संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
विंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - विंशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
श्रृणु त्वमगजे पुण्यां मम भक्तस्य सत्कथाम् । भक्तभक्तं च मां विद्धि भाववश्योऽस्मि शङ्करि ॥१॥
यः कश्चिदस्तु मद्भक्तः स मे प्रियतमोऽम्बिके । भक्थ प्रियो मे सततं चण्डालोऽ‍स्तु द्विजोऽथवा ॥२॥
भक्तान्नस्य क्षुधाविष्टः त्रिनेत्रः पात्रमम्बिके । वनखण्डमिति ख्यातं क्षेत्रमत्युत्तमोत्तमम् ॥३॥
वैद्यनाथोऽहममले तल्लिङ्गे संवसाम्यहम् । कामार्थी जनकामानां पूरकोऽहं सदाम्बिके ॥४॥
अरण्यशरणो नित्यं वनानां पतिरस्म्यहम् । ब्रह्मविष्ण्वादिभिर्देवैः गणबृन्दैश्च सेवितः ॥५॥
पूजितो बिल्वपत्राद्यैर्निवसामि त्वया सह । बदरीखदरैर्बिल्वैः हरीतकबिभीतकैः ॥६॥
वैकङ्कतैः केतकैश्च वंशैः कण्टकभूरुहैः । अन्यैश्च शाखिशतकैः फलपुष्पावनामिभिः ॥७॥
संवृतं वनमत्युग्रं सिंहव्याघ्ररवाकुलम् । वेणुक्रेङ्कारनिनदैः झिल्लिकागणपूजितैः ॥८॥
केसरीविकटारावभीतदन्तिजबृंहितैः । घूकोलूकोत्थघूत्कारसंवर्धितदिगन्तरम् ॥९॥
केकिकोकिलनादैश्च शिवाकोलजघुर्घुरैः । भीषणं भीषणस्यापि तत्रारण्यपतिस्त्वहम् ॥१०॥
निवसामि त्वया गौरि तद्वने सञ्चरन् सदा । फलपुष्पाण्यपाराणि पश्यन् जिघ्रन् वनस्थलीः ॥११॥
अरण्यपतिरेवाहं तदा हि वनगोचरः । तत्रास्ति भिल्लराट् कश्चित् सदाऽत्यन्तसखा मम ॥१२॥
भक्तश्च सततं देवि म अयि प्रीतिसमन्वितः । बद्धगोधाङ्गुलित्राणो मृगचर्मलसत्कटिः ॥१३॥
वराहचर्मादिकृतपादत्रानसमन्वितः । मातङ्गकृत्तिविलसत्कञ्चुकावृतविग्रहः ॥१४॥
पिनाकसदृशं तस्य धनुरस्त्येकमुत्तमप् । मुष्टिना हस्तलग्नेन धनुषा स विराजितः ॥१५॥
तन्निषङ्गशरैः पूर्णं धारयन्ती तदङ्गना । सवर्णवाससा तं हि समायास्यति पृष्ठतः ॥१६॥
गुञ्जादिविधृतापारभूषणावलिभासुरा । स मृगाजिनसर्वाङ्गो मधुपिङ्गललोचनः ॥१७॥
तद्दृष्टिपातभीत्यैव पलायन्ते मृगाण्डजाः । किं पुनस्तच्छराघातं मृगः कः सोदुमर्हति ॥१८॥
मृगं व महिषं वापि सृमरं चमरं रुरुम् । कोलं शललकं चैव शशं खङ्गं च विध्यति ॥१९॥
करीन्द्रशुण्डाकाण्डानि गिरीन्द्रशिखराण्यपि । स्वकाण्डशरकाण्डैश्च खण्डयत्येव भिल्लराट् ॥२०॥
व्याघ्रं वापि तरक्षुं वा स विध्यत्येव दुःसहः । सदा कटितटोद्भासिखङ्गखेटकशोभितः ॥२१॥
आखेटकपरीवारेर्जालजालैः सदाऽऽवृतः । त्रिसहस्रमहाभिल्लैः क्रूरेः क्रूरतरैर्वृतः ॥२२॥
ते नित्यं शस्त्रपाषाणखङ्गखेटधराः सदा । धनुःशरकराश्चान्ये नित्यं तमनुयायिनः ॥२३॥
व्याघ्रवीयैः श्वमिश्चैव करालोन्नतदंष्ट्रिभिः । कूजद्भिरनुधावद्भिस्तैः साकं वक्रपुच्छकैः ॥२४॥
जृम्भमाणललज्जिह्वादीर्घश्रोत्रोरुलोचनैः । नीलपीत्यारुणैर्वर्णैर्लालातन्तुयुतैर्मुखैः ॥२५॥
शशान्वराहांश्च मृगाननुद्रुत्याशुचिस्तदा । विदारयन्ति दशनैस्तद्रक्तापूरितैर्मुखैः ॥२६॥
मृगान् पार्श्वोदरान्त्रेषु वृक्णैश्च वृषणैस्तथा । शरपातात् पूर्वमेव धावन्त्येते सुदुःसहाः ॥२७॥
भिल्लानां पुरतो देवि तस्मिन् सुगहने वने । स मुष्टिधृतचर्मस्थश्येनैरुग्रारुणाक्षिभिः ॥२८॥
पक्षिजालं निहन्ति स्म विसृष्टकरबन्धनैः । स मण्दलपरिभ्रश्यन्नखतुण्डोरुकुट्टनैः ॥२९॥
पक्षपादप्रहारैस्तां बलाकापङ्क्तिमुत्थिताम् । गजनीला महाभिल्लाः सर्वे मल्लिङ्गपूजकाः ॥३१॥
तेषां श्रेष्ठोऽथ मेधावी जपो नाम्ना महाबलः । पत्न्या समन्वितो नित्यं झषान् सरसि इन्त्यपि ॥३२॥
हत्वा वराहान् पृषतान् रुरूकन्याञ्छशांस्तथा । सुस्वादुमांसमुत्कृत्य निष्टप्यास्वाद्य शोभते ॥३३॥
अन्यदादाय जालेन वारयन् भूरि तद्वलम् । संप्रेषयति तद्गौरि गृहं मिल्लगणैस्तदा ॥३४॥
सुस्वादुभांसं पेश्यां स निक्षिप्यायाति मां तदा । भवरोगहरं नाम्ना तीर्थं तत्रास्ति शैलजे ॥३५॥
आयुर्वेदः पुरा दत्तो मयाऽश्विभ्यां सुपूजितः । स्नात्वा तस्मिन् महातीर्थे पूतौ देवभिषग्वरौ ॥३६॥
देवपङ्क्तिगतौ चापि भवतां सोमपीथिनौ । ताभ्यां स्तुतो‍ऽहं कल्याणि तत्स्तुतिं श्रृणु शैलजे ॥३७॥
पूजितो बिल्वपत्रैश्च वैद्यनाथो महेश्वरि ।
अश्विनौ -
भिषग्वरं देववनं महेशं गङ्गाधरं सोमहुताशनेत्रम् ।
सुपद्ममित्रान्तरवxनं त्वां भजाव शम्भुं सुहिरण्यबाहुम् ॥३९॥
दशशतवदनेक्षणोरुपादैः दशशतनयनेन संस्तुताङ्घ्रिम् ।
दशशतरुद्रगणाभिपूज्यलिङ्गं दशशतकिरणाक्षिxनतौ स्वः ॥४०॥
ताभ्यां स्तुतोऽहं कल्याणि कृतौ देवभिषावरौ । तीर्थोत्तमे तदा स्नात्वा गृह्णात्यास्येन वै जलम् ॥४१॥
दवभस्माङ्किताङ्गः स पृष्टबद्धशरावरः । शिञ्जिनीसहितो भस्वदुपवीतशरासनः ॥४२॥
बिल्वपत्राण्यथादाय मांसपेशीं तथा करे । स समायाति मां गौरि पत्न्या सह समन्वितः ॥४३॥
सुरैः पूर्वकृतां पूजां रत्नैर्बिल्वैश्च शङ्करि । पादत्राणपदा गौरि सदा दूरीकरोति सः ॥४४॥
स्वगण्डूषजलैः स्नाप्य लिङ्गं मङ्गलदं मम । पातयित्वा बिल्वपत्रं तन्मांसं विनिवेद्य च ॥४५॥
लिङ्गमौलिं कराभ्यां च स्पृष्ट्वा क्रोशति भैरवम् ॥४६॥
भिल्लः -
अहो महादेव सदाशिवेश प्रसीद मय्यद्य महाघपुञ्जे ।
त्वत्पादभक्त्या गणयामि नामरान् द्विजा मनुष्याश्च कियन्महेश्वर ॥४७॥
कियन्ति पापानि कृतानि चेत् किमु उत्पाटये युर्भवतो‍द्य शिष्यम् ।
यदि स्मरारेश्चरणारविन्दं स्मरामि तस्मान्न भयं ममाद्य ॥४८॥
इत्थं मद्भक्तिगर्वेण भिल्लो वदति शङ्करि । सुप्रीतोऽस्ति महादेव पूजया मम केवलम् ॥४९॥
इति श्रुत्वाऽथ तद्वाक्यं तद्भक्त्याहं सुतोषितः । त्रिरोंकारध्वनियुतं प्रतिशब्दं ददाम्यहम् ॥५०॥
तच्छ्रुत्वा प्रणतो गौरि भिल्लो याति स्वकं गृहम् ।
पत्न्या तथा विशालाक्षि स भुङ्क्ते बान्धवैः सह ॥५१॥
मृगाजशशगोधानां मांसं स्वादु निवेदितम् । अत्यन्तं घर्मतप्तोऽपि वृष्टिधारान्वितो‍ऽपि वा ॥५२॥
क्षुच्छ्रान्तोऽपि महादेवि नियमान्मम पूजकः । प्रत्यहं मां समभ्यर्च्य भुङ्क्ते मांसानि केवलम् ॥५३॥
एवं संवसतस्तस्य कालो भूयानवर्तत । तद्भीत्या वायुरपि च न वाति मनुजः कथम् ॥५४॥
समायाति वनं गौरि ब्रह्मविष्ण्वादयः सुराः । निशि प्रत्यहमागत्य साङ्गं कुर्वन्ति पूजनम् ॥५५॥
प्रातः सङ्गवमध्याह्नकालादपि महेश्वरि । सायङ्काले महादेवि पूजा प्रियकरी मम ॥५६॥
तत्रापि निशि पूजा मे देवि प्रीतिकरी मम ॥५७॥
निशासु सितभस्मधृग् विमलशाङ्गलिङ्गार्चको शिवे भवति भाग्यतो मुहुरपारबिल्वार्पणैः ।
सुपीततरकेतकैः समभिपूज्य भुक्तो भवेन्न याभ्यभवयातनामपि श्रृणोति तत्रार्चकः ॥५८॥
शैववर्यगणाः सर्वे मुनयो धैर्यतत्पराः । तस्याज्ञया समायान्ति पर्वकालेषु सादरम् ॥५९॥
स्नात्वा तत्सरसि स्वच्छे भस्मरुद्राक्षभूषणाः । हरिद्वारात् समानीय शुभं गङ्गाजलं शिवे ॥६०॥
रुद्रसूक्तैर्महादेवं वैद्यनाथं तथाम्बिके । तदा कार्पटिकाः शैवाः मल्लिङ्गं सेचयन्त्युमे ॥६१॥
पञ्चामृतैः फलैश्चापि गन्धाद्यैर्बिल्वपत्रकैः । पुष्पैर्वन्येरपारैश्च नैवेद्यैः परिकल्पितैः ॥६२॥
प्रदक्षिणप्रणामाद्यैः स्तुवन्ति स्तव्यमीश्वरम् । वैद्यनाथमहालिङ्गं भवरोगहरं शिवम् ॥६३॥
मुनयः -
त्वामालोक्य सुनिर्वृता मुनिगणाः प्राप्ताभयाः शङ्करं
विश्वेशं मदनान्तकं सुरवरैर्वेदैश्चतुर्भिः स्तुतम् ।
धात्रा वृत्रहणेन मारजनकेनाराधितस्त्वं सदा
विश्वं त्वं तमसां परः श्रुतिशिरोवेद्यस्त्वमाद्यो भिषक् ॥६४॥
या चोमा भगवंस्त्वदङ्कवसतिर्यस्याः कृपालेशतो
जातं विश्वमिदं विचित्रजनकं या सा स्वयं मोहयेत् ।
यां देवा मुनयोऽप्यमी स्तुतिशतैः स्तुत्वा तदीयं शुभं
विज्ञानं समवाप्य मुक्तकरणा मुक्तिं प्रयान्त्येव ते ॥६५॥
भिल्लादस्माच्छिवो यत्करधृतधनुषो भीतिरस्माकमुग्रा -
दुग्रस्त्वं शैववर्ये विततयशःसीम्नि विस्तीर्णधाभ्नि ।
सुधाधामा मूर्धा त्वयि च तदुभयं भिल्लगण्डूषवारि
नो सह्यं नो महेह भवदभयकृपापात्रभूतान् (?) प्रसीद ॥६६॥
इत्थं सर्वमुनीन्द्रैश्च प्रार्थितोऽहं सदाम्बिके । तद्भक्तिदार्ढ्यं विज्ञातुं तान् प्रदर्शयितुं तदा ॥६७॥
वातवृष्टिः समानीता स्तनयित्नुप्रगर्जितैः । शिलापातोपमासारशुण्डाधारातिवर्षणैः ॥६८॥
मेघमालावृतं व्योम समभूत् सूरतस्करम् । तया वृष्टिभयात् सर्वे विलीनास्ते महालये ॥६९॥
भिल्लभीत्या वृष्टिभिया शैवाः कम्पितविग्रहा । एतस्मिन्नन्तरे भिल्लः पत्न्या स्नात्वा समाययौ ॥७०॥
मांसान्यादाय हस्तेन बिल्वपत्राण्यथैकतः । शरावरेण धनुषा पृष्ठलग्नेन शांभवि ॥७१॥
पादत्राणेन च तदा गण्डूषपयसाऽपि च । वैद्यनाथमहालिङ्गे पादत्राणपदा तदा ॥७२॥
तैः शांभवैः कृतां पूजां बिल्वपत्राण्यपातयत् । स्वगण्डूजलैः स्नाप्य तल्लिङ्गं मम मुक्तिदम् ॥७३॥
अपातयद्विल्वपत्रं मांसं तच्च निवेद्य सः । धृत्वा लिङ्गशिरो भिल्ल उदक्रोशद्यथापुरम् ॥७४॥
तद्भक्तिदार्ढ्यं शैवानां प्रदर्शयितुमम्बिके । मया नोच्चरितः शब्दस्तदा भिल्लोऽतिदुःखितः ॥७५॥
स्फुटितं चक्षुरेकं मे स्रवद्रक्तं च लिङ्गगम् । तस्मै सन्दर्शयामीशे दृष्ट्वा मां तादृशं तदा ॥७६॥
शिलीमुखमुखेनैव स्वनेत्रं स तदोत्खनत् । उवाच दुःखितो भिल्लः केन तत् कृतमीश्वर ॥७७॥
तमद्य पातयिष्यामि अहो बत वतेति च । तद्दत्तनेत्रगोलेन लिङ्गनत्रेण शोभितः ॥७८॥
द्वितीयं मे तदा नेत्रं तथा स्फुटितप्रीश्वरि । स्रवद्रक्तं दर्शयामि तस्मै भिल्लवराय हि ॥७९॥
तदा स्वनेत्रमुत्फुल्लं शराग्रेण समुत्खनत् । पश्यन्ति मुनयः सर्वे तद्भिल्लकृतसाहसम् ॥८०॥
उवाच भिल्लो हृष्टः सन् पाणिना नेत्रगोलकम् । प्रगृह्य विनयोपेतः पश्यन्त्या भार्यया तदा ॥८१॥
भिल्लः -
त्वदीयं लोचनं केन स्रवद्रक्तमहो कृतम् । तेन त्वं दुःखितोऽसीति करेणालिङ्ग्य मां तदा ॥८२॥
गृहाण मन्नेत्रवरे फुल्लाम्बुजसमप्रभे । इअति तद्वाक्यमाकर्ण्य त्वया सह सुमध्यमे ॥८३॥
मया चन्द्रकलामौलि महावृषभसंस्थितम् । नीलकण्ठं विरूपाक्षं तस्मै रूपं प्रदर्शितम् ॥८४॥
गणेश्वरैः परिवृतंवृतं मुनिगणैस्तदा । दृष्ट्वा मा मुनयः सर्वे भिल्लस्य पुरतोऽम्बिके ॥८५॥
अन्योन्यं वीक्षयन्तस्ते मां भिल्लं च मुहुर्मुहुः । मत्पाणिकमलेनेशि तन्मुखं रक्तसंवृतम् ॥८६॥
स्पृष्टं तस्येक्षणे दत्ते फुल्लाम्बुजसमप्रभे । अत्यन्तविस्मयाविष्टाः शैवा ऊचुः परस्परम् ॥८७॥
अहोऽस्य तादृशी भक्तिर्दृष्टा न क्कापि न श्रुता । दृष्ट्वास्यैतादृशीं भक्तिं सर्वं सहति शङ्करः ॥८८॥
सहमानो महादेवो भक्त्या सर्वं सहिष्यति । एतादृशं भक्तिभाग्यं प्रापायं बनगोचरः ॥८९॥
सहस्रकमलैर्लिङ्गं यदा संपूजयद्धरिः । सहस्रगणनाशून्ये स्वनेत्रकमलेन हि ॥९०॥
हरिणा पूजितः शम्बुरित्येवं शुश्रुमः कथाम् । नेत्रद्वयमयं प्रादाद् वैद्यनाथाय सत्तमः ॥९१॥
हरेरप्यधिकश्चायं भक्त्या भिल्लो गणोत्तमः । धन्योऽयं कृतकृत्योऽयं मान्योऽस्माकमहो द्विजाः ॥९२॥
एतादृशी भक्तिरपि अस्मास्वद्य न विद्यते । भिल्लमालिङ्ग्य ते शैवा धन्यो मान्योऽसि नः सदा ॥९३॥
त्वमेव भक्तवर्योऽसि धन्यं त्वत्कुलमुन्नतम् । योऽल्पोऽपि भक्तियुक्तः स्याद्देवदेवे महेश्वरे ॥९४॥
भाग्यवानेव भूलोके मान्यो देवगणेष्वपि । यो वै समुन्नतो हीनो भक्त्या देवे महेश्वरे ॥९५॥
सोऽधमश्चेति विज्ञेयो मुनिभिस्तत्वदर्शिभिः । इत्थं वदन्तस्ते शैवा हर्षनिर्भरमानसाः ॥९६॥
मां प्रणम्याथ ते सर्वे तुष्टुवुः प्रमथाधिपम् ॥९७॥
शैवाः -
तारानाथसहोदरापतिकृतापाराब्जपूजाङ्घ्रिकं मारारातिमपारदुःखशमनं घोरादिपापापहम् ।
धीरोदारकुमारशूरजनकं कर्पूरगौरं हरं वारं वारमनुस्मराम हृदये वीरं कृपासागरम्  ॥९८॥
इति स्तुत्वा तदा शैवा मां संस्मृत्य सदा स्थिताः । सारूप्यं च मया दत्तं गणत्वं तस्य शङ्करि ॥९९॥
तस्मै भिल्लाय मल्लोके वासो दत्तस्तदानघे । पूर्वज्ञानविहीनश्च स मां तुष्टाव हर्षितः ॥१००॥
पत्न्या सह विशालाक्षि सगणो देवरूपया ॥१०१॥
भिल्लगणः -
निधनपतिमनीशं शासितारं परेशं गुरुममरवराणां चारणानां च शम्भुम् ।
भुवनजनकमाराद्वेदशीर्षेषु गम्यं कनकगिरिनिवासं वैद्यमाद्यं नतोऽस्मि ॥१०२॥
अभेद्यस्त्वच्छेद्यो निखिलभवरोगादिहरणो महानाद्यो वैद्यस्त्वमसि विबुधाद्याद्य वचसाम् ।
नमोऽन्ताद्यैर्मन्त्रैः प्रकटितयजुर्वेदतिलकैः भवांस्तव्यः सेव्यो हर हरसि पापं मम विभो ॥१०३॥
ईश्वरः -
इति स्तुत्वा तदा भिल्लः स्वभिल्लैर्भार्यया तदा । गणाधीशोऽभवद्देवि विकुण्ठोपरि कल्पिते ॥१०४॥
विष्णुभोगशताधिक्ये लोके वै स्थापितो मया । एतत्तेऽभिहितं गौरि वैद्यनाथस्य वैभवम् ॥१०५॥
यः श्रृणोति सदा भक्त्या मयि भक्तिं लभेत् स वै । लिङ्गमेतत् सकृद् दृष्ट्वा स्नाप्य गङ्गाम्भसा नरः ॥१०६॥
कृतकृत्यो भवेद्गौरि स साक्षाद्गणपो भवेत् । वैद्यनाथमहालिङ्गं सकृद् दृष्ट्वा विमुच्यते ॥१०७॥
अनन्तैरै पापौघैः सद्य एव न संशयः । शैवाश्च सततं भक्त्या बिल्वैर्गङ्गाम्भसा शिवे ॥१०८॥
तल्लिङ्गं पूजयन्त्येव भवबन्धविमुक्तये ।
लिङ्गं मङ्गलदं मनोज्ञममलं श्रीवैद्यनाथाभिधं
दृष्ट्वा संपूज्य बिल्वैः सकृदपि च नरः प्राप्नुयान्मुक्तिकान्ताम् ।
त्यक्त्वा पापौघतापं जनिमृतिगदजापारदुःखैर्विहीनो
हीनोऽपि स्यादवश्यं भवशतजनितं भूरिपुण्यं लभेत ॥१०९॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे वनखण्ड वैद्यनाथमाहात्म्ये भिल्लभक्तिवर्णनं नाम विंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 07, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP