संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| नवमोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - नवमोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव नवमोऽध्यायः Translation - भाषांतर ईश्वरः - एवं चिरगते काले सोमभागविवर्जिताः । ओंकारेशं महालिङ्गं जग्मुः शरणमीश्वरम् ॥१॥प्रणम्य तुष्टुवुर्हृष्टास्त्रिविष्टपनिवासिनः ॥२॥देवाः - भो शम्भो मरुतां पितस्तव कथापीयूवपाननैर्वयं जीवामोऽद्य सुचातको हि तृषितो मेघोत्थपाथोलवैः ।यद्वत् तद्वदुमासहाय भगवन् गौरो यथा तर्षितः सोमं चापि महाध्वरेषु सततं पीत्वा सुरैस्तृप्यसि ॥३॥क्षुत्क्षान्ता भगवंस्त्रिविष्टपगताः सत्राशिनः सर्वदा वेदोत्थाः सकलाः क्रियाश्च भगवन् पूर्वं त्वया कल्पिताः ।वेदास्त्वय्यखिला ददस्व विधये वेदान्मखादिक्रियाः सर्वा विप्रगणेषु चाद्य वितता भूयात् सवो नो मुदे ॥४॥इति सुरवचनं निशम्य शम्भुर्मुदितमनाः समुवाच हर्षवर्षम् ।प्रददत विधिना समागताः स्थ त्रिदशवराः श्रुतिजालमेतदस्मै ॥५॥प्रदिशामि शमाय भूयसे वस्तमुपास्यैव सदानुगच्छत ।भागः स वो दिशति मद्वचनात्सुरेन्द्राः संप्रोचिवान् निखिलसुरासुरेन्द्रवन्द्यः ॥६॥शङ्कराज्ञानुसारेण [ जग्मुः शक्रादयस्ततः । सुरा ब्रह्माणमासाद्य प्रणम्याभिप्रसाद्य च ॥७॥खिन्नास्त्रिविष्टपं प्राप्य भागहीनाः सुधान्धसः । ततxxxप्राञ्जलयः सर्वे ] शक्राद्याः पङ्कजासनम् ॥इदमूचुस्तदा देवाः कृशाङ्गस्नायुबन्धनाः ॥८॥देवाः - हृता वेदाः पुरा दैत्यैः शिवाज्ञाकारिणा पुनः । हरिणा संहृता ब्रह्मन् पुनर्लीना महेश्वरे ॥९॥वेदहीनेषु विप्रेषु न यज्ञः संप्रवर्तते । यज्ञैर्विहीने भूलोके नास्माकं दृश्यते हविः ॥१०॥क्षुधाविष्टा वयं सर्वे त्रिविष्टपगता अपि । क्षुधाप्रशमनोपायः शीघ्रमत्र विधीयताम् ॥११॥इति गीर्वाणबृन्दानां श्रुत्वा वाक्यं पितामह । ध्यात्वा चिरं तदा देवानिदमाहाब्जजः सुरान् ॥१२॥पितामहः - प्रसाद्य परमेशानमोङ्कारेश्वरमव्ययम् । तप्त्वा भगवतो वेदान् प्राप्स्यामीति मतिर्मम ॥१३॥वेदाद्यज्ञाः प्रवर्तन्ते पठन्ति द्विजपुङ्ग्वाः । भवन्तो भागभाजः स्युर्गच्छध्वं त्रिदिवं पुनः ॥१४॥इत्युक्तास्त्रिदशाः सर्वे तदा त्रिदिवमागताः । कलेन कियमा वेधास्तप्त्वाऽथ परमं तपः ॥१५॥वेधा विधिं समास्थाय ओङ्कारं प्राप तत्क्षणात् । शर्मदां नर्मदां प्रपय स्नात्वा तत्र जितेन्द्रियः ॥१६॥भस्मोद्धूलनपुण्ड्राङ्को रुद्राक्षस्रग्भिरुज्वलः । जपन् पञ्चाक्षरं मन्त्रं शिवमोङ्कारमीश्वरम् ॥१७॥समभ्यर्च्याथ बिल्वाद्यैः सोपचारैरनेकशः । तदग्रे संस्थितो विप्राः पञ्चाग्निषु स पद्मभूः ॥१८॥प्रजपन् शतरुद्रीयं भस्मच्छन्नो जितासनः । वर्षमेकं निराहारो वायुपर्णाम्बुभोजनः ॥१९॥दशवत्सरपर्यन्तमहोरात्रं तपश्चरन् । ओंकारलिङ्गनिलयं ध्यायन् देवं त्रियम्बकम् ॥२०॥एवं तपस्यतस्तस्य प्रादुर्भूतोऽम्बिकापतिः । ओंकारलिङ्गमध्यात् स शशिशेखर ईश्वरः ॥२१॥नीलकण्ठो विरूपाक्षः शूलोद्यतमहाकरः । गङ्गातुङ्गतरङ्गौघशीतक्लिन्नकपर्दकः ॥२२॥अष्टमीचन्द्रसङ्गाशकपालविलसत्करः । देव्या स्कन्देन हेरंबनन्द्यादिगणपैर्वृतः ॥२३॥सूर्यकोटिप्रतीकाशश्चन्द्रकोटिसुशीतलः । तादृशं देवदेवेशं दृष्ट्वा हृष्टोऽब्जजः शिवम् ॥२४॥प्रणम्य परया भक्त्या तुष्टाव जगदीश्वरम् ॥२५॥ब्रह्मा - शम्भो शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापतेभूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक । शर्वोग्राभय भर्ग भीम जगतां नाथाक्षय श्रीनिधे रुद्रेशान महेश्वरेश्वर महादेवेश तुभ्यं नमः ॥२६॥तुङ्गलिङ्गनिलयामल शम्भो बिल्वहारपरिशोभिगलेश ।पाहि सोन्मथितमन्प्रथदक्ष पाहि मामखिलदुःखसमूहात् ॥२७॥त्वं कल्मलीकि (?) श्रुतिजातकीर्तिः विनाशयाघौघभरं ममाद्य ।पतिः पशूनामथ चेतनानां नित्योऽसि विश्वाधिक विश्वमूर्ते ॥२८॥इति स्तुवन्तं ब्रह्माणं प्राह देवो महेश्वरः । देव्या दत्तकरः शम्भुर्गणसङ्घैस्तदा वृतः ॥२९॥शिवः - पङ्कजासन त्वद्भक्त्या स्तुत्या त्वत्कृतयाऽनया । तुष्टोऽहमिष्टं ते भूयात् वरं वरय सुव्रत ॥३०॥इत्थं शङ्करवाक्यान्ते प्राञ्जलिः प्राह पद्मभूः ।वेधाः - दृष्टमिष्टं मया शम्भो कष्टहारि पदं तव । मत्तो धन्यतरः को वा सुरेषु परमेश्वर ॥३१॥किञ्चाद्य सुरकार्यार्थं विज्ञाप्यं श्रूयतां मम । यदा शङ्खासुरहृता वेदा देवशिखामणे ॥३२॥त्वयाऽऽज्ञप्तो हि मुरभिद्धत्वा तमसुरोत्तमम् । तथाऽन्यान् दृप्तदैतेयान् तदा तत्प्राप्तवान् श्रुतीः ॥३३॥वेदहीनं जगत्सर्वं निःस्वाध्यायवषट्कृतम् । द्विजाध्ययनहीनाश्च हीनयज्ञा महेश्वर ॥३४॥यज्ञहीने तथा लोके वृष्टिहीनाऽभवन्मही । निरोषधिरसा पृथ्वी गावश्चोषधिवर्जितः ॥३५॥देवा भागविहीनाश्च कष्टं विष्टपमाश्रिताः । वेदमूलं जगच्छम्भो वेदान् मे दातुमर्हसि ॥३६॥वेदवेद्य महादेव वेदान्तेषु प्रतिष्ठित । ब्रह्माणं प्राञ्जलिं शम्भुरवोचद्ब्रह्मणस्पतिः ॥३७॥ईश्वरः - ओंकारकुण्डे संस्नाहि तपसा श्रमकर्शितः । कुण्डं लिङ्गालयं तद्धि पवित्रं पापनाशनम् ॥३८॥तल्लिङ्गशतकं नित्यं मासमात्रं समर्चय । बिल्वपत्रैः पङ्कजैश्च रेवानीरैः सुशीतलैः ॥३९॥वेदशाखामरतरुस्तदा ग्राह्यो भविष्यति । अत्रेतिहासं ते वक्ष्ये भविष्यत् पङ्कजासन ॥४०॥बलिपुत्रो बाणनामा भविष्यति महासुरः । सहस्रभुजदोर्दण्डश्चण्डविक्रममण्डितः ॥४१॥आखण्डलादिविबुधान् संग्रामे विजयिष्यति । नित्यं मत्पादपूजायां निरतः स भविष्यति ॥४२॥सहस्रलिङ्गानि सदा बाणः पूजयिता ध्रुवम् । तत्पूजयाऽहं सन्तुष्टो गाणपत्यं दिशामि च ॥४३॥मत्पूजाऽखर्वगर्वेण यदा लोकान् प्रबाधते । तदा तदसुरश्रेष्ठगर्वंनिर्वापणाय हि ॥४४॥अन्येषां दैत्यवर्गाणां विनाशाय मदाज्ञया । जनिष्यति तदा विष्णुर्नरनारायणात्मकः ॥४५॥स विष्णुर्मासमभ्यर्च्य संहरिष्यति तानपि । मत्तो लब्धवरो दृप्तस्तेन संग्राममूर्धनि ॥४६॥तद्बाहुजालं भिन्नं च भविष्यति चतुर्मुख । कृष्णेनाजिमुखे ब्रह्मस्तद्भक्त्याऽहं वशीकृतः ॥४७॥बाणं च गणपश्रेष्ठं रक्षिष्यामि प्रजापते । भक्तयोर्मम युद्धे च अहं भूयां पराड्मुखः ॥४८॥को वा मां जेतुमिच्छेद्धि मम भक्तान् विनाब्जज । श्रुतयो मां वदन्तीशं जेतारमपराजितम् ॥४९॥नरः पार्थ इति ख्यातः पाण्डुपुत्रो भविष्यति । तेनापि भविता युद्धं कौतुकान्मे चतुर्मुख ॥५०॥तदस्त्रजालं खङ्ग च विश्वग्रासो ग्रसाम्यहम् । मदुत्तमाङ्गे तस्यैव प्रहारं धारयाम्यहम् ॥५१॥तद्भक्तितोषितश्चाहं तन्नामख्यापनाय हि । ओङ्कारलिङ्गेषु सदा बाणः संपूजयिष्यति ॥५२॥बाणेन पूजितं यस्मात् बाणलिङ्गं च पप्रथे । बाणलिङ्गकिणं ब्रह्मन् पार्थप्रहरणाङ्कितम् ॥५३॥तादृशे मम भक्तेन पत्रं पुष्पं फलं विधे । दत्त गृह्णामि तन्मूर्ध्ना तत्तुष्ट्यै मे भविष्यति ॥५४॥ओङ्कारकुण्डोत्तमलिङ्गपूजां कुर्वन् सदा बिल्वदलैश्च नीरैः ।सहस्रमृल्लिङ्गसमर्चनोत्थपुण्यं लभेन्मुक्तिमुपैति शाश्वतीम् ॥५५॥त्रिपुण्ट्ररुद्राक्षविभूतिभासुरो यो बाणलिङ्गं मम बिल्वमूले ।रुद्रं जपन्नीरसुधारया शिवं सिञ्चेन्नरो बिल्वदलैः समर्च्य ॥५६॥मुक्तो भवेदेव स पुण्यभाक् सदा गुह्यं वदाम्यद्य श्रृणु प्रजापते ।पार्थप्रहारोत्तमबाणलिङ्गं लिङ्गं विजानीहि तदुत्तमं मे ॥५७॥ओमित्युक्त्वा महादेवं ब्रह्मा सुरगणाधिपः । स्नात्वा तत्कुण्डसुजलैः कार्तिकेषुय विशेषतः ॥५८॥तल्लिङ्गशतकं नित्यं पूजयामास भक्तितः । भस्मरुद्राक्षभूषाढ्यो रुद्रसूक्तजपादरः ॥५९॥सादरः शिवपूजायां रुद्रविन्यस्तमानसः । मासान्ते शङ्करं ब्रह्मा सदाशिवमुदैक्षत ॥६०॥भक्त्यानन्दाश्रुपुलकः पाहि पाहीति संवदन् । प्रणनाम महादेवपदपङ्कजमादरात् ॥६१॥साञ्जलिर्देवदेवेशं तुष्टाव गिरिजासखम् ॥६२॥ब्रह्मा - श्रीबाणलिङ्गनिलयामलभूतिभूष विश्वेश विश्व मदनान्तक विश्ववन्द्य ।शम्भो सदाशिव सचन्दनबिल्वमौले पाहि प्रसीद परमेश्वर पञ्चवक्त्र ॥६३॥विश्वाधिक प्रमथनाथ सुरासुरेड्य सोमाग्निविष्णुशरकृत्तपुरारिवर्ग ।त्रय्यन्तवेद्य विधिविष्णुविमृग्यमौलिपादारविन्द परमेश्वर पाहि दीनम् ॥६४॥एवं स्तुवन्तं ब्रह्माणं प्रणतं भुवि दण्डवत् । उत्थाप्य दोर्भ्यां च तदा शशिशेखर ईश्वरः ॥६५॥प्राह प्रगल्भवचनैः सुधाधिक्कारिभिः शिवः ॥६६॥ईश्वरः - उत्तिष्ठोत्तिष्ठ माभैषीः वेदास्ते प्रतिभान्त्वमी । सरहस्योपनिषदः । साङ्गोपाङ्गपुराणकाः ॥६७॥सागमाः सोपवेदाश्च याश्च विद्याः सहस्रशः । भाष्यणि सर्वशास्त्राणि गान्धर्वादीनि सत्तम् ॥६८॥उपाख्यानानि ते ब्रह्मन् ओंकारः श्रुतिशेखरः । उद्गीथगाथासुभगो मया दत्तः प्रजापते ॥६९॥समुत्तस्थुत्तदा वेदाः ऋग्यजुःसामाथर्वकाः । प्रणम्य देवमोङ्कारं तुष्टुवुः प्रमथाधिपम् ॥७०॥वेदाः - ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नताः स्म वै ॥७१॥ऋचो अक्षरे परमे त्वा महेशं मल्लिङ्गमाकाशसधर्मकं विभुम् ।त्वां यो न वेद किमृचा करिष्यति साम्नाथवा यजुगथर्वणैर्वा ॥७२॥शिवो वेदस्तुतिं श्रुत्वा वेदांस्तस्मै ददौ मुदा । प्रणतं चाब्रवीद्देवो ब्रह्माणं विनयान्वितम् ॥७३॥ईश्वरः - वेदजालं निसृष्टं ते मया पङ्कजसंभव । सुराणां यज्ञभागार्थ लोकशिक्षार्थमेव च ॥७४॥गच्छ लोकं सुरैः सार्धं वस मद्भक्तिभावतः । इत्थं शम्भोर्वचः श्रुत्वा विद्याधिपतिमीश्वरम् ॥७५॥स्थानं ययौ प्रहृष्टात्मा प्रणम्य परमेश्वरम् । उपतस्थुस्तदा वेदाः ऋग्यजुम्सामाथर्वकाः ॥७६॥..ब्रह्माणमनुजग्मुस्ते गुरुं शिष्या इवामलाः । मुनीनश्रावयत् सर्वान् सारस्वतमुखानपि ॥७७॥तेषां शिष्यप्रशिष्यैश्च धृतो वेदो महात्मभिः । यज्ञभागाः प्रवर्तन्ते सिद्धिमीयुर्दिवौकसः ॥७८॥सूतः - एतद्वै महदाख्यानं श्रावितं भूसुरोत्तमाः । माहात्म्यं देवदेवस्य ओंकारस्य महेशितुः ॥७९॥यो वेदादौ स्वरः शम्भुर्भगवान् परमेश्वरः । वेदान्तमहिमा यश्च स देवः पातु वः सदा ॥८०॥यः पङ्कजासनमतन्द्रितमेव सृष्टौ संयोज्य वेदमखिलं प्रददौ महेशः ।त्वं स्वात्मबुद्धिभवनं शरणं महेशं यास्यामि घोरभवसागरगो मुमुक्षुः ॥८१॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे ओंकारेश्वरमाहात्म्ये वेदप्रदानं नाम नवमोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP