संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| षष्ठोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - षष्ठोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव षष्ठोऽध्यायः Translation - भाषांतर देवाः - जय जय जगदीश दीनबन्धो जय जय सर्वसुरासुराधिनाथ ।जय जय तुहिनांशुखण्डमौले जय जय विश्वविधानबद्धदीक्ष ॥१॥जय जय पुरहर भवाब्धिपार जय जय कामहर प्रसीद शम्भो ।जय जय दक्षमखान्तकेश देव जय जय शूलकराव्ययेश पाहि ॥२॥जय जय नीलसुकन्धराम्बिकेश जय जय गाङ्गतरङ्गशोभिमौले ।जय जय विधिजातमुण्डमाल जय जय त्र्यम्बक सुन्दरामरेश ॥३॥जय जय विष्णुसुपूजिताङ्घिपद्म जय जय सुन्दर ताण्डवेश शम्भो ।जय जय गणनाथनाथ देव जय जय सूर्यशशांकवह्निनेत्र ॥४॥जय जय भूतपते भवोद्भवाद्य । जय जय कालकलादिहीन शम्भो ॥५॥प्रसीद विश्वेश्वर वेदगीत प्रसीद देवेश दयानिधान ।प्रसीद सर्वेश्वर विश्वनाथ प्रसीद विश्वाधिक पाहि नः सदा ॥६॥भववंस्तव सुन्दराङ्घ्रिपद्मं सततं ध्यायति विप्रवर्यबालः ।तपसः स तु वार्यतां महेश यदयं मनसेहतेऽस्तु तत्तदस्य ॥७॥तत्छ्रुत्वा देववचनं देवदेवो महेश्वरः । प्रतस्थे गणपैः सार्धं सुरैब्रह्मादिभिस्तदा ॥८॥गणबृन्दैश्च विधिधैर्नानायुधधरैरपि । तरक्षुऋक्षवदनैर्मार्जारोलूकगोमुखैः ॥९॥सिंहरासभवक्त्रैश्च शुकसर्पाश्ववक्त्रकैः । महासिन्धुरवक्त्रैश्च लुलायवदनैस्तदा ॥१०॥व्यालीमुखैराखुमुखैर्गणेन्द्रैरिन्द्रहन्तृभिः । वामनैर्विकटैर्मुण्डैरकृशैः कृशवत्तरैः ॥११॥जटाजूटतटोद्भासिचन्द्रार्धकृतशेखरैः । शूलहेतिधरैः क्रूरैः शरकार्मुकधारिभिः ॥१२॥निषङ्गिभिः कवचिभिः खङ्गपट्टिशपाणिभिः । निःसाणभेरीपणवदुन्दुभ्याडम्बरारवैः ॥१३॥शङ्ख काहलशब्दैश्च मुनीशजयशब्दकैः । नन्दिवेत्राग्रवित्रस्तदेवसङ्घैरितस्ततः ॥१४॥ददर्श भूतपः शम्भुः कृपादृष्ट्या सुरासुरान् । सकम्पांस्तान्निलिम्पाद्यान् प्रणाममुखारान् क्षितौ ॥१५॥छत्रं शशिनिभं शम्भोर्मूर्ध्नि दध्रेऽसरेश्वरः । हंससंपूर्णपक्षाभैश्चामरैः परमेश्वरम् ॥१६॥दुधुवे तं तदा विप्राः शङ्करं पवनानलौ । व्यजनोत्थैर्वातपोतैर्वरुणस्तमवीजयत् ॥१७॥धूपपात्रकराश्चैव दधिदूर्वाक्षताकराः । माल्यमोदकहस्ताश्च तथाऽऽदर्शकरा गणाः ॥१८॥शम्भोः पुरःसराः सर्वे ययुर्गणगणास्तदा । स्वर्गौकसस्तदारण्यसुमनैर्ववृषुः शितम् ॥१९॥नारदाद्याश्च मुनयस्तुम्बुरुर्वल्लकीकरः । जगुर्नामानि पुण्यानि शङ्करस्य महात्मनः ॥२०॥करनखमुखघट्टनोत्थतन्त्रीभवशब्धैर्मधुरप्रभेदबन्धैः ।स्वरसप्तकमूर्छनाविशेषैर्मधुरं गायति रुद्रवीणया ॥२१॥नारदः - हर हर पुरहर भवाब्धिपार स्मरहर शङ्कर तार्य पार्य वार्य ।गरकन्धर भूधरोरुमाल धृतशूलावृतकाल बालपाल ॥२२॥शशिखण्डशिखण्डमण्डने विधिमुण्डामलहस्तमण्डले ।धृतनागसुकुण्डलोरुगण्डे त्वयि चेतो विदधामि शङ्करे ॥२३॥साङ्गोपनिषदो वेदास्तदा तुष्टुवुरीश्वरम् ।ऋग्वेदः - सकलामरतुल्यमेकमीशं भगवन्तं मनुते विमूढचेताः ।वदतीयं श्रुतिरीश बह्वृचानां मात्वरुद्रवचोगणैमंहेश ॥२४॥भवरोगहरौषधप्रधाने भिषजां नायक इत्यपि श्रुतिः ।परमंहो गिरिरूपिणोऽपि ये वै भगवंस्त्वं हि जलाषभेषजः (?) ॥२५॥यजुर्वेदः -संसारघोरजनितां रुजमाशु चेश सद्यो विनाशय महेश कृपाम्बुराशे ।त्वां रुद्रमाहुरखिलागमतत्वसाराः धीरास्त्वदीयचतुरा विनिवृत्तमाराः ॥२६॥सत्वानस्तव हे महेश्वर महादेवेति नामामृतैः लोकं शोकभयाग्निदग्धतृणकं सिञ्चिन्ति वर्षन्ति च ।तेभ्यश्चाकरवं प्रणाममधुना वेदोऽपि वक्ति स्वयं त्वद्भक्तेष्वखिलेषु पाहि दयया विश्वेश सर्वस्वया ॥२७॥सामवेदः - त्वं सामस्तोमभूमा मदुदितनमसां पात्रमीशस्त्वमाद्यो वैद्यः सर्वैरभेद्यस्त्वधिपतिरिति यत्क्षेत्रमित्रादिवाक्यैः ।अन्नानां पतिरेक एव धनयस्त्वां स्तोभगानात्मकैः गीतैर्गायति गानलोल भगवन् सामश्रुतिः शङ्करम् ॥२८॥शम्भो शाक्वररैवतैश्च भगवन् वैराजमाहेन्द्रकैः रौद्रेंर्देवव्रताद्यैः प्रतिपदनमसां राशिभिः स्तोभगुम्भैः ।त्वां स्तव्यं स्तुवते महेश्वर सदा सामश्रुतीनां गणो राजद्राजनहिंकृतैः प्रतिपदैराद्यन्तरैर्भूत्कृतैः ॥२९॥अथवर्णः - यो वै रुद्रेति मन्त्रैः प्रतिपदनमसां राशिभिस्तामतर्क्यं तर्कादीनामगम्यं प्रणवपदहितं सूक्ष्मबुद्धयादि पश्यन् ।पश्यन्त्येते यमितकरणा वाङ्मनो ज्ञानमात्मा शान्त्या बुद्ध्या प्रसन्नस्त्वमसि हि भगवन्नन्तरायाद्विहीनः ॥३०॥अजातस्त्वं देवः श्रुतिशिखरवर्यैकवचनैः भवानीशो वक्त्रं तव च भव याम्यं भवपरम् ।स गच्छेदत्यन्तं जनिमरणनाशाय शरणं शरण्यं शम्भुं त्वां शरणद वरेण्यं प्रभुमहो ॥३१॥ओंकारवषट्कारौ - देवस्त्वं नमसां पतिः श्रुतिशतैर्भीत्या नमोन्तैः पदैः आद्यन्तोपरिधारयद्भवहरापारार्थसंसूचकम् ।स्तोमं वो छाद्यरुद्रैः श्रुतिपदतिलकैः बहृचैस्तैत्तिरीयैः साम्नां देवव्रतानामखिलशिवतरो रत्नभूतस्त्वमीशः ॥३२॥त्वामध्वरे शंसितारः स्तुवन्ति रथन्तरं सामगाश्चोपयं ( गां ) ति ।अध्वर्यवः कल्पयन्ते च भागं सोमात्मकं चाध्वरेश प्रसीद ॥३३॥अपर्णारमणं दृष्ट्वा सुपर्णगतिरुत्तमम् । प्राञ्जलिः श्रीमहेशानं तुष्टाव प्रणतस्तदा ॥३४॥ विष्णुः - सोमस्त्वं जनिता जगञ्जनयिता विष्णोस्तथा ब्रह्मणः सुत्राम्णः पवनस्य वह्निजनकः पृथ्वीदिवोः शीतगोः ।अर्यम्णो जनकस्त्वमेव भगवन् देवासुराणं पुनः विश्वं त्वद्भवमेव सर्वमधुना वेदोऽपि वक्ति स्वयम् ॥३५॥अग्नीषोमभयं जगच्छ्रुतिगणैः सर्वत्र संपूज्यते तस्मात्सर्वजगद्गतं च भगवन् वह्निश्च सोमात्मकम् ।रुद्रो वा एष चाग्निः श्रुतिपदशतकैर्नार्थ एकस्त्वमीड्यः सोमश्चोमामहेश प्रकृतिपुरुषजं विश्वमेतद्विचित्रम् ॥३६॥हंसमन्त्राक्षरगतं हंसवाहो महेश्वरम् । प्राञ्जली रुद्रमन्त्रैश्च तुष्टाव जगदीश्वरम् ॥३७॥ब्रह्मा - अरुणतरणिसंस्थं ताम्रमाशास्यमीशं नीलग्रीवमुदारदिक्षु सततं रुद्रैः सदासंवृतम् ।ज्योक् पश्येम सुचक्षुषा सुललितं विश्वेशमत्यादरात् आगोपालघटोदचेटिभिरहो दृश्यं सदा योगिभिः ॥३८॥बभ्रुर्बभ्रुश इत्यपि श्रुतिशतैरुच्चैस्त्वमुद्घुष्यसे क्रूरान् क्रन्दयसे रिपून् पृतनया पत्रीश जेजीयसे ।सत्वानस्तव धीवसे सुखयितुं पापं तदीयं पुनः निश्शेषं सहसे तमीश दयया ज्ञानेन पुष्पासि ताम् ॥३९॥सुकुमारकुxरेण केकिकण्ठैकवाहिना । संस्तुतः परमेशानस्तदा प्राञलिना शिवः ॥४०॥स्कन्दः - त्वत्तो न ओजस्वितरोऽस्ति देवः पतिः पशूनां महिमा प्रतिष्ठः ।त्वल्लिङ्गसंपूजनमात्रतुष्टाः स्यामो रयीणां पतयो वयं हि ॥४१॥त्वमात्मन् महात्मन् सुखात्मन् भवघ्नः प्रदोषे स्वदोषैकनाशेऽस्तदोषे ।त्वदीयं महालिङ्गसङ्गं कदाचित् स मुक्तिं लभ्यतैव भावो विसङ्गः ॥४२॥नद्द्द्विरदवक्त्रेण शुण्डादण्डेन राजता । संस्तुतः परमेशानः प्रणतार्तिहरो हरः ॥४३॥गणपतिः -त्वमुग्रोऽहमव्यग्र एव त्वदीयं पदाब्जं समग्रं मदीयैः फणीन्द्रैः ।यमोदग्रदुर्ग्राहसंग्राममार्गं न पश्यामि शश्वत् प्रपन्नः प्रपन्नः ॥४४॥सुधामण्डलाखण्डलोच्चण्डतेजःस्फुरन्मेरुकोदण्डपाणेऽखिलाण्डम् ।त्वदाज्ञावशं दण्डितारातिषण्डं समुच्चण्डमुण्डारिणीश प्रपन्नः ॥४५॥पठच्छ्रीरुद्रसूक्तेन मुनिव्रातेन शङ्करः । सुमनोगणवर्षेण जयशब्देन भूरिणा ॥४६॥संस्तुतः परमेशानश्चन्द्रार्धकृतशेखरः ॥४७॥मुनयः - पुरां भिदं त्वामभितः प्रणोनुमो आषाढमुग्रं सहमानमीशम् ।जेतारमीशं न कुतोऽपराजितं धनुर्धरं हेतिधरं नताः स्मः ॥४८॥भूरेर्दातारं सत्पतिं रुद्रसूक्तैः स्तोष्यामस्त्वां भावयुक्ता गृणीमः ।तस्मादस्मान् रक्ष रक्षेश शम्भो ग्रामे ह्यस्मिन्नातुरं नैव भूयात् ॥४९॥देवाः - भगवंस्तव सुन्दराङ्घ्रिपद्मं पुरुहूतामरबृन्दसन्नुतम् ।प्रणताः स्म पुनः पुनर्मुदा शमिताशेषदुरन्तदुःखजालम् ॥५०॥इत्थं सुराणां वचनं स्तुतिं श्रुत्वा महेश्वरः । महाकालान्तिकं प्राप घोषयन् भुवनत्रयम् ॥५१॥भाभासितदिशांचक्रः सुधांशुकिरणैः शिवः । दिवाकरशतोद्भाससुवांशुकिरणैस्तदा ॥५२॥महाकालाङ्गसंस्पर्शः तच्छ्रमं समुपानुदत् । शिवसन्दर्शनानन्दसंजातपुलकोद्गमः ॥५३॥प्रणनाम स साष्टाङ्गमष्टाङ्गस्पृष्टभूतलः । हरपादाम्बुजद्वन्द्वनिर्द्वन्द्वीकृतमानसः ॥५४॥समुत्थाय प्रहृष्टात्मा तुष्टावाष्टाकृतिं हरम् ॥५५॥महाकालः - हर हर दुरितानि दीनबन्धो पुरहर पाहि दयाकटाक्षलेशैः ।मुरहरशर हारकाकोदननद्धाभरण प्रसीद शम्भो ॥५६॥तपनदहन पद्मजातमित्र प्रतिकृतिभूतमभूतवर्ग ।मधुमथनाक्षिपूज्यपादपद्म प्रमथसनाथ महेश पाहि शम्भो ॥५७॥मत्तानन्दकरीन्द्रदारणपटुं पञ्चास्यपञ्चाननं गङ्गातुङ्गतरङ्गसङ्गतमहामौलौ पिशङ्गायितम् ।श्रृङ्गासङ्गहरं कुरङ्गसङ्गविलसत्पाणिप्रभामण्डलं तुङ्गातिरपतङ्गसोदरमहामूलस्थलिङ्गाकृतिम् ॥५८॥हिरण्यैकबाहुं हिरण्यैकरूपं हिरण्यैकवर्ण हिरण्यादिदेवम् ।हिरण्याख्ययोर्हर्तृहन्तारमीशं हिरण्यचलावासकन्यासमेतम् ॥५९॥गम्भीरसागरनिषङ्गपिनाकपाणिं सोमाग्निविष्णुशरकृत्तपुरादिवर्गम् ।क्ष्मास्यन्दनान्तरगतं शशिसूर्यचक्रं वेदाश्वसारथिविधिं रथिनां वरेण्यम् ॥६०॥नतोऽस्मीशमाद्यं सुराद्यैरपीड्यं सुगन्धिं नतोऽस्मि प्रपद्ये ह शश्वत् ।नतोऽस्मीष्टसिद्ध्यै नतोऽस्मीश सिद्ध्यै नतोऽस्मीश भक्त्या प्रपद्ये प्रपद्ये ॥६१॥नृत्तकृत्तकरिमस्तपदाब्ज ध्वस्तदक्षमख कृत्तिसुवासः ।मारमारक चिरन्तनदुःखान्याशु संहर विभो दुरितानि ॥६२॥भवोद्भव मनोन्मनीसहित दिव्यगन्धोल्लसन्मरन्दसुमशीतलस्फुरदुरुप्रकर्षाङ्गक ।महेश्वर महाफणोच्छ्वसितभोगिभोगप्रिय प्रवञ्चरचनादर प्रवरदेव मां पालय ॥६३॥भव भावहृदन्तराब्जगप्रभवाभावभवथितिप्रद ।गतभाव विदूर ...... शम्भो भवबन्धं प्रविनाशयाशु मे ॥६४॥भव भूतपते भवोद्भवाद्य त्वयि भक्त्या भगवन् भवाब्धिपारम् ।भसितैर्भवपाशनाशकैः परिधूल्य क्रमशस्तरन्ति भावाः ॥६५॥चित्तं त्रिनेत्रसुचरित्र विचित्रगाथाश्रोत्रश्रवेण निखिलं च पवित्रगात्रम् ।वांछा न मां भजति पुत्रकलत्रमित्र सत्रातिरात्र विविधेषु मखेषु शम्भो ॥६६॥तुरङ्गदन्त्युत्तमभूमिदानैः रत्नादिकन्यासुमहान्नदानैः ।अर्घ्यप्रदानैरखिलैश्च धर्मैरलं महेशानपदं व्रजामि ॥६७॥सूतः - स्तुत्वैवं स महादेवं तेजोराशिं घृणानिधिम् । शिवं ननाम साष्टाङ्गं मुहुर्मुहुरनन्यधीः ॥६८॥प्रणमन्तं महाकालं समुत्थाप्य महेश्वरः । पस्पर्श तस्य सर्वाङ्गं शन्तमेनाङ्गपाणिना ॥६९॥कृशानुरेतसोत्फुल्लहस्ताब्जस्पर्शतर्षितः । तपःकृशत्वं विजहौ सुधांशुरिव निर्मलः ॥७०॥चतुर्बाहुरुदाराङ्गः पिनाकमृगसत्करः । कपर्दभारविलसच्चन्द्रार्धकृतशेखरः ॥७१॥महाकालः सुरैर्दृष्टो द्वितीय इव शङ्करः । विभ्राजन् देवतानीकं मुनीन् विस्मापयंस्तदा ॥७२॥सुरान् प्रहर्षयन् शम्भुर्महाकालमाथाब्रवीत् ॥७३॥ईश्वरः - महाकालानया तुष्टया तुष्टोऽहं त्वयि हर्षितः । गणाधिपत्यं दत्तं ते शाश्वतं तव पुत्रक ॥७४॥शर्वाणीतनयोऽसि त्वं गीर्वानगणवन्दितः । गजाननगुहावेतौ त्वत्पूज्यौ भ्रातरौ तव ॥७५॥नन्दिकेशादयस्तेऽद्य सखायस्ते किलामलाः । महाकालमिदं लिङ्गं महाशैवसमर्चितम् ॥७६॥महाप्रदोषवेलासु महादेवगणो भवेत् । क्षेत्रमेतत् प्रियकरं मम नित्यं गणेश्वरः ॥७७॥अस्मान्नान्यत्र गच्छन्ति स्थानमाहात्म्यवेदिनः । इति देववचः श्रुत्वा देवा वचनमब्रुवन् ॥७८॥देवाः - धन्योऽयं कृतकृत्योऽपं भवत्पादार्चने रतः । गाणाधिपत्यं संप्राप त्रिदशेन्द्रसुदुर्लभम् ॥७९॥त्वत्कृपापात्रभूतोऽयं महाकालो गणाग्रणीः । तव हस्ताम्बुजस्पर्शाद्विज्ञानतनुरास्तिकः ॥८०॥इति देव प्रणम्येन्द्रपूर्वका विबुधाऽब्रुवन ।विबुधाः - धन्यस्त्वमसि भूपाल महाकालपदाश्रयः । तव भाग्यस्य नान्तोऽस्ति शिवैकशरणः सदा ॥८१॥इत्थं देवैस्तिरोधत्त महाकालेन शङ्करः । त्वं चापि गणपश्रेष्ठो भविष्यसि नृपोत्तम ॥८२॥एतत् कथानकं पुण्यं महाकालगणाश्रयम् श्रुत्वा द्विजेषु सततं भवे भक्तिं लभेन्नरः ॥८३॥सूतः - चित्रसेनो विचित्रार्थां त्रिनेत्रप्रियसत्कथाम् । श्रुत्वाऽथ ब्रह्मणो वक्त्राद्ववन्दे तं पितामहम् ॥८४॥सनन्दनाद्यैर्मुनिभिस्तमाशीर्भिस्त्वयोजयत् । महाकालं प्रणम्येशं गीर्वाणगणवन्दितः ॥८५॥स्वं धाम हंसयानेन ययौ पद्मासनः सुरैः । महाकालार्चनाच्चान्ते चित्रसेनो गणोऽभवत् ॥८६॥येनानन्तमहाध्वरैर्विधिकृतैर्गोदानकन्यादिभिर्भूदानैरघहारिभिर्द्विपवरैर्दत्तैश्च यत् स्यात् फलम् ।तेनैवाखिलघोरपातकहरां भक्तिं लभेच्छाम्भवीं धन्यः शङ्करकिङ्करः शिवमनुव्याहारमात्रादरः ॥८७॥गौरीशङ्करकिङ्करः सितलसद्भस्मत्रिपुण्ट्रोदरो रुद्राक्षाभरणः शिवैकशरणः कश्चिद्भवेद्वै कलौ ॥८८॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे महाकालतपो-गाणपत्यलाभ-चित्ररथभविष्याख्यानवर्णनं नाम षष्ठोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP