अथ द्वितोयोऽध्यायः
(वस्तुप्रकारः)
वस्तुभेदाः
अमर्त्याश्चैव मर्त्याश्च यत्र यत्र वसन्ति हि ।
तद् वस्त्विति मतं तज्ज्ञैस्तद्भेदं च वदाम्यहम् ॥१॥
भूमिप्रासादयानानि शयनं च चतुर्विधिम् ।
भूरेव मुख्यवस्तु स्यात्तत्र जातानि यानि हि ॥२॥
प्रासादादीनि वास्तूनि वस्तुत्वाद् वस्तुसंश्रयात् ।
वस्तून्येव हि तान्येव प्रोक्तन्यस्मिन् पुरातनैः ॥३॥
वर्णगन्धरसाकारदिक्शब्दस्पर्शनैरपि ।
परीक्ष्यैव यथायोग्यं गृहीतावधिनिश्चिता ॥४॥
भूमिभेदाः
या सा भूमिरिति ख्याता वर्णानां च विशेषतः ।
द्विविधं तत् समुद्दिष्टं गौणमङ्गीत्यनुक्रमात् ॥५॥
ग्रामादिन्येव गौणानि भवन्त्यङ्गी मही मता ।
सभा शाला प्रपा रङ्गमण्डपं मन्दिरं तथा ॥६॥
प्रासाद इति विख्यातं शिबिका गिल्लिका रथम् ।
स्यन्दनं चैवमानीकं यानमित्युच्यते बुधैः ॥७॥
मञ्चं मञ्चिलिका काष्ठं पञ्जरं फलकासनम् ।
पर्यङ्क बालपर्यङ्कं शयनं चैवमादिकम् ॥८॥
भूप्राधान्ये हेतुः
चतुर्णामधिकाराणां भूरेवादौ प्रवक्ष्यते ।
भूतानामादिभूतत्वादाधारत्वाज्जगत्स्थितेः ॥९॥
वर्णानुरूपा भूमिः
चतुरस्त्रं द्विजातीनां वस्तु श्वेतमनिन्दितम् ।
उदुम्बरद्रुमोपेतमुत्तरप्रवणं वरम् ॥१०॥
कषायमधुरं सम्यक् कथितं तत् सुखप्रदम् ।
व्यासाष्टांशाधिकायामं रक्तं तिक्तरसान्वितम् ॥११॥
प्राङ्निम्नं तत् प्रविस्तीर्णमश्वत्थद्रुमसंयुतम्।
प्रशस्तं भूभृतां वस्तु सर्वसम्पत्करं सदा ॥१२॥
षडंशेनाधिकायामं पीतमम्लरसान्वितम् ।
प्लक्षद्रुमयुतं पूर्वावनतं शुभदं विशाम् ॥१३॥
चतुरंशाधिकायां वस्तु प्राक्प्रवणान्वितम् ।
कृष्णं तत् कटुकरसं न्यग्रोधद्रुमसंयुतम् ।
प्रशस्तं शूद्रजातीनां धनधान्यसमृद्धिदम् ॥१४॥
एवं प्रोक्तो वस्तुभेदो द्विजानां भूपानां वै वैश्यकानां परेषाम् ।
योग्यं सर्व भूसुराणां सुराणां भूपानां तच्छेषयोरुक्तनीत्या ॥१५॥
इति मयमते वस्तुशास्त्रे वस्तुप्रकारो
नाम द्वितीयोऽध्यायः