भर्गाख्यः पञ्चमांशः - अष्टदशोऽध्यायः
श्रीशिवरहस्यम्
ईश्वरः -
आवंढ(ग्ट्ट)कं महापुण्यं क्षेत्रमस्त्येकमम्बिके । नागनाथाह्वयं लिङ्गं ममास्ति भुवनेश्वरि ॥१॥
तत्रत्यसिकताः सर्वा लिङ्गरूपाश्च केवलम् । तत्र सन्ति महाशैवा नागनाथार्चने रताः ॥२॥
भस्मरुद्राक्षसंपन्नाः शिवध्यानपरायणाः । रुद्रावर्तनशीलाश्च रुद्रलिङ्गैकपूजकाः ॥३॥
मन्नामनिरता नित्यमन्यनामपराड्मुखाः । मल्लिङ्गालोचनेनैव तेषां प्रीतिरहर्निशम् ॥४॥
कामुकः कामिनीं दृष्ट्वा यथा प्रीतो भवेच्छिवे । मम लिङ्गं तथा शैवा बिल्वसंपूजितं मुदा ॥५॥
नागनाथं स्तुवन्त्येव वीक्षन्ति प्रणमन्ति च । वसन्ति तत्र मुनयो विनयोज्ज्वलविग्रहाः ॥६॥
नागनाथं महादेवं पूजयन्ति गणेश्वरः । नागकुण्डमिति ख्यातं पातालविवरं महत् ॥७॥
तन्मार्गेण समागत्य शेषोऽनत्नफणामुखः । स्वमौलिरत्नजालैर्मां पूजयत्येव शङ्करि ॥८॥
सहस्रवदनेनापि रुद्रसूक्तैर्महेश्वरम् । मां स्तौति भक्त्या नियतं स मे गणवरोत्तमः ॥९॥
तस्मिन् प्रीतिर्ममात्यन्तं कुमारे गणपे यथा । त्वयि सर्वामरेशानि तथा शैवोऽयमम्बिके ॥१०॥
शैव शरीरं देवेशि मदालयमनुत्तमम् । तस्यैव हृदयांभोजगर्भागारे मनोरमे ॥११॥
नीवारशूकसदृशलिङ्गाकारोऽस्मि शङ्करि । त्द्देहं येन संपूज्य स्थितं सोऽपि मदर्चकः ॥१२॥
शैवसंपूजनादेव मम प्रीतिर्महेश्वरि । स्वतन्त्रस्य महेशस्य सर्वभाग्ययुतस्य मे ॥१३॥
किं नाम क्रियते देवि पूजया वा सुमैः शिवे । लोकसंरक्षणार्थाय लिङ्गे गृह्णामि पूजनम् ॥१४॥
भक्तैर्मम कृता पूजा तुष्टयै भवति शोभमे । सूक्ष्मं मदीयं लिङ्गं तत् पश्यन्ति शिवयोगिनः ॥१५॥
लिङ्गमेतन्महादेवि ज्ञानहीनो न पश्यति । नत्वा तं वेदवाक्यैश्च जायते मत्कृपाबलात् ॥१६॥
कथमन्येऽपि पश्यन्ति नानाकामैकगामिनः । सखण्डान्यन्यलिङ्गानि चाखण्डं व्यापकं मम ॥१७॥
कस्यचिद्भूरिभाग्येन सभाग्यस्येव शङ्करि । निर्भाग्यानां महादेवि तज्ज्ञानं नैव जायते ॥१८॥
मत्कृपामात्रमेकं हि शैवगात्रं गिरीन्द्रजे । शैवः शिवैकशरणः शिवलिङ्गार्चनप्रियः ॥१९॥
शिवक्षेत्ररतो नित्यं श्रीरुद्रजपतत्परः । भस्मरुद्राक्षसंपन्नः षडक्षरजपादरः ॥२०॥
शैवसंपूजको नित्यं शिवनैवेद्यभोजनः । मन्नामपरमो नित्यं त्यक्त्वाऽन्यसुरकीर्तनम् ॥२१॥
शिव शम्भो महादेव प्रसीदेति वदन मुदा । आपादमस्तकं भस्म समुद्धूल्य यथाविधि ॥२२॥
रुद्रावर्तनशीलो यः स मे भक्थ सदाम्बिके । वेदवेदान्तवाक्यैश्च बोधज्ञानपरः सदा ॥२३॥
तस्यैव जायते ज्ञानं नान्यथा कर्मकोटिभिः । असत्यमिति तत्सर्वं त्रैगुण्यं परमेश्वरि ॥२४॥
आविद्यकानि शास्त्राणि मिथ्याज्ञानप्रदानि हि । मच्छास्त्रं सत्यमेवेदं ब्रह्मैवेदमिति श्रुतिः ॥२५॥
आत्मैवेदमिदं दृश्यं तस्मिन् जगदिदं मृषा । जगत्प्ररोचनाशास्त्रं सत्यत्वे कल्पयिष्यते ॥२६॥
मूढानां स्वर्गनरकपुण्यपापादिवासनाः । त्रैगुण्यविषयो वेदः स्वाधिकारानुरूपतः ॥२७॥
पुण्यपापफलं भोक्तुं व्यावहारिककल्पनैः । सर्वं तरति वै शोकं शैवो मत्पादसंश्रयः ॥२८॥
अत्रैतिहासं वक्ष्यामि नागनाथस्य वैभवम् । मम लिङ्गात्मनो देवि श्रृणु श्रवणभूषणम् ॥२९॥
स चक्षुःश्रवसां राजा शेषोऽशेषगुणैर्युतः । ब्रह्मणा समनुज्ञातो भूमिसन्धारणाय वै ॥३०॥
दृष्ट्वा सपर्वतवनां साब्धिद्वीपोरुपत्तनाम् । विषादमगमत् तीव्रं शेषो मां शरणं गतः ॥३१॥
आवट्टकमिदं क्षेत्रं प्राप्य कुण्डं तथाऽकरोत् । नागकुण्डमिति ख्यातं तत्तीरे तपसि स्थितः ॥३२॥
स्वपुच्छवेष्टनैर्भूमिमधिष्ठायोच्छयन् फणाः । मां विलोक्य महादेवि भस्मरुद्राक्षभूषणः ॥३३॥
रुद्रमावर्तयन् तस्थौ शरदां शतमुत्तमम् । लिङ्गं सुचक्षुषा पश्यन् चक्षुषां संश्रवन् कथाः ॥३४॥
शेषः पवनभुङनित्यं तपसाऽशोषयत् तनुम् । ग्रीष्मे कुसरितं भानुश्चण्डभानुकरैर्यथा ॥३५॥
ब्रहमद्या देवताः सर्वा द्रष्टुं तं तपसि स्थितम् । समागतांस्तदा देवि तान् सर्वान् कुण्डलीश्वरः ॥३६॥
अगणय्य तदा तस्थौ माम ध्यायन् लिङ्गरूपिणम् । तस्य तद्दार्ढ्यमाज्ञाय ह्यददं दर्शनं शिवे ॥३७॥
दृष्ट्वा मां स्वफणाभिश्च ननाम शिरसा शिवम् । सहस्रवदनेनापि नाम्नां साहस्रतः शिवे ॥३८॥
अपूजयद्बिल्वपत्रैः तुष्टाव जगदीश्वरम् ॥३९॥
शेषः -
विश्वेश विश्व मदनान्तक विश्वमूर्ते विश्वम्भराधरणकारण शक्तिदायिन् ।
भर्गान्तकान्तक महेश्वर कृत्तिवासः पाह्याशु माऽखिलजगत्सनकादिपाल ॥४०॥
पाहीश मामकधिया परिपाहि शम्भो दक्षाश्वमेधविधिशिक्षणकामशत्रो ।
सुत्रामवज्रकरदारण चण्डिकेश गोत्रात्मजासखसुजात पुरां निहन्तः ॥४१॥
पिनाकविलसत्करं दिवसनायकान्तर्गतम् । विनायकसुतप्रियं भज्त् नाकनाथस्तुतम् ॥४२॥
यामिनीरमणशोभिमस्तकं भामिनीविधृतसामिविग्रहम् ।
योगिनीगणकृतस्तुतिप्रियं मोहिनीपतिमुपास्मके शिवम् ॥४३॥
चारुभूधरशिरोविहारिणं भोगिभोगकृतकण्ठभूषणम् ।
क्षिप्रदग्धपुरकामवैरिणं चन्द्रचूडचरणं भजेऽन्वहम् ॥४४॥
इति स्तुतोऽहं शेषेण भक्तियुक्तेन शङ्करि । धराधरणसामर्थ्यं मया दत्तं तदाम्बिके ॥४५॥
तेन संप्रार्थितं चापि स्वकुण्डं ख्यातिमेष्यतु । नागकुण्डमिति ख्यातं सर्वपापहरं शुभम् ॥४६॥
तस्मिन् कुण्डवरे स्नात्वा नागनाथं प्रणम्य च । विषचोरभयं तस्य कदाचिन्नैव जायते ॥४७॥
तर्पयित्वा तु तत्तोयैः पितॄन् प्रीणाति मानवः । स्नात्वा त्रिरात्रयज्ञस्य फलमाप्नोति मानवः ॥४८॥
एवं मत्तो वरं लब्ध्वा स शेषो विवरं ययौ । स पर्वतनदीयुक्तां दध्रे भूमिं तदाम्बिके ॥४९॥
ईश्वरः -
कदुः सुपर्णी च पुरा विवदेते परस्परम् । अश्ववालांस्तदा श्वेतान् कृष्णांश्चक्रे विषाग्निना ॥५०॥
दास्यं सख्याः पुरा कृत्वा अनृतेनैव सा पुरा । तत्पापनुत्तये गौरि नागनाथं प्रणम्य सा ॥५१॥
सा पुत्रान् मोचयामास सुपर्णभयपीडितान् । भूषणार्थं मदङ्गानां पुत्रान् दत्तवती तदा ॥५२॥
कम्बलाश्वतरौ नागौ कर्णकुण्डलतां गतौ । वासुकिस्तक्षकश्चैव मद्बाहुवरकङ्कणौ ॥५३॥
मत्पादनुपुरौ देवि शङ्खपालैलपत्रकौ । मत्कण्ठहारशोभायै धृतराष्ट्रः पिपिच्छिलः ॥५४॥
पुत्रान् मह्यं तदा दत्वा सा कद्रूर्वीतकल्मषा । नागनाथं तदा मां सा तुष्टावाथ कृताञ्जलिः ॥५५॥
कद्रूः -
पुत्रस्तेऽश्वपतिर्महासुरवरं मल्लं निहत्यादरात् देवानामभयं ददौ स भगवान् स्वर्लोकवासं चिरम् ।
शक्रायामरपुङ्गवैः स तु तदा त्वत्पादपूजाबलैर्जाजुर्यां कृतकेतनः स्तुतिपरस्त्वां सेवते सर्वदा ॥५६॥
कुमारशिखरे वरे धृतवरोरुशक्तीश यः स तारकमुखासुरान् निखिलशूरपद्माद्सिकान् ।
निहत्य निखिलैः सुरैरमरसैन्यनाथोऽभवत् त्वदीयपदसेवया शिव सुनागनाथ प्रभो ॥५७॥
नीलकण्ठकृतवाहनमुख्यः तारकारिरखिलागमवन्द्यः ।
सद्य एव कुरुतादघनाशं सैन्यनायक इति श्रुतिषूक्तः ॥५८॥
मोरेश्वरक्षेत्रनिवासशीलः शूलाङ्कसूनुः प्रथितोरुशुण्डः ।
त्वत्पादपद्मप्रणतोरुगण्डो गण्डस्थलाद्नोलितपद्मषण्डः ॥५९॥
त्वं गणाधिपतिरीश पाहि मां त्वत्सुतो गणापतिः श्रुतिश्रुतः ।
विघ्नजालदुरितं मम हन्यात् दण्डिताखिलसुरारिसमूहः ॥६०॥
इति स्तुत्वा तदा कदूः ययौ सा कश्यपं मुनिम् । नागनाथं प्रणम्येशं बिल्वपत्रैः समर्चयत् ॥६१॥
नागनाथं महालिङ्गं दर्शनात् स्वर्गमोक्षदम् । तल्लिङ्गमहिमा देवि त्वयि सङ्कीर्तितो मया ॥६२॥
श्रृण्वन् वदंश्च मेधावी मम भक्तिपरो भवेत् । तत्र बिल्ववने देवि मल्लिङ्गं परितोऽम्बिके ॥६३॥
शिवध्यानरताः शैवास्तिष्ठन्ते मत्पदाश्रयाः । एतत्तेऽभिहितं पुण्यं स्वर्ग्यं पुत्रप्रदं नृणाम् ।
दर्शनात् तस्य लिङ्गस्य मोक्षभागी भवेन्नरः ॥६४॥
ईश्वरः -
तस्मिन् पावनपावने हि विपिने मालूरसंघावृते
तत्पुष्पोत्थमरन्दसुन्दररजोगुम्भीकृतैस्तुन्दिलैः ।
तद्वातैः सुखशीतलैः फणिफणाभूत्कारतापापहैः
शीतीकृत्य ममाङ्गन्धमतुलं जिघ्रन् वसाम्यम्बिके ॥६५॥
तद्दग्धं वनमित्यवैमि गिरिजे यस्मिन्न बिल्वद्रुमः
तस्मिन्नेव वसामि शाखिशतकैर्युक्तेऽपि पुष्पान्वितैः ।
शूले वापि मरुस्थलेऽपि निवसेत् सूर्यानुजः केवलं
तन्मूले शिवलिङ्गसङ्गतवपुस्तुष्टो वसाम्यम्बिके ॥६६॥
श्रीवृक्षप्रभवैर्नवारुणदलैर्यः सायमभ्यर्चयेत्
रेवालिङ्गवरे प्रदोषसमये सन्नार्मदेनाम्भसा ।
तस्याहं वितरामि भुक्तिमखिलां मुक्तिं तथा तेऽम्बिके
त्रिः कृत्वा प्रवदामि सत्यमधुना सम्यक् श्रृणुष्वादरात् ॥६७॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे शिवगौरीसंवादे नागनाथमहिमवर्णनं नाम अष्टादशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 07, 2017
TOP