(शयनासनाधिकारः)
शयनानि
त्रिवितस्तिकृतव्यासं पञ्चवितस्त्यायतं च शयनं स्यात् ।
विस्तारायामाभ्यां त्रिःपञ्चममात्रमधिकं ज्येष्ठम् ॥१॥
चतुरङ्गुलेन पञ्चाङ्गुल्यैर्वा व्यासयुक्तमिषिकायाः ।
व्यासार्धं बाहल्यं व्यासत्र्यंशेन मध्यपट्टं स्यात् ॥२॥
व्यासत्रिचतुर्भागं बाहल्यं चैषिकायास्तु ।
पृष्ठललाटेऽधिकयोर्निर्गमनं व्यास एव कर्णे वा ॥३॥
पार्श्वेऽधिकाग्रमूले मध्यशिखा वा यथाबलं कुर्यात् ।
एवं निर्गमनं स्यात् पादाधिकयोर्यथाबलं कुर्यात् ॥४॥
श्रेष्ठकपादोद्गमनं सार्धवितस्तिर्वितस्तिरथ हीनम् ।
स्वोद्गमचतुरंशो वा त्र्यंशो वा पादमेव विष्कम्भम् ॥५॥
पादशयनेऽभिहिता ऋजुपादव्याघ्रपादमृगपादाः ।
ह्रस्वेऽधिकविद्धशिका स्वनामसदृशप्रकाराः स्युः ॥६॥
पर्यङ्कः
फलका पर्यङ्को वा पट्टविचित्राऽपि वाऽधिका कार्या ।
शयनविशालव्यासा तुङ्गं वै पादपट्टिकोपेता ॥७॥
तोरणमूर्ध्वापमिता कुण्डलकीलार्धसार्धबकतुण्डा ।
पर्यङ्कशिबिका कार्या विजयीविप्रादिप्रोष्टना किञ्चित् ॥८॥
पूर्वशिरः पर्यङ्कः दक्षिणमुखमनुवशमपि ।
दक्षिणतः शिरसं वा पश्चिममुखमन्यदिङ् नेष्टम् ॥९॥
व्याघ्रमृगपादशयनं द्विजनृपयोः शेषयोस्तु भुशशेषम् ।
आसनानि
नवसप्तपञ्चविंशत्यङ्गुलविस्तारतः समोत्सेधम् ॥१०॥
उत्कृष्टमध्यमाधमासनमृजुपादं शयनवत् कार्यम् ।
समचतुरस्त्रं पीठं ह्यासनमिति सायतं प्रोक्तम् ॥११॥
अष्टांशाधिकदैर्घ्यं द्विगुणायतमेव विशालं तु ।
सिंहेभभूतवृषयुग् देवानां विप्रनृपयोस्तु ॥१२॥
सिंहासनम्
सोत्तरमब्जकपोतमलिङ्गान्तरिताभिरभियुक्तम् ॥१३॥
नानाचित्रविचित्रं द्युसदां राज्ञां च वक्ष्येऽथ ।
उपपीठयुक्तमेतद्युक्तेऽर्थे पद्मन्धयुतमे तत् ॥१४॥
कर्णे मध्ये मध्ये स्तम्भमृगेन्द्रैर्विचित्रं स्यात् ।
तदुपरि तोरणयुक्तं सविचिकमथ हेमरत्नाढ्यम् ॥१५॥
सिंहासनमिदमुदितं मुनिभिर्यथाबलाङ्गसंयुक्तम् ।
एवद्व्यासं चासनफलकमपि द्विगुणदैर्घ्यकं पादम् ॥१६॥
पञ्चाङ्गुलान्तमुन्नतमुत्सेधार्थं तु वाजनं चोर्ध्वे ।
अपरार्धमुत्तर्म स्यात्तावद्व्यासं तदन्तरं खातम् ॥१७॥
व्यासायामे मध्ये पञ्चंशैकांशमायतं च ततः ।
विष्टरमिष्टोत्तरमायतनं चोत्तरमन्यथाशान्तम् ॥१८॥
जात्युत्तमायतव्यासासनशयनी यथा तथा चेष्टाः ।
उक्तोत्सेधायामाः स्वस्वांशेनैव वर्धिता हीनाः ॥१९॥
पूजापीठम्
आद्यं षडङ्गुलं स्याद् द्व्यङ्गुलवृद्ध्या करान्तमानं च ।
दशधा विस्तृतमुदितं चतुरङ्गलविपुलमपि वदन्त्येके ॥२०॥
चतुरस्त्रमायतास्त्र वृत्तं विपुलार्धमुत्तुङ्गम् ।
व्यासषडष्टांशं वा हरिचरणयुतं सकम्पवाजनकम् ॥२१॥
तदुपरि पद्मदलं स्यात् कर्णिकयालङ्कृतं यथाशोभम् ।
शोभनमिदमिदमुदितं सर्वं देवेषु पूजितं ह्येव ॥२२॥
नानाचित्रसमेतं सुगृहार्चनपीठमेवमिदमुदितम् ।
न्यग्रोधोदुम्बरवटपिप्पलबिल्वामलसारदारुमयम् ।
ते सर्वे योग्याः स्युः पीठेऽस्मिन् सर्वसिद्धकरणीये ॥२३॥
आयादि
अष्टधनरश्मिरिभतुर्यग्रहवृद्ध्या
भानुदिशि सर्पभसनन्दऋषिहारैः ।
आयव्ययगुह्यमुड्वाय्वंशमितिवारैः
यानशयनविधिरथासनमिदं स्यात् ॥२४॥
इति मयमते वस्तुशास्त्रे शयनाधिकारो नाम द्वात्रिंशोऽध्यायः