संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
षोडशोऽध्यायः

भर्गाख्यः पञ्चमांशः - षोडशोऽध्यायः

श्रीशिवरहस्यम्


राजा -
सोमराजेश्वरं लिङ्गं सोमराज्ञा प्रपूजितम् । इत्युक्तं च त्वया नन्दिन् तेन संपूजितं कथम् ।
तदाख्यानविशेषं मे सर्वं कथय विस्तरात् ॥१॥
सूतः -
स राज्ञो वचनं श्रुत्वा नन्दिकेशः शिवार्चकः । शिवपादाम्बुजं ध्यात्वा शांभवपुङ्गवान् ॥२॥
बृहद्बलं च राजानं गणेशो नन्दिकेश्वरः । प्राहं तं शांभवं विप्राः शैलादिर्गिरिजे तदा ॥३॥
नन्दिकेशः -
अत्रेतिहार्स वक्ष्यामि सावधानमनाः श्रृणु । बृहद्बल महाभाग शांभवैः सह सादरम् ॥४॥
पञ्चाशत् कन्यकाश्चासन् दक्षस्यैव प्रचेतसः । ददौ सदृशधर्माय कश्यपाय त्रयोदश ॥५॥
सप्तविंशति शोमाय चतस्रोऽरिष्टनेमये । सतीं ददौ स रुद्राय महादेवाय शूलिने ॥६॥
शिवनिन्दाकरं ज्ञात्वा पितरं स्वां तनुं तदा । प्रादहत् सा सती कोपाद्दक्षो नीतो ह्यदक्षताम् ॥७॥
मखान्तकस्तदा राजन् देवाः सन्ताडिता गणैः । दक्षयज्ञहरः शम्भुर्नाम्नाऽऽसीत् स तदा शिवः ॥८॥
सोमोऽथ रोहिणीं प्रपय मुदमाप तदा सुखम् ।
अन्यास्ता दक्षदुहिताः (?) दक्षं प्रपय सुदुःखिताः ॥९॥
लज्जया किञ्चिदानम्य वदनं ताः समुब्रुवन् ॥१०॥
दक्षकन्याः -
भगवन् सोमराज्ञा हि वयं सर्वावमानिताः । रोहिणीमेव भजते नास्मासु रमते तथा ॥११॥
इत्थं पुत्रीवचः श्रुत्वा सान्त्वपूर्वमिदं वचः । प्राह दक्षस्ततो गत्वा सोमं तेन च पूजितः ॥१२॥
दक्षः -
सर्वाः पाणिगहीतास्ते अतिचारो हि तासु किम् । भजसे रोहिणीमेव नैतत् त्वय्युपपद्यते ॥१३॥
अदोषां भजते यश्च स यामीयातनाग्र्यभुक् । नैव देवा हविस्तस्य पितरस्तत्स्वधामपि ॥१५॥
नाश्नन्ति शतवर्षाणि भ्रूणहा सद्भिरुच्यते । मृतो हि श्वानयोनीषु दारत्यागी वसेन्नरः ॥१६॥
इति धर्मं विदित्वापि कथं सोम भजेद्भवान् ॥१७॥
सोमो दक्षवचः श्रुत्वा सान्त्वयन् श्वशुरं नृपः । वाचमाह तदा भीतः प्राञ्जलिः प्रणतस्तदा ॥१८॥
सोमः -
प्रजापते क्षमस्वेमं मन्तुं माक्रुध मय्यपि । सर्वास्वेवानुवर्तेऽहं यथापूर्वं न संशयः ॥१९॥
दक्षः सोमवचः श्रुत्वा स्वकीयं भवनं गतः । पुनश्च कामान्मन्दात्मा रोहिणीमुपसेवते॥२०॥
तदा ताः कन्यकाः सर्वाः पुनः प्रोचुश्च तत्कृतम् ।
कन्यकाः -
तत् त्वया सान्त्वितः पूर्वं सोमो नास्मासु वर्तते । यथापूर्वं स कामात्मा रोहिणीमुपसेवते ॥२१॥
शशाप क्रोधात् दक्षस्तं कन्यानां वाक्यसायकैः ॥२२॥
भव यक्ष्मगृहीतस्त्वं सद्यो निर्वीर्यतां गतः । अतिकामोत्थितो नित्यं मद्वाक्यस्य च लङ्हनात् ॥२३॥
तत्क्षणादभवत् सोमः सद्यो निष्प्रभतां गतः । यक्ष्मणा स गहीतश्च हिक्काज्वरसमन्वितः ॥२४॥
त्वगस्थिशेषं सोमोहि वलहीनस्तदा नृप । आर्तिं जगाम परमां तमत्रिः प्रणतं द्विजाः ॥२५॥
सोमराजानमाहेदं दक्षशापविमुक्तये ।
अत्रिः -
श्रृणुष्व मे वचो राजन् पुनराप्याययिष्यसि । शरणं गच्छ देवेशं तपसा शिवपूजया ॥२६॥
मुनिभिः प्रणतं लिङ्गं सौराष्ट्रे संस्थितं शशिन् । सोमनाथाभिधं लिङ्गं पयोष्णीतीरसंस्थितम् ॥२७॥
ब्रह्मविष्ण्वादिभिर्देवैः सेवितं सर्वकामदम् । तस्मिन् लिङ्गे महादेवो निवसत्यंबिकासखः ॥२८॥
इत्यत्रिवचसा सोमो ज्ञात्वा गत्वा महेश्वरम् । स्नात्वा नत्वा महादेवं पयोष्ण्यां धूतकिल्विषः ॥२९॥
भस्मनोद्धूल्य सर्वाङ्गं तताप परमं तपः । शिवलिङ्गार्चनरतः पञ्चाक्षरपरायणः ॥३०॥
भस्मस्थण्डिलसंस्थश्च रुद्रमावर्तयन् सदा । शुश्रूषन्त्या च रोहिण्या कन्दपुष्पफलादिमिः ॥३१॥
अतिष्ठत् स तदा मौनी दशवर्षाण्यथाम्बिके । तपस्यतोऽथ सोमस्य शक्तिरासीच्छिवाज्ञया ॥३२॥
सोमनाथमहालिङ्गं बिल्वपत्रैः समर्चयन् । त्रिकालमप्रभादेव सोमार्धकृतशेखरम् ॥३३॥
एवं संवसतस्तस्य सोमः सोमाय तोषितः । सोमनाथाह्वयाल्लिङ्गात् तस्मै प्रादुरभूच्छिवः ॥३४॥
गङ्गाचन्द्रकलामैलिर्महोक्षवरवाहनः । उमासंश्लिष्टवामाङ्गो गणबृन्दनिषेवितः ॥३५॥
ब्रह्मविष्ण्वादिभिर्देवैमंहेन्द्राद्यैः सुरोत्तमैः । कुमारगणनाथैश्च मया च परिसेवितः ॥३६॥
गजगरुडाखुमयूरहंसयानैः सुरवर्यैरनुयायिभिः पृष्ठतोऽग्रे ।
राजताद्रिनिभप्रभाविभाविताङ्गं वृषभं केसरियानयानुयातः ॥३७॥
अधिरुह्यामरचामरौघवातैर्व्यजनैः छत्रगणैर्विशोभिताङ्ग ।
परशुवरकुरङ्गबालपाणिर्भगवानाविरभूत् तदा महेशः ॥३८॥
तथाऽऽगतं महादेवं दृष्ट्वा हृष्टतनूरुहः । प्रणम्य सोमः साष्टाङ्गमष्टमूर्तिं कृपाकरम् ॥३९॥
तुष्टाव प्राञ्जलिर्धीरो मां साम्बं परमेश्वरि ॥४०॥
नमस्ते महादेव विश्वधिकेश नमस्ते महेशान लोकेश शम्भो ।
नमस्ते गणाधीश बृन्दारवन्द्य नमस्ते हरिब्रह्ममृग्यांघ्रिमौले ॥४१॥
नमस्ते महोक्षैकवाह प्रपन्नं सदाऽपाङ्गसङ्गाद्य दृष्ट्याद्य तुष्ट्या ।
नमस्ते त्वमीशान विश्वैकवन्द्य क्षयार्तिं विनाश्याशु मां तारयाद्य ॥४२॥
नमस्ते भिषग्वर्य भैषज्यचिन्तां वहस्वाद्य मामद्य यक्ष्माघयुक्तम् ।
विमुक्तं कुरुष्वाद्य पापौघजालैर्नमस्तेऽस्तु शम्भो प्रसीद प्रसीद ॥४३॥
इति संप्रार्थितो देवः सोमराज्ञाथ संस्तुतः । दयार्ददृष्ट्या तं वीक्ष्य समालभ्य च पाणिना ॥४४॥
पुनः पुष्टिं तस्य गात्रे अमृतैः पूरयत् तदा । तमाह विनयोपेतं सोमं सांबस्तदा मुदा ॥४५॥
ईश्वरः -
दक्षशापवशात् सोम क्षयेणार्तिं परां गतः । पुनराप्यायितश्चासि मया त्वं सुरसत्तम ॥४६॥
देवानामन्नभूतस्त्वममृतांशुः पुरा किल । तच्छपं मानयस्वाद्य मासार्धं क्षीणमण्डलः ॥४७॥
देवानामुपभोग्योऽसि देवाश्चाप्यययन्त्यपि । पुनस्त्वामोषधीशान पक्षार्धं मद्वरात् सुर ॥४८॥
संपूर्णकलया नित्यं वर्धमानो दिने दिने । भविता चारुरूपेण मम मौलिकृतास्पदः ॥४९॥
अष्टमीसामिसोमाङ्को भविताऽहं सदा शशिन् । चन्द्रचूड इति ख्यातः संस्तुतः सुरसत्तमैः ॥५०॥
त्वया संपूजितं लिङ्गं सोमनाथाह्वयं शुभम् । ये पश्यन्ति नरा भक्त्या ते सदा गणपा मम ॥५१॥
सोमनाथं सकृद्दृष्ट्वा मुच्यते भवबन्धनात् । पयोष्ण्यां ये सकृत् स्नात्वा दृष्ट्वा सोमेश्वरं नराः ॥५२॥
सन्तर्प्य च पितॄन् भक्त्या वसन्ति शिवमन्दिरे ।
पौष्यां माघ्यामथाष्टम्यां यो बिल्वैः सोमनाथकम् ॥५३॥
समर्चयेत् स मुक्तो हि नात्र कार्या विचारणा । इति दत्वा वरं तस्मैं तदा शम्भुस्तिरोदधे ॥५४॥
तस्मिन् लिङ्गे तदाविष्टः शिपिविष्टोऽम्बिकासखः । तस्मात् त्वमपि भक्त्याद्य सोमेशं पूज्य भक्तितः ॥५५॥
लभस्व चेप्सितानर्थान् कामारिकृपया नृप ॥५६॥
सूतः -
इति नन्दी नृपश्रेष्ठमनुज्ञाप्य महेश्वरम् । सोमनाथं बिल्वपत्रैः पयोष्णीसरिदंभसा ॥५७॥
अभिषिच्याथ रुद्रेण पूजान्ते गणपैर्वृतः । तुष्टाव देवमभ्यर्च्य श्रृणुध्वं तद् द्विजोत्तमाः ॥५८॥
नन्दिकेशः -
कुण्दलीशकृतकुण्दल शम्भो खण्डिताखिलसुरद्रुमषण्ड ।
ब्रह्ममुण्डकलितामलमाल स्थूललिङ्गगणमण्डलसंस्थ ॥५९॥
नवचन्द्राभरणोत्तमाङ्ग गङ्गाकलितालकभूधरोरुमाल ।
धृतहालाहलकण्ठमूल बाहुस्फुरदुत्तप्तशिलाविधूतशूल ॥६०॥
अलिङ्गलिङ्गं शशिलिङ्गसंस्थxकःशलिङ्गं जगदेकलिङ्गम् ।
हृत्कोशजाकाशविकासिलिङ्गं सुखैकलिङ्गं प्रणमामि लिङ्गम् ॥६१॥
इत्थं संस्तुत्य नन्दीशः कैलासं गनपैर्ययौ । गणेन्द्रास्तुष्टुवः शम्भुं सोमनाथं मुदा तदा ॥६२॥
वयं सोमवारव्रते तेऽद्य निष्ठा वसिष्ठाद्विशिष्टास्ततस्त्वत्पदाब्जे ।
महाभस्म रुद्राक्षमालां तनूषु त्वदीयाङ्गचिह्नैर्निवेश्योरुपापैः ॥६३॥
विमुक्ताश्चरामो बिभीमोऽद्य शम्भो ॥६४॥
इत्थं स्तुत्वा गणा याता नन्दिकेशेन सादरम् । स राजा विस्मितश्च सीत् शाम्भवैस्तत्कथ रसैः ॥६५॥
ईश्वरः -
चक्षुःश्रोत्रविभूषणैकसुमहालिङ्गार्चने सक्तधीः
न्यस्तापाम्भुवो भरादिविषयप्रीतिं तदा वै नृपः ।
कामादिप्रभवादिषट्ककलुषैः कल्कीकृतान्तःस्फुरद् -
भ्राजब्दोधशिवप्रसादजनितानन्देन विज्ञानभाक् ॥६६॥
भूमानन्दैकभूमा रविशशिहुतभुग्धामसीमाऽहमीशे
तस्मिन् लिङ्गेऽस्तमाये शतमखमुखगैर्देवबृन्दैकपूज्यः ।
सामस्तोमैरनेकैर्निखिलमुनिकृतैर्होमधूमादिमार्गैः
गम्यः सो‍ऽयं भवानि श्रुतिशिखरवरैः स्तुत्यमाशास्यमादिं
सोमेशाख्ये गणेन्द्रैर्मम तनयवरैश्चाम्बया चान्द्रिजाते ॥६७॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे नन्दिकेशबृहद्वलसंवादे सोमनाथमहिमवर्णनं नाम षोडशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 07, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP