संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
द्वात्रिंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - द्वात्रिंशोऽध्यायः

श्रीशिवरहस्यम्


देवी -
कुरुक्षेत्रं गता गङ्गा उत्कृष्टेति त्वयोदितम् । कुरुक्षेत्रस्य माहात्म्यं वद सर्वसुरोत्तम ॥१॥
सूतः -
इत्थं देव्या महादेवः पृष्टो वचनमब्रवीत् । श्रृणु देवि कुरुक्षेत्रमहिमां मत्कृपाबलात् ॥२॥
कुरुसंवरणो नाम राजाऽभूत् सोमवंशजः । स राज्यं प्राप्य मेधावी वनेऽस्मिन् पावने मम ॥३॥
नानादुमशतोपेतं फलपुष्पविराजितम् । आश्रमं तं द्विजैर्युक्तं प्रशान्तं हरिमेधसः ॥४॥
प्रशान्तवैरैर्मुनिभिर्मृगैरन्योन्यवत्सलैः । तद्वनं स नृपो गत्वा ददर्श हरिमेधसः ॥५॥
दृष्ट्वा मुनिवरं राजा प्रणतः पादयोस्तदा । निषसाद तदुद्दिष्टे विष्टरे नृपसत्तमः ॥६॥
तं पूजयित्वा राजानं हरिमेधा मुनिस्तदा । प्राह तं विनयोपेतं राजानं प्राञ्जलिं स्थितम् ॥७॥
सोमान्वयसुधासिन्धोश्चन्द्रस्त्वमसि प्रार्थिव । एकाकी विपिने घोरे कथं मां समुपागतः ॥८॥
स्वसैन्यवर्जितो राजा गजवाजिसमाकुलः । तदा मुनिं स विनयात् प्राह राजा कृताञ्जलिः ॥९॥
राजा -
मृगयाव्यपदेशेन भवन्तं द्रष्टुमागतः । दृष्ट्वा तां मुनिशार्दूल धन्योऽस्म्यद्य कृपां कुरु ॥१०॥
निवासो मम धन्यो हि देशः कश्चिद्विधीयताम् । पशव्यश्च सदोषध्यः प्रभूतसलिलो महान् ॥११॥
मान्यस्त्वं मुनिशार्दूल ध्यात्वा दिव्येन चक्षुषा । इत्थं संवरणप्रोक्तं वचः श्रुत्वा तदा ऋषिः ॥१२॥
राजानं स तदा प्राह विनयानतकन्धरम् ।
मुनिः -
श्रृणु वृत्तं पुराश्चर्यं राजन् मत्तः प्रवर्तितम् । तप्तवानस्मि सुमहत् तपो दीर्घं पुरा नृप ॥१३॥
एतस्मिन्नेव विपिने सदा मुनिजनावृते । भस्मोद्धूलितसर्वाङ्गो रुद्रसूक्तजपादरः ॥१४॥
रुद्राक्षमालाभरणो रुद्रलिङ्गार्चकः सदा । पञ्चाक्षरपरो नित्यं निवसामि ऋतून् बहून् ॥१५॥
पञ्चाग्निमध्यनिरतः पञ्चास्यध्यानतत्परः । तपोयुक्तं सदा मां हि वेदवेद्यो महेश्वरः ॥१६॥
प्रादुरासीद्वृषारूढः सांबिकश्च त्रिलोचनः । गणबृद्धैः परिवृतो नानालङ्कारभूषितः ॥१७॥
प्रणम्य तत्पदद्वन्द्वं भक्त्या तमहमस्तुवम् ॥
हरिमेधाः -
शम्भो मत्तेभकुम्भस्थगित महावृत्तम्रंभाभाण
दग्धापस्मार शिक्षाक्षपितक्लुषपादाक्षपादादिवन्द्य ।
द्वन्द्वातीताव्ययेश श्रुतिशिखरगताकाशकोशाश्रयेश
धीरा धृत्या...कराग्रतोलनमिषादान्दोलितस्ते गिरिः ॥१८॥
भीतां बाहुतलेन कण्ठमिलनाज्जातक्रुधं त्वां शिवं ।
त्वत्पादाग्रनिघर्षनिम्नगिरिराण्मृलस्थितैः स्वैः करैः ।
देवं स्तौति तदार्तनादविवशो वेदैस्तदा रावणः ॥१९॥
संराजं त्वामध्वराणां महेशं होतारं त्वा सत्यजयं रोदस्योः ।
विभ्राजं त्वां देवमीशानतोऽस्मि ताम्रं शम्भुं विश्वमीशानमाद्यम् ॥२०॥
इति मत्स्तोत्रजातेन तुष्टः कष्टहरः शिवः । प्राह मां प्रणतो देवो नीलकण्ठो महेश्वरः ॥२१॥
ईश्वरः -
श्रृणु विप्रानया स्तुत्या भक्त्या तुष्टोऽस्मि सांप्रतं ।
लिङ्गेऽस्मिन् संवसाम्यद्य त्वया बिल्वादिपूजिते ॥२२॥
कुरुजाङ्गलमेतच्च पुण्यं क्षेत्रं भविष्यति । कुरुक्षेत्रेश्वरश्चाहं लिङ्गे नित्यं वसाम्यहम् ॥२३॥
गङ्गापि परितो देव क्षेत्रं संप्लावयिष्यति । कुरुक्षेत्रकृतं पुण्यं महच्चैव भविष्यति ॥२४॥
सोमवंशे कुरुर्नाम भविष्यति नृपात्मजः । स यदा त्वां समागत्य परिपृच्छत्यनामयम् ॥२५॥
तस्मै मदुक्तिसर्वस्वं ब्रूहि त्वं वदतां वर । स चात्र नगरं श्रेष्ठं राजा विस्तारयिष्यति ॥२६॥
प्राकारपरिखोपेतं नानासौधविराजितम् । शस्त्रास्त्रयन्त्रशोभाढ्यं चातुर्वर्ण्यजनाश्रयम् ॥२७॥
विपणापणसन्धानचत्वरं वनशोभितम् । मम लिङ्गालयं पुण्यं सप्रकारं सगोपुरम् ॥२८॥
नानामण्टपशोभाढ्यं कुरुक्षेत्रेश्वरस्य मे । नानावाहनशोभाढ्यं महारथवैर्रयुतम् ॥२९॥
कारयिष्यति भूपालस्तत्र कालः प्रतीक्ष्यताम् ।
मुनिः -
कालप्रतीक्षा हि मया शिवाज्ञापरिपालकः । निवसामि महाबाहो क्षेत्रेऽस्मिन् कुरुजाङ्गले ॥३०॥
लिङ्गमेतन्महेशस्य भूरिबिल्वैः समर्चयन् । मुनिभिः शांभवैरेभिर्भवन्मार्गप्रतीक्षकः ॥३१॥
लिङ्गं मङ्गलदं प्रपश्य वसुधाधीशाद्य कष्टापहं
दृष्टं जन्मजरादिरोगजनितामृत्यादि (?) दुःखोत्करम् ।
हन्त्येवापदमुत्तमं शिवजनैः संपूजितं कष्टहृत्
तुष्टस्त्वय्यैखिलाघहारकहरोत्कृष्टां विमुक्तिं त्वयि ॥३२॥
दास्यत्येव सदा हि भाग्यमतुलं जुष्टं स वै शङ्करः ।
इतः परं भवान् राजा कार्यस्यास्य परायणम् ॥३३॥
इत्थं मुनिवचोवीचीजातानन्दकुतूहलः । कुरुस्तमाह विनयाद्धरिमेधं द्विजोत्तमम् ॥३४॥
राजा -
कथं जाङ्गलमेतद्धि मम वासाय कल्पते । नानामृगगणाकीर्णं नानाशार्दूलसेवितम् ॥३५॥
सुरम्यं चत्वरोपेतं नगरं मुनिसत्तम । कथमेतद्भवेद्भद्गं उपायश्चात्र कथ्यताम् ॥३६॥
स मुनिस्तं कुरुं प्राह देववाक्यं मुनिस्तदा ।
मुनिः -
तपसा साधयेत् सर्वं शिवाद्देवोत्तमोत्तमात् । इत्युक्त्वा तं नृपं विप्रो दीक्षयित्वा विधानतः ॥३७॥
प्राह पञ्चाक्षरं मन्त्रं राजानं भस्मभूषणम् । जजाप शतरुद्रीयं कुरुक्षेत्रेशमर्चयन् ॥३८॥
बिल्वपत्रैस्तथा पुण्यैर्धूपैर्दीपैर्मनोहरैः । नैवेद्यैः पायसापूपैः सदन्नैः कल्पयन् नृपः ॥३९॥
तन्नैवेद्यैः शाम्भवानां भोजनानि तदा व्यधात् । प्रदक्षिणनमस्कारैः स्तोत्रैश्च विविधैरपि ॥४०॥
प्रणम्य देवं तुष्टाव स नृपो मुनिना सह ।
स्तुतिनुतविबुधाद्यपादपादं दमितानेकसुरद्रुहोरुपादम् ।
यमिमानसपद्मलीलपादं भज कालानलभीतिदोग्रपादम् ॥४१॥
विषमाक्षमलुक्ष(?)बद्धिवीक्षं विधिविष्ण्वाद्यमरादिवृन्दवीक्षम् ।
रणदक्षं जगतो‍ऽखिलैकभक्षं भज दक्षाध्वरनाशने सुदक्षम् ॥४२॥
वीक्षाशिक्षितमन्मथं सुरगणाध्यक्षं महोक्षाङ्गगम् ।
कुक्षिस्थाखिललोकजालमुमया ध्यायेन्मृगाक्षिक्षयम् ॥४३॥
सूतः -
इत्थं स राजा विविधस्तुतिभिः सपर्यया पूज्य महेशलिङ्गम् ।
स्तुवन् मुनीनां पुरतो ददर्श गौर्या वृषस्कन्धगतं तदा माम् ॥४४॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे कुरुक्षेत्रमाहात्म्ये राज्ञः शिवदर्शनवर्णनं नाम द्वात्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP