संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
त्रयोविंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - त्रयोविंशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
ममस्ति देवि सुभगे क्षेत्रं गोकर्णसंज्ञकम् । गोकर्णेशं समाराध्य विमुक्ता बहवो जनाः ॥१॥
पश्चिमे सागरोपान्ते तत् क्षेत्रं मम कामदम् । भोगमोक्षप्रदं देवि सर्वपापविनाशकम् ॥२॥
तत्रैव ब्रह्मविष्ण्वाद्या मुनयः काश्यपादयः । पुलस्त्यभार्गवाद्याश्च विश्वामित्रपराशराः ॥३॥
पौलस्त्याद्याश्च तत्रैव रावणाद्या महौजसः । गन्धर्वाः किन्नारा यक्षा नागा विद्याधरा गणाः ॥४॥
नन्दिभृङ्गिप्रभृतयो नारदाद्या मुनीश्वराः । दैत्यनाथाश्च तत्रैव तप्त्वाऽमितबला भवन् ॥५॥
अन्ये सुरासुराः सर्वे मुनयस्तापसास्तथा । गोकर्णेशं समाराध्य लेभिरे तपसः फलम् ॥६॥
गोकर्णेशमहो दृष्ट्वा महाबलमनुत्तमम् । तत्रैव भार्गवो रामो रेणुकातनयः शिवे ॥७॥
निःक्षत्रियकृतं पापं त्यक्त्वा मां शरणं गतः । वामदेवोऽपि सार्वात्म्यं यत्र प्राप महाबले ॥८॥
गोकर्णेशं समाराध्य मुनयो भक्तितत्पराः । ज्ञानं वेदान्तवाक्योत्थं लेभिरे मुक्तिदायकम् ॥९॥
गोकर्णसंज्ञकं लिङ्गं दर्शनान्मुक्तिदायकम् । संसारपाशबद्धानां मोचकं भवभेषजम् ॥१०॥
शक्रो दुर्वाससा शप्तो निःश्रीकश्चाभवतु पुरा । गोकर्णेशं समाराध्य महतीं श्रियमाप्तवान् ॥११॥
गोकर्णे सागरैः पूजा कृता भक्तिपुरःसरम् । अत्र सन्ति महाशैवाः सदा भस्माङ्गपाण्डराः ॥१२॥
रुद्राक्षमालाभरणा रुद्रावर्ततत्पराः । पञ्चाक्षरपरा नित्यं मम लिङ्गार्चनादराः ॥१३॥
भवभक्तार्चनपरा मन्नामजपतत्पराः । वेदवेदान्तत्वज्ञा यतयश्च तथाम्बिके ॥१४॥
गृहस्था यतयश्चैव वनस्थाश्च तथा परे । बर्णिनोऽपि तथा गौरि पर्णाम्बुफलभोजनाः ॥१५॥
गोकर्णनिलयं शम्भुं अपर्णापतिमीश्वरम् । बिल्वपत्रैः समभ्यर्च्य नित्यं नैवेद्यभोजिनः ॥१६॥
अगस्त्योऽपि सदा भक्त्या नित्यं मां स्तौति शङ्करि । रुद्रसूक्तैर्महादेवि बिल्वपत्रैः समर्च्य च ॥१७॥
वेदाः साङ्गोपनिषदो मूर्तिमन्तः सदाम्बिके । सेवावसरमालोक्य महाबलमुपासते ॥१८॥
ब्रह्मा चतुर्भिर्वदनैश्चातुर्होत्रैः स्तुवत् तदा । षण्मुखोऽपि सदा भक्त्या मामुपास्तेऽम्बिकासुतः ॥१९॥
गणेशाऽपि सदा देवि बिल्वैरभ्यर्चयत् सदा । शेषः प्रत्यहमागत्य पातालविवरादुमे ॥२०॥
स्वफणामणिमाणिक्यैर्बिल्वैः संपूज्य मां सदा । सहस्रवदनैरीशं नामभिश्च सहस्रकैः ॥२१॥
कोमलैर्बिल्वपत्रैश्च कमलैः पूजयत्युमे । दिग्गजाश्च सदा गौरि स्वशुण्डावलयोद्धृतैः ॥२२॥
पानीयैः बिल्वपत्रैश्च साब्जनालैस्तथाम्बिके । पूजयन्ति महालिङ्गे गोकर्णेशं महाबलम् ॥२३॥
विष्णुश्चात्रातपत् देवि दानवैश्च पराजितः । पुनराप्यायितश्चासीत् मत्कटाक्षेण शोभने ॥२४॥
ब्रह्मणापि तपस्तप्तं सृष्टिविज्ञानहेतवे । भूम्यन्तरिक्षगा रुद्रा ये दिव्यप्सु प्रतिष्ठिताः ॥२५॥
निषङ्गिणः कवचिनः खङ्गखेटधनुर्धराः । ईशानप्रमुखाः सर्वे महाबलमुपासते ॥२६॥
अश्विनौ मरुतश्चापि वस्वादित्या दिगीश्वराः । तप्स्यन्ति मत्प्रसादार्थं धनदोऽपि सदा मुदा ॥२७॥
मत्प्रसादात् धनेशत्वं सखित्वं तस्य चाभवत् । अत्र चन्द्रोऽपि देवेशि तपस्तप्त्वा सुदुष्करम् ॥२८॥
गुरुदाररतात् पापान्मुक्तोऽभून्मत्प्रसादतः । चण्डांशुरपि देवेशि गोकर्णेशं समर्चयन् ॥२९॥
छायात्यागजपापेन मुक्तोऽभूदत्र सुन्दरि । गोकर्णेशं समाराध्य महतीं श्रियमाप्तवान् ॥३०॥
दैत्यराजस्तथा बाणो विरोचनसुतो बली । प्रचित्तिर्विघसश्चैव मुरो जन्मस्तथान्धकः ॥३१॥
वृत्रश्च नमुचिश्चैव असुरौ मधुकैटभौ । सुन्दोपसुन्दौ देवेशि सूरस्तारक एव च ॥३२॥
हिरण्याक्षश्च कशिपुः प्रल्हादो मन्थरस्तथा । बलो नामासुरेन्द्रश्च महतीं प्राप्नुवन् श्रियम् ॥३३॥
शक्रोऽपि वृत्तवध्यातोऽप्यहल्यासङ्गपातकात । विमुक्तः सर्वदा विप्राः गोकर्णेशसमर्चनात् ॥३४॥
एते सर्वे तपस्तप्त्वा गोकर्णेशं समर्च्य च । सर्वे प्रपतबलाः शूराः शत्रुवित्रासकाः सदा ॥३५॥
गोकर्णेशं समाराध्य पूजया तपसाऽपि च । गन्धर्वाद्या महाभागे चित्रवर्मा हहाहुहूः ॥३६॥
तुम्बुरुश्चापि कण्डुश्च नारदो देवगायनः । गान्धर्वमेदमखिलं प्राप्नुवन् मत्प्रसादतः ॥३७॥
नागनाथा महाभागे गोकर्णेशार्चने रताः । धृतराष्ट्रः शङ्खगलः कम्बलाश्वतरौ तथा ॥३८॥
अनन्तो वासुकिश्चैव तक्षकः कुण्डरस्तथा । स्वफणाभिर्महालिङ्गं छाद्य संपूज्य बिल्वजैः ॥३९॥
कोमलैः कमलैरीशं दलैः संपूजयन्ति हि । कामधेनुगणाश्चापि सुरभिर्नन्दिनी तथा ॥४०॥
स्वोधःसंभूतपयमा सफेनेनाभ्यषेचयन् । बिल्वैर्महाबलेशानं संपूज्य मुदमाप्नुवन् ॥४१॥
धर्मोऽपि वृषरूपेण तपस्तप्त्वात्र मां शिवे । मत्तो लब्धवरो देवि मां वहत्येव पृष्ठतः ॥४२॥
गोकर्णेशप्रसादेन चन्द्रसूर्यान्वयोद्भवाः । राजानश्च सहस्राणि नित्यं मां पर्युपासते ॥४३॥
मनुर्विकुक्षिः कुक्षिश्व शशबिन्दुर्भगीरथः । रघुश्चेवाथ मान्धाता युवनाश्वो गयस्तथा ॥४४॥
रन्तिदेवः पृथुर्वैन्यो मुचुकुन्दो दृढाश्वकः । दिलीपः सगरो विंशो नाभागश्च करन्धमः ॥४५॥
आयुष पुरुष्व मरतो ययातिर्नहुषः कुरुः । खट्वङ्गोऽथ नृगोऽरिष्टस्तथा संवरणो नृपः ॥४६॥
गोकर्णेशं समाराध्य पृथिव्याः पतयोऽभवन । देवि किं बहुनोक्तेन गोकर्णेशप्रसादतः ॥४७॥
समभ्यर्च्य महालिङ्गं स्वं स्वं स्थानं सुरासुराः । लिभिरे परमेशानि महाबलसमर्चनात् ॥४८॥
भुक्तिमुक्तिप्रदं क्षेत्रं सर्वसंपत्प्रदायकम् । अत्र जप्तोऽथ यः कश्चिन्मन्त्रसिद्धि गमिष्यति ॥४९॥
पञ्चाग्निमध्यनिरता वायुभक्षास्तथाऽपरे । जटोरुशिरसः केचिद् दन्तोलूखलिनः परे ॥५०॥  
भस्माभ्यक्ताः सदा केचिद् रुद्राध्यायजपादराः । पञ्चाक्षरपराः केचिद् केचिन्मन्नामजापकाः ॥५१॥
शिव शङ्कर देवेश गोकर्णेश महेश्वर । प्रसीद परमेशेति तत्र शैवा वदन्ति माम् ॥५२॥
केचिल्लिङ्गार्चनपराः बिल्वपत्रादिभिः शिवे । साग्नयोऽनग्नयः केचिद् यतयो भक्तिभाविताः ॥५३॥
वर्णिनो वनसंस्थाश्च ब्राह्मणा मामुपासते । ब्रह्मण्यपतिरेवाहं महाब्राह्मण ईश्वरः ॥५४॥
वसन्ति शैवा गोकर्णे मन्नैवेद्यैकभोजनाः । अत्र शैवं समभ्यर्च्य मम लोके वसेन्नरः ॥५५॥
अत्र सर्वेषु कालेषु सागरस्नानकृन्नरः । एकं शैवं भोजयित्वा मत्प्रीत्यर्थमुमे शुभे ॥५६॥
भक्ष्यभोज्यैः सदन्नैश्च स मां भोजयिताम्बिके । गोकर्णेशं पूजयित्वा बिल्वपत्रादिसाधनैः ॥५७॥
कोटिलिङ्गार्चनफलं प्राप्नोति स वरानने । पुरा वसुमना नाम राजासीदतिधार्मिकः ॥५८॥
विदर्भविषये देवि स कैङ्कर्यपरो मम । नानाप्रकारशोभाढ्यैर्भूधराकारगोपुरैः ॥५९॥
प्राकारराजद्वृषभैर्धूयमानपताककैः । नवरत्नचितानेकमण्डपैः शोभितं नृपः ॥६०॥
वाहनैश्चैव देवेशि रथैश्च शतचक्रकैः । मदागारपरो राजा मुक्त्यगाराधिनायकः ॥६१॥
छत्रचामरजालैश्च स्वर्णशय्यादिभाजनैः । क्षौमांबरैः स्वर्णक्लृप्तैः भूषणैर्मणिकल्पितैः ॥६२॥
कारयामास नृपतिर्गोलकं रत्ननिर्मितम् । धूपैर्दीपैश्च नैवेद्यैः स्नापनीयैरहर्निशम् ॥६३॥
सलक्षगोघृतापारदीपैर्दीपयदम्बिके । ताम्बूलपर्वतांश्चापि दत्तवान् मत्कृपाप्तये ॥६४॥
कर्पूरखण्डैः शतशो दीपयामास मां शिवे । छत्रचामरकोटीभ्हिर्व्यजनादर्शकैरपि ॥६५॥
नानावाद्यरवैर्देवि पूरयामास मद्गृहम् । नाट्याङ्गनास्तदा तेन कल्पिताः सुमनोहराः ॥६६॥
सहस्रं कम्बुकण्ठ्यस्ताः पीनश्रोणिपयोधराः । शैवान् संभोजयामास शिवनैवेद्यराशिभिः ॥६७॥
प्रफुल्लपुष्पारामं च मत्पूजार्थं प्रकल्पयत् । सोमवारप्रदोषेषु चतुर्दश्यष्टमीषु च ॥६८॥
शिवरात्रिषु देवेशि पर्वस्वपि विशेषतः । पूजयत्येव भूपालो नित्याद्दशगुणं शिवे ॥६९॥
तत्प्रदोषे कृतां पूजां श्रृणु त्वमगजे शुभाम् । श्रुत्वाऽपि लभते गौरि मम लोकं न संशयः ॥७०॥
प्रदोषे पूजनं कुर्वन् नित्यमास्ते प्रहृष्टधीः । गोकर्णेशं महालिङ्गं पश्यन्नष्टोरुकिल्बिषः ॥७१॥
प्रदोषपूजारतचित्तवृत्तिः नृपस्तदा मत्पदपूजनोत्सवैः ।
समभ्यषिञ्चद् गिरिजे महेशं गोकर्णलिङ्गस्थमपारभाग्यैः ॥७२॥
क्षीराज्यादिघटैः सुतैलजघटैः सक्षौद्रसच्छर्कराभारैः खण्डदधिप्रसर्पितसुसर्प्युत्थाज्यमण्डादिभिः ।
रंभाम्रादिफलैस्तथेक्षुजरसैर्जम्बीरनी रैः शिवैः सन्नारिकेलोद्भवद्रवत्सुक्षौद्रमहोरुकोशैः ॥७३॥
आसिच्य गन्धोदकरत्रपुष्पसौवर्णनीरैश्च सुगन्धपूरैः ।
पाटीरसारैर्मृगनाभिपूरैः कर्पूरसारैश्च सुशोधितैर्जलैः ॥७४॥
आलिम्प्य गन्धैश्च तदोरुलिङ्गं संवेष्ट्य शुभ्रोत्तमधौतवस्त्रैः ।
दत्वोपवीतान्युपवीतिने मे अखण्डशाल्युद्भवतण्डुलाक्षतैः ॥७५॥
अनर्घ्यरत्नोत्तम भूषणैर्मां अभूषयद्देवि तदा नृपाग्रणीः ।
बिल्वैश्च पद्मैः करवीरमल्लिकाजातीफलैः गन्धफलीसरैश्च ॥७६॥
उत्फुल्लनीलोत्पलपुण्डरीकैः कल्हारजालैररविन्दपुष्पैः ।
समर्चयन्नामसहस्रतो नृपस्तदा मुदा मां शशिशेखरं शिवम् ॥७७॥
बिल्वत्वक्परिकल्पितागरुरसैर्धूपस्तदा दीयते दीपैर्गोघृतपूरितैरतिसितैर्वर्तीभिरत्युज्ज्वलैः ।
नैवेद्यैर्दधिखण्डसारसुभगैः सत्सोपदंशान्वितैः सूपापूपादिराशिप्रभवपरिमलामोदिस्वाद्वन्नजालैः ॥७८॥
शुभ्रद्रोणसुमप्रभान्नजमहाराशीभिरीशं शिवे
सूपापूपमरन्दसुनदरमहाहैयङ्गवीनोत्थितैः ।
आज्यैः प्राज्यैः सुतप्तप्रभवपरिमलैः कालकाले निवेद्य
हृष्टोऽभूत् प्रार्थिवेन्द्रो जनिशतविततानन्दपुण्यैकमूर्तिः ॥७९॥
सन्नागवल्लीदलभारकल्पितैः निष्टप्तहेमादिविशालपात्रैः ।
ताम्बूलैः कतकैर्लवङ्गमुखरैः पूगीफलैश्चूर्णकैः ॥८०॥
उडुगणपतिमौलिं धेनुकर्णेशलिङ्गं तुरगणगणकृष्टैः वाद्यजालोत्थशब्दैः ।
गणपतिकरशुण्डालग्नकञ्जोत्थनादैः दशशतवरदीपैर्दीपयामास भूपः ॥८१॥
हर हर शिव शङ्कर प्रसीद दुरितोत्थिततापहरास्तदोषे ।
इति सुरवरकिन्नरोक्तिशब्दैः करबद्धाञ्जलिभिस्तदा प्रदोषे ॥८३॥
छत्रैश्चामरकोटिभिश्च गिरिजे मां वीजयन्त्यादरा -
न्मायूरैर्व्यजनैस्तथैव विमलादर्शैश्च नाट्यैरपि ।
देवि प्रस्तवनप्रदक्षिणनमस्कारैः शिवं तोषय -
द्भेरीशङ्खमृदङ्गकाहलरवैर्नाट्याङ्गनाकल्पितैः ॥८४॥
नाट्यैस्तालमृदङ्गनूपुरझणत्कारारवैः शङ्करं सन्तोष्य प्रमथेश्वरं स मुमुदे धन्यः स भूपाग्रणीः ॥८५॥
राजा -
श्रीमद्गोकर्ण शंभो भवशतजनितापारतापैकभङ्गं
त्वल्लिङ्गं दृष्टिसङ्गं यदि भवति महाभाग्यपूर्णे जनेऽस्मिन् ।
काले वीतभये प्रदोषसमये सर्वैः सुरैः सेविते
त्वत्पादांबुरुहं प्रकृष्टभवजापारव्यथां संहरेत् ॥८६॥
शिवः -
इत्थं मामम्बिकेशं सुरवरनिकरैः शाङ्करैर्देवि पुण्यैः
काले तस्मिन् प्रदोषे गिरिवरतनये सर्वसौख्येऽस्तदोषे ।
भूपस्तापैर्विहीनो मुदितवसुमनाः सन्मानास्तत्पदाब्जं
संपूज्यालोक्य पूतो मम गणवरभाक् भाग्यवर्यः कृतो मे ॥८७॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे गोकर्णक्षेत्रमाहात्म्ये वसुमनोनृपानुशःठितप्रदोषपूजाकैङ्कर्यवर्णनं नाम त्रयोविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP