदशोत्सेधमध्यर्धं तत्त्रिपादकम् ।
द्विगुणं तु तदुत्सेधं शान्तिकं पौष्टिकं भवेत् ॥२॥
जयदं चाद्भुतं चैव चतुर्धोदयमीरितम् ।
चतुरं वृत्तमायामं द्व्यस्त्रवृत्तं षडस्त्रकम् ॥३॥
अष्टास्त्रमाकृतिर्ह्येषां शिखरेऽपि तथैव च ।
मुखमण्डपम्
समं त्रिपादमर्धं वा मुखमण्डपमिष्यते ॥४॥
समं तन्मण्डपं तस्य सान्तरालं सवेशकम् ।
युग्मस्तम्भसमायुक्तं युक्त्या सर्वाङ्गशोभितम् ॥५॥
सार्धहस्तं द्विहस्तं वा प्रासादस्यांशमेव वा ।
अन्तरालस्य विस्तारं द्विदण्डं तस्य वेशनम् ॥६॥
सावकाशान्तरालं चेद् द्वित्रिहस्तान्तरं तु वा ।
पार्श्वे सोपानसंयुक्तं हस्तिहस्तविभूषितम् ॥७॥
धाम्नः कुड्यस्यार्धकं तत्समं वा
पादोनं वा भित्तिविष्कम्भमानम् ।
पार्श्वे चैतद् द्वित्रिदण्डैस्तु वेशं
कुर्यादग्रे मण्डपस्यास्य धीमान् ॥८॥
तत्युन्नतायतकरेषु च हस्तमानाद्
हीनं त्रिपादकरमर्धमथापि पादम् ।
तत्रैव वस्तुनि यथोचितमाचरेद्वै
हानिं च वृद्धिकमनिन्द्यमनेकशास्त्रैः ॥९॥
धामपर्यायनामानि
विमानं भवनं हर्म्यं सौधं धाम निकेतनम् ।
प्रासादं सदनं सद्म गेहमावासकं गृहम् ॥१०॥
आलयं निलयं वासमास्पदं वस्तु वास्तुकम् ।
क्षेत्रमायतनं वेश्म मन्दिरं धिष्ण्यकं पदम् ॥११॥
लयं क्षयमगारं च तथोदवसितं पुनः ।
स्थानमित्येवमुक्ताश्च पर्यायाख्या हि पण्डितैः ॥१२॥
गर्भगृहमानम्
हर्म्यतारत्रिभागैकं भूतांशेषु गुणांशकम् ।
धातुभागे युगांशः स्याद्बाणांशं नवभागिके ॥१३॥
रुद्रांशे रसभागं तु धातु त्रयोदशांशके ।
तिथ्यंशे वसुभागं तु सप्तदश नवांशकम् ॥१४॥
विस्तारार्धं तु ते सर्वे नालीगृहविशालताः ।
स्थूपिकामानम्
फलिके पञ्चभाग तु युगार्धं पद्मविस्तृतम् ॥१५॥
पद्मतारत्रिभागैकं कुम्भतारमिति स्मृतम् ।
कुम्भतारत्रिभागैकं कुम्भस्याधो वलग्नकम् ॥१६॥
वलग्नस्य त्रिभागैकं कुम्भस्योपरि कन्धरम् ।
कन्धरत्रिगुणं पाली तत्त्रिभागेन कुड्मलम् ॥१७॥
समं त्रिपादमर्धं वा महानासीविनिर्गमम् ।
तद्व्यासत्रिचतुर्भागहीनं स्कन्धान्ततुङ्गकम् ॥१८॥
शक्तिध्वजं तदर्धोच्चं त्रिपादं वा विधीयते ।
कन्धरोच्चत्रिभागैकं वेदिकोदयमीरितम् ।
सार्धदण्डं द्विदण्डं वा क्षुद्रनास्या विशालकम् ॥१९॥
द्वारम्
पादोत्सेधे पङ्क्तिनन्दाष्टभागे द्वारोत्सेधं तत्तदेकांशहीनम् ।
विस्तारं स्यात्तत्तदुच्चार्धमानं द्वारं कुर्याद्धर्म्यमध्ये नृपाणाम् ॥२०॥
योगव्यासं पादविष्कम्भमानं पादाधिक्यं वा तदर्धं त्रिपादम् ।
बाहुल्यं स्यादुच्छ्रये वेदभागे बाह्ये साब्जक्षेपणं तत्त्रिभागैः ॥२१॥
भित्तिव्यासे द्वादशांशे तु बाह्ये
पञ्चांशान्तद्वारयोगस्य मध्यम् ।
तद्वच्चान्तः स्तम्भमध्यं तयोस्त
न्मध्यं प्रोक्तं भित्तिमध्यं विधिज्ञैः ॥२२॥
नालमानम्
जन्मान्तं वा जगत्यन्तं कैरवान्तं गलान्तकम् ॥२३॥
पट्टिकान्तं तलं पञ्चभेदं सर्वेषु धामसु ।
छिद्रं विद्यादधश्चोर्ध्वे बाह्ये नालं प्रयोजयेत् ॥२४॥
द्वादशाङ्गुलमारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
चतुर्विंशाङ्गुलं यावदायामं पञ्चधा भवेत् ॥२५॥
अष्टाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ।
तारं षोडशमात्रान्तं पञ्चधा परिकीर्तितम् ॥२६॥
समं त्रिपादमर्धं वा घनं छिद्रं तु मध्यमे ।
त्रिचतुष्पञ्चषण्मात्रं तारं तत्समनिम्नकम् ॥२७॥
मुलात् पञ्चत्रिभागं स्यादग्रं धारासमन्वितम् ।
घटितं सिंहवक्त्रेण किञ्चिन्मूलान्नताग्रकम् ॥२८॥
एवं नालं प्रकर्तव्यं वामे प्रासादमध्यमे ।
अन्तःपीठस्य नालस्य समं वा बहिरिष्यते ॥२९॥
अलङ्करणम्
विस्तरायाममुत्सेधं सर्वाण्यङ्गानि च क्रमात् ।
संक्षेपतः समादिष्टान्यलङ्कारमथोच्यते ॥३०॥
वृत्तग्रीवामस्तकं वैजयन्तं श्रीभोगं स्यात् कर्णकूटोपयुक्तम् ।
मध्येभद्रं श्रीविशालं तदेव वस्वस्त्रं चेच्छीर्षकं स्वस्तिबन्धम् ॥३१॥
वेदास्त्राभं तच्छिरः श्रीकरं स्याद् द्व्यस्त्रं वृत्तं हस्तिपृष्ठं हि नाम्ना ।
ऋत्वस्त्राभं शीर्षकं स्कन्दकान्तं तत्तन्नाम्ना तत्तदायामयुक्ते ॥३२॥
मध्ये भद्रयुतं कर्णकूटयुक्तं तु मस्तके ।
कोष्ठकं भद्रनास्यङ्गं वृत्तं वा गलमस्तकम् ॥३३॥
नाम्नैतत् केसरं प्रोक्तं युगास्त्रं वा गलं शिरः ।
पञ्चसप्तर्तुभागे तु त्रिद्व्यंशैर्मध्यभद्रकम् ॥३४॥
धामभेदाः
नागरं द्राविडं चैव वेसरं च त्रिधा मतम् ।
चतुरस्त्रायतास्त्रं यन्नागरं परिकीर्तितम् ॥३५॥
अष्टास्त्रं च षडस्त्रं च तत्तदायाममेव च ।
सौधं द्राविडमित्युक्तं वेसरं तु प्रकथ्यते ॥३६॥
वृत्तं वृत्तायतं द्व्यस्त्रं वृत्तं चान्यं प्रकथ्यते ।
स्थूप्यन्तं चतुरस्त्रं यन्नागरं परिकीर्तितम् ॥३७॥
ग्रीवात् प्रभृति वस्वस्त्रं विमानं द्राविडं भवेत् ।
ग्रीवात् प्रभृति वृत्तं यद् वेसरं तदुदाह्रतम् ॥३८॥
विमानतलदेवता
तले तले विमानानां दिक्षु देवान् न्यसेत् क्रमात् ।
पूर्वायां द्वारपालौ तु नन्दिकालौ च विन्यसेत् ॥३९॥
दक्षिणे दक्षिणामूर्ति पश्चिमेऽच्युतमेव हि ।
अथवा लिङ्गसम्भूतमुतरे तु पितामहम् ॥४०॥
मण्डपे मध्यदेशे तु दक्शिणे तु विनायकम् ।
तत्पूर्वे पश्चिमे वाऽपि नृत्तरूपं विशेषतः ॥४१॥
कात्यायनीमुदग्भागे क्षेत्रपालं तथैव च ।
स्थानकासनसंयुक्ता दिशामूर्तीर्न्यसेद् बुध॥४२॥
विशेषेण कथोपेतं रूपाण्यपि विधानतः ।
एवं मूलतले प्रोक्तमुपर्युपरि वक्ष्यते ॥४३॥
पुरन्दरं न्यसेत् पूर्वे सुब्रह्मण्यमथापि वा ।
दक्षिणे वीरभद्रः स्यान्नारसिंहश्च पश्चिमे ॥४४॥
उत्तरे तु विधाता स्याद् धनदो वा विधीयते।
एवं द्वितलविन्यासं त्रितले तु मरुद्गणान् ॥४५॥
तले तलेऽमरान् सिद्धान् गन्दह्र्वादिमुनीन् न्यसेत् ।
षोडश प्रतिमाश्चैव सर्वत्र परिकीरिताः ॥४६॥
ग्रीवाधस्तात् प्रतेरूर्ध्वे कोणे कोणे वृषान् न्यसेत् ।
सर्वेषामपि देवानां तत्तद्वाहनमीरितम् ॥४७॥
प्रदक्षिणावृतं तस्य सर्वदेवालये तथा ।
इत्येवमादिभिर्युक्तं विमानं सम्पदां पदम् ॥४८॥
कूटैर्नीडैस्तोरणैर्मध्यभद्रैयुक्तायुक्तं तत्तु सर्वाङ्गसोभम् ।
नानधिष्ठानाङ्घ्रिवेद्यादियोगं धाम प्रोक्तं तैतिलानां मयेह ॥४९॥
इति मयमते वस्तुशास्त्रे एकभूमिविधानं नामैकोनविंशोऽध्यायः