संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| एकत्रिंशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - एकत्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव एकत्रिंशोऽध्यायः Translation - भाषांतर ईश्वरः - श्रीगङ्गासागरं गौरि पुण्यं पापविनाशनम् । गङ्गासागरसंघट्टभिन्नवार्धितरङ्गकम् ॥१॥तां गङ्गां सागरो दृष्ट्वा तरङ्गावलिभासुरः । हसन् फेनगणैर्नृत्यन् समाश्लिष्यन्निव प्रियाम् ॥२॥तरङ्गहस्तैर्देवेशि गर्जन् कोलाहलारवैः । गङ्गाजलाविलतनुस्तदाऽऽसीत् सागरोंऽबिके ॥३॥तत्र सस्नुर्द्वगणास्तथा मुनिगणाः शिवे । ब्रह्मविष्ण्वादयो देवाः परं हर्षमवाप्नुवन् ॥४॥स्नात्वा सन्तर्प्य च पितॄन् भस्मनोद्धूल्य ते तनुम् ।दत्वा दानानि पुण्यानि गाश्च भूमिं तिलं धनम् ॥५॥मत्प्रीत्यर्थं महादेवि ब्राह्मणेषु तपस्विषु । यत्र गङ्गासागास्य(योः) सङ्गनोऽस्ति महेश्वरि ॥६॥तत्र स्नानं कृतं ह्येतत् फलदं सर्वपापहृत् । अन्यत्र विंशत्कृच्छाणि पुरभिद्यः प्रकल्पयत् ॥७॥तत्रास्ति मे बिल्ववनं नवारुणदलान्वितम् । कदम्बनिबप्रसवैः नीपमन्दारसुन्दरम् ॥८॥ तमालतिलकोपेतं बकुलोद्दालकेतकम् । तमालताल हिन्ताल सालनीलीविराजितम् ॥९॥गङ्गातीरे महानीरभूमितर्पितभूरुहम् । नवोरुबिल्वशाखाग्रं फलभारावनामितम् ॥१०॥पुष्पसौरभ्यमधुरं गन्धामारुतवीजितम् । वसन्तमुकुलोत्फुल्लमल्लीवल्ली विराजितम् ॥११॥केतकोद्दामरजसा गन्धीकृतदिगन्तरम् । वेणुवेत्रगणच्छ्रन्नं नानाशकुनिनादितम् ॥१२॥गङ्गासागरतीरस्थं वनमेकमभून्मम । तीरसंस्थमहालिङ्गं मम सर्वार्थदायकम् ॥१३॥तत्र शैववराः सन्ति गङ्गासागरवासिनः । भस्मरुद्राक्षसंपन्नाः पञ्चाक्षरपरायणाः ॥१४॥रुद्रलिङ्घार्चनपरा रुद्राध्यायजपादराः । तद्विल्ववनजापारबिल्वपत्रैः सदांबिके ॥१५॥सागरेशं महालिङ्गं दृष्ट्वा नत्वा च भक्तितः । बिल्वपत्रैः समभ्यर्च्य वसन्ति नियता हि ते ॥१६॥गङ्गासागरमासाद्म क्षेत्रमत्यन्तपुण्यदम् । सागरे चाथ गङ्गायाः स्नात्वा पुण्यप्रदेंऽबिके ॥१७॥सोऽश्वमेधमवाप्नोति दृष्ट्वा मां सागरेश्वरम् । बिल्वपत्रैः समभ्यर्च्य स्नाप्य सङ्गमवारिभिः ॥१८॥कृतकृत्यो नरो भूयात् नरः सुगतिभाग् भवेत् । यो गोशतं कुरुक्षेत्रे दद्याद्वेदविदि द्विजे ॥१९॥तस्माच्छतगुणं पुण्यं गङ्गासागरमज्जने । तत्र सन्तर्प्य च पितॄन् श्राद्धं दद्याच्च यो नरः ॥२०॥तस्य वर्षशतं तृप्ताः पितरः सपितामहाः । एकं कोटिगुणं भोज्यं ब्राह्मणेन महेश्वरि ॥२१॥दत्वैकां गां दरिद्राय शतगोदानपुण्यभाक् । यो लिङ्गं स्नापयेन्नीरैर्गङ्गासागरसंभवैः ॥२२॥क्षीरकुम्भशतैः स्नाप्य यत्फलं तच्छताधिकम् । तरङ्गमालाकलितगङ्गासागरसङ्गमे ॥२३॥तत्तरङ्गोत्थवातेन पापभङ्गः प्रजायते । तत्र स्नात्वा तु मुनयो ग्रहणे चन्द्रसूर्ययोः ॥२४॥पापसङ्घैर्विमुच्यन्ते सत्यमेव महेश्वरि । व्यतीपाते वैधृतौ च अयने संक्रमे तथा ॥२५॥पर्वकालेषु सर्वेषु पक्षे चैवाथ पर्वणि । कृष्णाङ्गारचतुर्दश्यां गङ्गासागरसङ्गमे ॥२६॥महादधौ नरः स्नात्वा सर्वपापैः प्रमुच्यते । पञ्चभिः पातकैर्घोरैस्तत्र स्नात्त्रा महेश्वरि ॥२७॥ग्रहणे भक्तिमान् स्नात्वा दत्वा च तिलपर्वतम् । मल्लिङ्गं संप्रपूज्यैव सागरेशं विमुच्यते ॥२८॥महादानानि तत्रैव नृपैः पूर्वं कृतानि हि । इक्ष्वाकुकुक्षिनाभागमान्धातृसागरादिभिः ॥२९॥ययातिनहुषाद्यैश्च देवि श्रद्धापुरःसरम् । सागरेशस्य देवस्य बद्धस्तैः स शिवालयः ॥३०॥पूजितः सागरेशोपि नानाविभवतः सुरैः ॥तत्र स्नात्वा सागरेशं प्रणम्य नियतो नरः । स्तोत्रमेतत् पठन् भक्त्या सर्वपापैः प्रमुच्यते ॥३१॥सूतः - भगघ्नं पुरघ्नं मखघ्नं यमघ्नं भजाम्यन्तकघ्नं गजघ्नं स्मरघ्नम् ।उषेन्द्रादिवन्द्यं महाशैवहृद्यं महागद्यपद्यैः स्तुतं तत्वमाद्यम् ॥३२॥सुमौलौ पिशङ्गं दयास्राव्यपाङ्गं भजे लिङ्गसङ्गं पदारक्षभङ्गम् ।क्षयद्वीरमीशं महाज्ञानकोशं महेशं प्रकाशं कराब्जे हुताशम् ॥३३॥भजाम्येकमीशं गले नीलनीलं महाशैवशीलं जगत्कृत्यलीलम् ।भजे कालकालं भजे लिङ्गसङ्गं पदारक्षभङ्गं हृदब्जान्तरङ्गम् ॥३४॥स्तोत्रवर्येण मां भक्त्या स्तुवन् सागरमीश्वरम् । सर्वान् कामानवाप्नोति पापेभ्यश्च प्रमुच्यते ॥३५॥अत्रेतिहासं वक्ष्यामि सावधानमनाः श्रृणु । तत्र बिल्ववने कश्चिदासीद् भिल्लो धनुर्धरः ॥३६॥स बिल्वभूरुहाणां च पालकोऽभूच्छुचिस्मिते । तस्यापारैः पुण्यबलैर्भिल्लस्याप्यभवन्मतिः ॥३७॥वनदन्तिभयार्थं च तेन कण्टकपङ्क्तिभिः । वनस्यावरणं चक्रे प्रबलैः काष्ठसंयमैः ॥३८॥वराहमहिषाणां च गजशुण्डारदैस्तदा । वृक्षमूलानि भज्यन्ते मृगाणां च भयात् तदा ॥३९॥मत्ताः करटिनो घोराः स्वशुण्डावलयैर्धृताम् ।नवारुणां बिल्वशाखां भक्त्वा भुक्त्वा प्रयान्ति च ॥४०॥स प्रातर्बिल्वशाखां तां दृष्ट्वा हस्तिविमर्दिताम् । दुःखितः स तदा गौरि तस्मिन्नेवाकरोद्वने ॥४१॥स्वकुटीं पर्णकैः शाखिशाखाव्रत्तमनोहराम् । पुत्रैश्च बालकैः सार्धं पत्न्या तत्रावसच्छिवे ॥४२॥कुद्दालपिटकोद्दामहस्तो नित्यं धनुर्धरः । हस्तियूथांश्च महिषान् वराहांस्ताडयत्यपि ॥४३॥स शरैस्तीक्षणभालैश्च दन्तिकुम्भेषु शाङ्करि । श्रृङ्गान्तरेषु महिषान् दंष्ट्रासन्धिषु सूकरान् ॥४४॥तद्भयान्नोपसर्पन्ति तद्विल्ववनमञ्जसा । कन्दमूलफलैरेव जीवन् स कणयाचकः ॥४५॥सकुडुम्बस्तदा तस्थौ तस्मिन् बिल्वौघकानने । सूक्ष्ममार्गः कृतस्तेन गमनागमने तदा ॥४६॥तमामन्त्र्यैव मुनयो गृह्णन्ति न्वपल्लवान् । बिल्वमूलेषु लिङ्गानि स्थापयित्वार्चयन्ति च ॥४७॥कोमलैर्बिल्वपत्रैश्च त्रिकालं भुवनेश्वरि । त्रियम्बकमहामन्त्रैः शैवाः संपूज्ययन्त्युमे ॥४८॥तान् दृष्ट्वा सततं भिल्लस्तुष्टिमाप्नोति नित्यशः । ते भिल्लं पूजयन्त्येव वाग्भिश्च कणदानतः ॥४९॥स भिल्लः शैवसङ्गत्या बिल्वानां पालनेन च । म्म प्रियतरो नित्यमभूच्च गिरिकन्येके ॥५०॥बिल्वमूलानि सर्वाणि कुद्दालैर्बालकैः सह । खात्वा तन्मूलदेशेषु कृमिदष्टांश्च पल्लवान् ॥५१॥धर्मकालेषु तत्पत्नी जलमादाय भूरिशः । घटैस्तदा महादेवि करोति वनपालनम् ॥५२॥करोति जलदानं सा बालबिलवप्ररोहणे । कृमिदष्टानि पत्रानि लूतातन्तुवृत्तान्यपि ॥५३॥छित्वा छित्वा पातयति बिल्वभूरुहपालिका । तन्मूलेषु महाशैवाः शिवमन्त्रजपोत्सुकाः ॥५४॥वसन्ति नियताहाराः शिवलिङ्गार्चकाः शिवे । बिल्वपत्रैश्च कुसुमैः रुद्राध्यायभिषेचनैः ॥५५॥पूजयन्त्येव गौरीशं तन्मूलेषु महेश्वरि । रुद्राध्यायजलैः शीतैस्तन्मूलं शीतयन्ति ते ॥५६॥सायं ते दीपयन्त्येव शिवलिङ्गं निरीक्षितुम् । शिवलिङ्गानि तुङ्गानि बिल्वयुक्तानि शङ्करि ॥५७॥द्रष्टुमभ्युद्यताः सर्वें दीपदीप्तिविराजितम् । तत्र ब्रह्मादयो देवा नारदाद्या महर्षयः ॥५८॥द्रष्टुं गच्छन्ति नियताः बिल्वमूले शिवार्चनम् । शिवलिङ्गेषु तुङ्गेषु महाशैवकृतं तदा ॥५९॥स्तुवन्ति नृत्यन्ति हसन्ति दृष्ट्वा भुञ्जन्ति पश्यन्ति महेशलिङ्गम् ।जिघ्रन्ति नैवेद्यमपारपुण्यदं शिवांघ्रिपुष्पाणि सुरा मुनीश्वराः ॥६०॥दृष्ट्वा त्रिपुण्ट्रोज्ज्वलमस्तकानि सुगन्धलिप्तानिं मनोहराणि ।सुबिल्वमूलेषु च संस्थितानि संपूज्य जन्मानि कृतार्थयन्ति ॥६१॥तान् दृष्ट्वा प्रमथाधिनाथ गणपान् ब्रह्मादिकास्ते सुराः धन्या मान्याक्षिभृङ्गा...सुतरां पुण्यपुञ्जे निमग्नाः ।दृष्ट्वा लिङ्गानुमेशप्रियवरजनितापारपापैर्विहीनाः प्राप्ताः प्राणात्ययेऽपि प्रियममरवरैः भिल्लमूलेषु संस्थाः ॥६२॥सूतः - इत्येवं स्तुतिमिः स्तुवन्ति सततं तद्विल्वमूलार्चकान् लिङ्गे तुङ्गे महेशं जनिमृतिजमहादुःखनाशाय शैवाः ॥६३॥स शैवपूजितापार लिङ्गानि वनपालकः । प्रणम्य दारतनयैः संस्तौति परमार्थतः ॥६४॥भिल्लः - पाहि विल्ववनमीश्वर शम्भो हस्तिहस्तमृदितं नवशाखम् ।दन्तिकृत्तिवस मामव शम्भो बन्धुरालक दयस्त्व मय्यपि ॥६५॥हर हर मुरभित्प्रपूजितांघ्रे स्मरहर कुरु मय्यकिञ्चने दयाम् ।हर हर गुरुतापभारं गरधर शङ्कर चन्द्रशेखर ॥६६॥ईश्वरः - इत्थं शैवजनान्वितं स विपिने भिल्लोऽपि बिल्वीवने ध्यात्वा मत्पदपङ्कजं विधिनुतं बिल्वादिसन्मौलिभिः ।गङ्गासागरसङ्गमे विपिनवन्मल्लिङ्गसंपूजको बिल्वाद्यैर्गणनायकः स सुतरां मुक्तो भवत्यद्रिजे ॥६७॥यो बिल्वच्छदपूतलग्नवसनैः संश्लिष्टगात्रान् द्विजान् तन्मूले सुखशीतले पितृगणान् संभोजयेत् षड्रसैः ।तस्यान्नं शतवर्षतृप्तिजनकं भूयात् पितॄणां मुदे तच्छर्वार्पिततर्पितान्नपितरस्तुष्यति हृष्यन्ति च ॥६८॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे गङ्गासागरमाहात्म्ये सगरेश्वरभिल्लवनवर्णनं नाम एकत्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP