संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| पञ्चत्रिंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - पञ्चत्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव पञ्चत्रिंशोऽध्यायः Translation - भाषांतर ईश्वरः - श्रृणु देवि कथामेकां ब्रह्मणः परमाद्भुताम् । यां श्रुत्वा मयि विन्दन्ते भक्तिं सर्वार्थदायिनीम् ॥१॥सत्यलोके स्थितो ब्रह्मा यियक्षुरभवच्छिवे । स्वहस्तपद्मं धाता च पातयामास भूतले ॥२॥क्षेत्राणामुत्तमे तन्मे पुष्करे पुष्करं तदा । तत्र मे संस्थितं पूर्वं पुष्करेश्वरसंज्ञितम् ॥३॥लिङ्गं मङ्गलदं पुण्यं तन्मौलौ नलिनं पतत् । वेणुगुल्मावृतं भद्रं नानावृक्षसमन्वितम् ॥४॥तत्राम्तरेऽभवद्वाणी श्रुत्वा(?) वाणीपतिस्तदा ॥वाणी - एतद्विधातः क्षेत्रणामुत्तमं पुष्करं शिवम् । यजतो देवयजनं तव भृयात् सुपावनम् ॥५॥पुष्करं ते यतः पुण्यं पतितं पुष्करं हि तत् । अत्र लिङ्गमिदं श्रेष्ठं देवदेवस्य शूलिनः ॥६॥ पश्य संपूजयात्रैव कार्तिकोऽयं सुपावनः । मासो हि पुण्यनिलये गङ्गेयं पावनी सरित् ॥७॥कार्तिके सोमवारेषु पुष्करे पुष्करेश्वरम् । यः समर्चयिता गत्रौ बिल्वैर्द्रोणैश्च धुत्तुरैः ॥८॥तस्य पुण्यस्य नान्तोऽस्ति स च शङ्करवल्लभः । तदा वाणीवचः श्रुत्वा विश्वकर्माणमाह्वयत् ॥९॥ब्रह्मणा स्मृतमात्रः स विश्वकर्मा ततो विधिम् । प्राह किं करवाणीति क्षेत्रं विस्तारयेति तम् ॥१०॥व्यधाद् वेधास्तदा शालामाश्रमं सरितस्तटे । मण्टपं गोपुरं दिव्यं पुष्करेशस्य शूलिनः ॥११॥तद्ब्रह्मणोवचः श्रुत्वा नानाशिल्पसमन्वितः । शालां निर्मापयामास नानामण्टपशोभिताम् ॥१२॥भक्ष्यैर्भोज्यैस्तथैवान्नैः सूपापूपैर्मनोरमेः । वाससां राशयस्तत्र ब्राह्मणावसथादयः ॥१३॥पुष्करेश्वरलिङ्गस्य चक्रे सोऽपि शिवालयम् । प्राकारगोपुरोपेतमाश्रमैः सुमनोहरम् ॥१४॥तत् पितामहवाक्येन विश्वकर्माऽथ शिल्पिराट् । विज्ञप्तुमथ ब्रह्माणं सत्यलोकं गतस्तदा ॥१५॥तत्र सन्ति महाशैवाः पुष्करैशसमर्चकाः । बिल्वपत्रादिभिः सम्यक् ते सर्वे भस्मभूषणाः ॥१६॥रुद्राक्षहारवलयत्रिपुण्ट्रपरिशोभिताः । निवसन्ति महाशैवाः पुष्करैः पुष्करेश्वरम् ॥१७॥समर्चयन्ति नियतं भक्त्या बिल्वैश्च कोमलैः । तत्तत्कालेन देवेशि पुष्करं मे सुरासुरैः ॥१८॥समागतो मुदा यष्टुमश्वमेधेन तत्र हि । ऋषिभिः सह पत्न्या च दृष्ट्वा नत्वा महेश्वरम् ॥१९॥ब्रह्मा - शंभो गाथपतिर्भवान् पशुपतिर्मेधापतिस्त्वं पतिः सोमः शौम्ययुतो मदीयमधुना सोमं पिबस्वाध्वरे ।मह्यं देव दयां निधेहि सततं श्रीपुष्करेश प्रभो पूर्णां च श्रियमीश्वर प्रतिपदं चायुःशतं मे स्तुहि ॥२०॥वाजैः शांभवपुङ्गवान् हि भजतो मा त्वा वधीर्दुष्कृतं मारातीर्जहि रङ्ग्यज्ञमधुना रक्षांसि नः संहर ।यामे प्रजा अमृताः सन्तु सर्वा नार्यो नरा गोपगणाश्चापि शंभो ॥२१॥मेषाश्वादिपशून् निवेद्य भवते त्वत्तः पशूनां पते ।लब्ध्वाज्ञां नियुनज्मि वेदवचसा त्वं मेऽद्य सत्रावनः ॥२२॥इत्थं मां स शिवे स्तुत्वा आजुहाव सरस्वतीम् । मानसः (?) सरसस्तस्माद्ब्रह्माहूता सरस्वती ॥२३॥प्लावयामास तद्देशं पयोभिः साधुशीतलैः । पुष्करं सा समागत्य गङ्ग्या सङ्गता तदा ॥२४॥सरस्वत्याश्च गङ्गायाः सन्धौ वेद्यभवत् तदा । ब्राह्मणैश्च महेशानि ऋतिग्भिः स पितामहः ॥२५॥दीक्षितः सह पत्न्या च विष्ण्वादिसुरसत्तमैः । मुक्तः स तुरगस्तस्य पृथिवीं सञ्चचार च ॥२६॥पुनः काले तदा देवि प्रवर्ग्यैर्जुहुवुर्द्विजाः । संचितोऽग्निर्द्विजैस्तस्य सहिरण्येष्टकोऽभ्विके ॥२७॥स्वाद्वन्नो वाससा युक्तो नानाश्चर्यकरोऽभवत् । भुञ्जतां विप्रसङ्घानां नानाभक्षसमन्वितम् ॥२८॥नासीदन्तो महेशानि तत्र हृष्टोऽभवज्जनः । वेदघोषो द्विजानां हि नानावाद्यरवो महान् ॥२९॥मृदङ्गदुन्दुभिरवैर्ननृतुश्चाप्सरोवराः । विद्याधराः किंपुरुषा नारदाद्या महर्षयः ॥३०॥सर्वे समागतास्तत्र पितामहमखोत्सवे । यूपास्तथोच्छ्रिताः सर्वे हिरण्यस्राविणः शिवे ॥३१॥ततोऽश्व प्राविशत् पत्नी तस्मिन् कर्मणि नागता । मण्डयन्ती स्वकाङ्गानि देवपत्नीभिरादरात् ॥३२॥विलम्बितायां सावित्र्यामाजुहावात्रिरादरात् ॥अत्रिः - पत्नीवान् वेधसोऽप्याद्यो यज्ञोऽयं भविता त्वया । किं विलंबेन सावित्रि मा तेऽभूत् कालविप्लवः ॥३३॥इत्थं सात्रिवचः श्रुत्वा ययौ तत्सदमबिके । एतस्मिन्नन्तरे शुद्धः शक्रमाहूय सोज्वलः ॥३४॥ब्रह्मा - गच्छ गच्छाधुना शक्र पत्नीमन्यां नियोजय । अङ्गत्वं वेदवाक्येन अपहाय यजामि ताम् ॥३५॥श्रुत्वा स ब्रह्मणो वाक्यं शक्रोऽगच्छन्निरीक्षितुम् । तत्राभीरसुतां कांचित् जगृहे रूपसंयुताम् ॥३६॥ भूषणैर्मण्डयित्वा तां तत् सदः समुपानयत् । अध्वर्युमत्रिं क्रोधेन दीक्षयेति तदा विधिः ॥३७॥प्राह संश्रृण्वतां तत्र द्विजानां तद्द्विजोऽब्रवीत् ॥अत्रिः - मा तेऽन्यथाद्य कर्तव्यं सावित्र्यपि समागता । दीक्षितस्य न वै मन्युरिति वेदानुशासनम् ॥३८॥तदत्रिणो वचो ब्रह्मा समुल्लङ्घ्यात्रिमाह हि । दीक्षयस्त्वेति च पुनः क्रोधामर्षसमन्वितः ॥३९॥तामत्रिर्दीक्षयामास ब्रह्मणोऽनुमते तदा । तया स तुरगो विप्रैस्तत्र संवेशितस्तदा ॥४०॥एतस्मिन्नन्तरे क्रुद्धा सावित्री तं सुरेश्वरम् । शशाप कुपिता देवमत्रिं ब्रह्माणमेव च ॥४१॥सावित्री -पराजितो दैत्यवर्गैर्निःश्रीकश्च भविष्यसि । नहुषो भविता शत्रुः शची तमुपतिष्ठताम् ॥४२॥तथात्रिं सा शशापैवं सावित्री क्रोधामूर्छिता ।सावित्री - आत्रेया ब्राह्मणाः सर्वे निःश्रीकाश्चोंजीविनः । अत्रे त्वं भविता पुत्रैर्विहीनो मम वाक्यतः ॥४३॥असङ्घातो द्विजानां हि भूयादेव न संशयः । स्वमर्तारं तदा प्राह क्रोधाच्चक्षूंषि वर्तयत् ॥४४॥न प्रतिष्ठा भवेद् धातस्तव लोकेषु दुर्हृदः । हरेण तेऽद्य दृष्टेन शिरश्छिन्नं भविष्यति ॥४५॥सावित्री विष्णुमाहेत्थं दह्यमाना सुरासुरान् । यस्मादाभीरकन्यां त्वं दृष्ट्वापेक्षितवानसि ॥४६॥तस्मादाभीरवंशस्त्वं भविता द्वापरे भवान् । चाक्षुषे भविता यज्ञो दक्षस्य सुमनोहरः ॥४७॥तत्र रुद्रेण देवाश्च ऋषयोऽपि सुदण्डिताः । भवन्ति मम शापेन नात्र कार्या विचारणा ॥४८॥इत्युवाच च सावित्री तस्थौ चित्रार्पितेव सा । सर्वे शप्ताः सुसंत्रस्ताः खिन्ना ब्रह्मसदो गताः ॥४९॥तां विष्णुः सान्त्वयामास सर्वेषां (?) सुरसंसदि ॥विष्णुः - मैवं शप विशालाक्षि भर्ता ते पद्मसंभवः । भर्तुः प्रियहिते युक्ता सा सावित्री पतिव्रता ॥५०॥त्वं वेत्सि सर्वधर्माणां सारं देवि न संशयः । त्वया सहायं कल्याणि दीक्षां परमिकां गतः ॥५१॥अश्वमेधो महायज्ञः पुष्करेषु प्रवर्तते । प्रियोऽत्यन्तं महेशस्य ऋत्विग्भिश्च यथाविधि ॥५२॥धर्मपत्नी तथा ज्येष्ठा सर्वधर्मप्रवर्तनी । तवेयं सखिभावेन वर्ततां लोकसुन्दरी ॥५३॥इत्युक्त्वा तां तदा कन्यां गायत्री पादयोर्नताम् । विष्णुय्वाक्यगतामर्षा सावित्री परिषस्वजे ॥५४॥ब्रह्मणे च वरो दत्तः सावित्र्या सान्त्वितो विधिः ।सावित्री - यत् छिन्नं ते भवेच्छीर्षं भूयाल्लोकहिताय हि । कार्तिक्यां पुष्करे ब्रह्मन् तव भूयान्महोत्सवः ॥५५॥इत्युक्त्वा प्राविशच्छालां तया चाभीरकन्यया । पुष्करेष्वभवद्यज्ञः स्वाद्वन्नो भूरिदक्षिणः ॥५६॥ईश्वरः - ततः स ववृधे यज्ञो ब्रह्मणः परमेष्ठिनः । तस्मिन् क्षेत्रे पुष्करे च ये स्थिताः शांभवोत्तमाः ॥५७॥नैव संपूजितास्तेन दानमानासनादिभिः । ते पुष्करेशमासाद्य तुष्टुवुः शरणागताः ॥५८॥शांभवाः - श्रीपुष्करेश तव भागवतानथास्मान् बिप्रांश्च शांभववरानपहाय दर्पात् ।विश्वेश्वरस्तव महाजनिमार्चकांश्च ब्रह्माप्ययं धनगणैः सहितोरुगोभिः ॥५९॥विप्रान् समर्चयति नैव भवत्प्रपन्नानस्मान् महेशशरणानपहाय कष्टम् ।त्वत्पादसंसेवनजातहर्षान् किं भाग्यजातनिकरैश्च विनश्वरैर्नः ॥६०॥तद्गर्वपर्वत महाकुलिशस्त्वमीश शम्भो सदा शांभवदानतुष्टः (?) ॥६१॥इति विप्रैस्तदा देवि स्तुतोऽहं भस्मभूषणः । दिगम्बरः शूलकरः पादुकाविलसत्पदः ॥६२॥ब्राह्मं कपालमादाय तच्च यज्ञसदं गतः । निवारितो ब्रह्मगणैः सदाहमतिरस्कृतः ॥६३॥हुङ्कारेणाथ तान भर्स्त्य लोलनेत्रयुगेx च । मत्तद्विरदसंकाशो गतस्तत्सुरसंसदम् ॥६४॥केचिदूचुरहो मत्तः क्कायं यज्ञः सधृक् क्क तु । नग्नः सदाशुचिः कष्टं कपालोद्यत्करः कथम् ॥६५॥श्वभिः समावृतः पापो हा कष्टं किमुपस्थितम् । विप्राणां वदतां तत्र सुराणां च महेश्वरि ॥६६॥तदनादृत्य वाक्यानि ब्रह्माणं समुपस्थितः । ऋत्विग्मिश्च सदस्यैश्च विष्ण्वादिविबुधैर्वृतम् ॥६७॥तमवोचं महादेवि धर्म्यसप्राकृतं वचः ।ईश्वरः - अहो धर्म्यो महायज्ञः पुष्करेषु प्रवर्तते । स्वाद्वन्नश्चाश्वमेधोऽयं ब्राह्मोऽयं बहुदक्षिणः ॥६८॥श्रुत्वाहं क्षुधयाविष्टो भोक्तुमभ्यगतः सदाः । इति मद्वचनं श्रुत्वा ब्रह्मा प्राह तदांबिके ॥६९॥ब्रह्मा - यज्ञोऽयं क्षुच्छ्रमैर्हीनो यथा जोषं जुषस्व मे । अन्नं च विविधं भिक्षो वासांस्युच्चावचानि मे ॥७०॥तच्छुत्वा ब्रह्मणो वाक्यं श्रुत्वा हर्षात् पुनर्विधिम् । अवोचं श्रृण्वतां तेषां विप्राणां ससौरैः सह ॥७१॥ईश्वरः - सरस्वत्यामथ स्नात्वा दृष्ट्वा श्रीपुष्करेश्वरम् । पश्चाद्भोक्ष्येऽद्य नियमो मया स्वीकृत एव हि ॥७२॥यास्यामीति तदा वेधाः कपालं स्थापितं मया । तदैवान्तर्हितः सौम्ये सुराणां तत्र पश्यताम् ॥७३॥विस्मिताश्चाभवन् सर्वे भूसुरास्ते सुरैः सह । इदमूचुर्वचः सर्वे कपालं स्थापितं क्क तु ॥७४॥अशुच्यन्तर्बहिर्वेद्यां त्यजन्तु परिचारकाः । इत्थं श्रुत्वा तत्कपालं त्यक्तं ब्रह्मगणैः शिवे ॥७५॥पुनस्तत्सदृशं तत्र तथैव समवस्थितम् । श्रान्तास्ते ब्रह्मपुरुषाः कपालवहनादुमे ॥७६॥ना(?)न्तो न दृश्यते तत्र कपालानां च राशयः । एवं ते विस्मयाविष्टा हरिब्रह्मादयः सदा ॥७७॥दृष्ट्वाश्चर्यकरं तत्र महेशस्य विचेष्टितम् । तुष्टुवुर्मां तदा देवि ब्रह्माद्या विबुधास्तदा ॥७८॥ब्रह्माद्याः - त्वं राजा मखभाङ्महेश सततं त्वामाह्वयन्तेऽध्वरे साम्ना ऋय्ग्गणयाजुषैः प्रतिपदं रुद्रोऽग्निरित्याह हि ।त्वन्मायाधिगमेन मोहमतयः सर्वामरैस्तुल्यतां दृष्ट्वा त्वामधिगम्य कष्टमखिलं त्यक्त्त्वा प्रमोदामहे ॥७९॥अहो देव मुग्धेन्दुचूड प्रसीद निषद्यादिबर्हिस्त्वमीशान तुष्टः ।प्रकृष्टं महाकष्टजालं ममाधं हरस्वेश शम्भो प्रसीद प्रसीद ॥८०॥यया मायया मोहमायान्ति सर्वे तवाङ्गे निषण्णा भवानीति गीता ।भवान् मायिमायी भवानादिकर्ता भवत्तोऽखिलं जातमेदद्विचित्रम् ॥८१॥इत्थं स्तुतोऽहं देवेशि तैस्तदा दर्शितं मया । रूपं त्रिलोचनं सांबं नीलग्रीवं त्रिशूलकम् ॥८२॥पुनः पुरणेमुर्मां दृष्ट्वा ब्रह्मविष्णुसुरा द्विजाः । तदा प्राञ्जलयः सर्वे मां स्तुवन्ति तदांऽबिके ॥८३॥ब्रह्माद्याः - विश्वाधिकस्त्वं भगवान् महर्षिः हिरण्यगर्भ जायमानं च पश्येः ।सत्यं देवः शुभया माम हि बुद्ध्या नियोजयस्वाशु महेश शम्भो ॥८४॥त्वत्तः परं नापरमस्ति किंचित् त्वत्तो नाणीयान् न समश्चाधिको वा ।वृक्ष इव त्वं स्थाणुरीशश्च नित्यस्त्वया पूर्ण जगदेतद्विचित्रम् ॥८५॥न जानन्ति वेदा न जानन्ति देवा न जानति त्वामात्मसंस्थं महेशम् ।प्रकृष्टोरुपुण्यैर्यदि त्यक्तमोहो भवत्पादसक्तो भवेत् तस्य सिद्धिः ॥८६॥ईश्वरः - देवि तेषां स्तुतिं श्रुत्वा तानवोचं प्रहर्षितः । पुष्करे संस्थिता विप्रा मत्पादशरणास्तथा ॥८७॥क्षेत्रिणो भवता पूज्यास्तथान्येऽपि मुनीश्वराः । क्षेत्रमागत्य यः कोऽपि क्षेत्रस्थान् पूजयेत्पुरः ॥८८॥अथान्यानर्चयेत् पश्चाद्यदि पात्नानहो विधे । मद्भक्ताः शांभवश्रेष्ठा भक्तपूजा ममेष्टदा ॥८९॥विहाय भक्तान् मय्येव अन्यं संपूजयन्ति ये । तैः कष्टं प्राप्यते ब्रह्मन् पुष्करेऽन्यत्र वा सदा ॥९०॥पुष्करे त्वत्कृतो यज्ञः स्वाद्वन्नो बहुदक्षिणः । मत्प्रीतिजनको जातः फलं तेऽष्टगुणं भवेत् ॥९१॥यस्तु पुष्करमासाद्य नानाधर्मगणं चरन् । तस्याष्टगुणितं भूयादिति मे व्रतमाहितम् ॥९२॥एतत्कपालानुगुणं जाताः पूर्वें पितामहाः । सप्रजानि व्यतीतानि मन्वन्तरशतानि च ॥९३॥अस्मिन् संसारचक्रे त्वं मा गर्वं वह पद्मज । प्रणम्य मां तदा ब्रह्मा तान् विप्रान् पूजयत्तदा ॥९४॥गोभिरन्यैश्च वासोभिः शांभवान् पुष्करस्थितान् । स्नानार्थं सरसस्तस्मादानीतेयं सरस्वती ॥९५॥ज्येष्ठं पुष्करमासाद्य तरङ्गावलिभासुरा । तत्रावभृथमासाद्य रराज स पितामहः ॥९६॥सावित्र्या चैव गायत्र्या ऋत्विग्भिश्च सुरासुरैः । पुष्करेशं समभ्यर्च्य स्तोत्रमेतज्जगाद च ॥९७॥ब्रह्मा - यं विभेय विमृशामहे शतम् । निदधामोऽञ्जलिजालव्रतैः ॥९८॥अनेकविधि कल्पितं हर कपालमालाधर हरस्व विलसच्छ्रुतिप्रभव पापतापापह ।अखर्वजनिदुर्दशां प्रतिपदं विनाशाशुभं महेश जनिमार्जनाद्भव भवादिबन्धं हर ॥९९॥ईश्वरः - स्तुत्वा मां स तदा ब्रह्मा प्रणम्याथ जगौ सुरान् ॥१००॥पुष्करे दुष्करो वासः पुष्करे दुष्करं तपः । पुष्करे दुष्करं दानं पात्रं तत्र सुदुष्करम् ॥१०१॥सरस्वती पुण्यतमा तदा याता महार्णवम् । कार्तिंक्यां तु विशेषेण स्नानं पुण्यं हि पुष्करे ॥१०२॥सूतः - इत्थं स वेधाः प्रजगाम चोक्त्वा देवैः स्वलोकं परमं मुनीन्द्रैः ।यः पुष्करं संस्मरति दिने दिने न तस्य पापानि भजन्ति वृद्धिम् ॥१०३॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे पुष्करमाहात्म्ये ब्रह्मयज्ञ - पुष्करेशलीलावर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP